________________
अनुयोगद्वार-चूलिकासूत्रं जीवस्यात्मभावे भवति, आत्मनिजीवे भावः-संश्लिष्टतया सम्बन्धो, विषयस्य घटादेरिति गम्यते, तस्मिन् सति इदं प्रादुर्भवतीत्यर्थः, इदमुक्तं भवति-चक्षुरप्राप्यकारि ततो दूरस्थमपि स्वविषयं परिच्छिनत्तीत्यस्यार्थस्य ख्यापनार्थं घटादिषु चक्षुर्दर्शनं भवतीति पूर्वं विषयस्य भेदेनाभिधेनं कृतं, श्रोतादीनि तु प्राप्यकारीणि ततो द्रव्येन्द्रियसंश्लेषद्वारेण जीवेन सह सम्बद्धमेव विषयं परिच्छिन्दन्तीत्येतद्दर्शनार्थमात्माभावे भवतीत्येवमिह विषय-स्याभेदेन प्रतिपादनमकारीति, उक्तं च-"पुढे सुणेइ सदं रूवं पुण पासई अपुढे तु"इत्यादि। ___ अवधेर्दर्शनमवधिदर्शनम्, अवधिदर्शन:-अवधिदर्शनावरणक्षयोपशमसमुद्भूतावधिदर्शनलब्धिमतो जीवस्य सर्वेष्वपि रूपिद्रव्येषु भवति, न पुनः सर्वपर्यायेषु, यतोऽवधेरुत्कृष्टतोऽप्येकवस्तुगताः सङ्खयेया असङ्ख्येया वा पर्याया विषयत्वेनोक्ताः, जघन्यतत्सु द्वौ पर्यायौ द्विगुणितौ, रूपगन्धस्पर्शलक्षणाश्चत्वारः पर्याया इत्यर्थः, उक्तं च-. .
"दव्वाओ असंखे) संखे) आवि पञ्जवे लहइ।
दो पञ्जवे दुगुणिए लहइ य एगाउ दव्वाओ॥" अत्राह-ननु पर्याया विशेषा उच्यन्ते, न च दर्शनं विशेषविषयं भवतिमर्हति, ज्ञानस्यैव तद्विषयत्वात्, कथमिहावधिदर्शनविषयत्वेन पर्याया निर्दिष्टाः, साधूक्तं केवलं पर्यायैरपि घटशरावोदञ्चनादिभिर्मेदादि सामान्यमेव तथा तथा विशिष्यते न पुनस्ते तत एकान्तेन व्यतिरिच्यन्ते, अतो मुख्यतः समान्यं गुणीभूतास्तु विशेषां अप्यस्य विषयीभवन्तीति ख्यापनार्थोऽत्र तदुपन्यासः, केवलं-सकलदृश्यविषयत्वेन परिपूर्ण दर्शनं केवलदर्शनिनः-तदावरणक्षयाविर्भूततल्लब्धिमतो जीवस्य सर्वद्रव्येषु मूर्तामूर्तेषु सर्वपर्यायेषु भ भवतीति। मनःपर्यायज्ञानं तु तथाविधक्षयोपशमपाटवात् सर्वदा विशेषानेव गुहृदुत्पद्यते न सामान्यम्, अतस्तदर्शनं नोक्तमिति, तदेतदर्शनगुणप्रमाणम्। . मू.(३०९ वर्तते) से किंतंचरित्तगुणप्पमाणे?, २ पंचविहे पन्नत्ते, तंजहा-सामाइअचरित्तगुणप्पमाणे छेओवट्ठावणचरितगुणप्पमाणे परिहारविसुद्धिअचरित्तगुणप्पमाणे सुहुमसंपरायचरित्तगुणप्पमाणे अहक्खायचरित्तगुणप्पमाणे।
सामाइअचरित्तगुणप्पमाणे दुविहे पन्नत्ते, तंजहा-इत्तरिए अ आवकहिए । छेओवटुवणचरित्तगुणप्पमाणे दुविहे पन्नत्ते, तंजहा-साइआरे अनिरइआरे। परिहारविसुद्धिअचरित्तगुणप्पमाणे दुविहे पन्नत्ते, तंजहा-निव्विसमाणए अनिविट्ठकाइए ।
सुहुमसुपरायचरित्तगुणप्पमाणे दुविहे पन्नत्ते, तंजहा-(संकिलिस्समाणए यविसुज्झमाणए य, अहक्खायचरित्तगुणप्पमाणे दुविहे पन्नते, तंजहा-) पडिवाई अअपडिवाई । (अहवा) अहक्खायचरित्तगुणप्पमाणे दुविहे पन्नत्ते, तंजहा-छउमथिए अकेवलिए या सेतं चरित्तगुणप्पमाणे, से तं जीवगुणप्पमाणे, से तं गुणप्पमाणे।
वृ. चरन्त्यनिन्दितमनेनेति चरित्रं, तदेव चारित्रं, चारित्रमेव गुणः २ स एव प्रमाणं २सावद्ययोगविरतिरूपं, तच्च पञ्चविधं सामायिकादि, पञ्चविधमप्येतदविशेषतः सामायिकमेव, छेदादिविशेषैस्तु विशेष्यमाणं पञ्चधा भिद्यते, तत्राद्यं विशेषाभावात् सामान्यसंज्ञायामेवाव- : तिष्ठते सामायिकमिति, सामायिकं पूर्वोक्तशब्दार्थं, तच्चेत्वरं यावत्कथिकं च, तत्त्वरं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org