________________
मूलं-३१०
४३७ 'नामाउडिउ'त्ति आकुट्टितनामा प्रस्थकोऽयमित्येवं नामाङ्कितो निष्पन्नः प्रस्थक इति।
एवमेव व्यवहारस्यापीति, लोकव्यवहारप्राधान्येनामयं व्यवहारनयः, लोके च पूर्वोक्तावस्थासु सर्वत्र प्रस्थकव्यवहारो दृश्यतेऽतो व्यवहारनयोऽप्येवमेव प्रतिपद्यते इति भावः।
'संगहस्से'त्यादि, सामान्यरूपतया सर्व वस्तु संगृह्णाति-क्रोडीकरोतीति संग्रहस्तस्य मतेन चितादिविशेषणैर्विशिष्ट एव प्रस्थो भवति, नान्यः, तत्र चित्तो-धान्येन व्याप्तउ, सच देशतोऽपि भवत्यत आह-'मितः' पूरितः, अनेनैव प्रकारेण मेयं समारूढं यत्र स आहितदेराकृतिगणत्वान्मेयसमारूढः, अयमत्र भावार्थः-प्राक्तननयद्वस्याविशुद्धत्वात् प्रस्थककारणमपि प्रस्थक उक्तः अनिष्पन्नः प्रस्थकोऽपि स्वकार्याकरणकालेऽपि प्रस्थक इष्टः, अस्य तु ततो विशुद्धत्वाद्धान्यमानलक्षणं स्वार्थं कुर्वन्नेव प्रस्थकः, तस्य तदर्थत्वात्, तदभावे च प्रस्थकव्यपदेशेऽतिप्रसङ्गादिति यथोक्त एव प्रस्थकः, सोऽपि प्रस्थकसामान्यव्यतिरेकात्व्यतिरेके चाप्रस्थकत्वप्रसङ्गात् सर्व एक एव प्रस्थक इति प्रस्तुतनयो मन्यते, सामान्यवादित्वादिति।
'उज्जुसुयस्से'त्यादि, ऋजुसूत्रः-पूर्वोक्तशब्दार्थः तस्य निष्पन्नस्वरूपोऽर्थक्रियाहेतुः प्रस्थकोऽपि प्रस्थकः, तत्परिच्छिन्नं धान्यादिकमपि वस्तु प्रस्थकः, उभयत्र प्रस्थकोऽयमिति व्यवहारदर्शनात्, तथाप्रतीतेः, अपरंचासौ पूर्वस्याद्विशुद्धत्वाद्वर्तमाने एव मानमेये प्रस्थकत्वेन प्रतिपद्यते, नातीतानागतकाले, तयोविनष्टानुत्पन्नत्वेनासत्त्वादिति।।
'तिण्हं सद्दनयाण'मित्यादि, शब्दप्रधाना नया: शब्दनयाः-शब्दसमभिरूद्वैवंभूताः, शब्देऽन्यथा स्थितेऽर्थमन्यथा नेच्छन्त्यमी, किन्तु?, यथैवशब्दो व्यवस्थितस्तथैव शब्देनार्थंगमयन्तीत्यतः शब्दनया उच्यन्ते, आद्यास्तु यथाकथञ्चिच्छब्दाः प्रवर्तन्तामर्था एव प्रधानमित्यभ्युपगमपरत्वादर्थनयाः प्रकीर्त्यन्ते, अत एषांत्रयाणां शब्दनयानां 'प्रस्थकार्थाधिकारज्ञः' प्रस्थकस्वरूपपरिज्ञानोपयुक्तः प्रस्थकः, भावप्रधाना ह्येते नया इत्यतो भावप्रस्थकमेवेच्छन्ति, भावश्च प्रस्थकोपयोगोऽतः स प्रस्थकः, तदुपयोगवानपि च ततोऽव्यतिरेकात् प्रस्थकः, यो हि यत्रोपयुक्तः सोऽमीषां मते स एव भवति, उपयोगलक्षणो जीवः, उपयोगश्चेत् प्रस्थकादिविषयतया परिणतः किमन्यञ्जीवस्य रूपान्तरमस्ति? यत्र व्यपदेशान्तरं स्यादिति भावः,
'जस्स वा वसेणे'त्यादि, यस्य वा प्रस्थककर्तृगतस्योपयोगस्य वशेन प्रस्थको निष्पद्यते. तत्रोपयोगे वर्तमानः कर्ता प्रस्थको, न हि प्रस्थकेऽनुपयुक्तः, प्रस्थकं निवर्तयितुं कर्ता समर्थः, ततस्तदुपयोगानन्यत्वात् स एव प्रस्थकः, इमांच तेऽत्र युक्तिमभिदधति-सर्वं वस्तु स्वात्मन्येव वर्तते, न त्वात्मव्यतिरिक्त आधारे, वक्ष्यमाणयुक्त्वा एतन्मतेनान्यस्यान्यत्र वृत्त्ययोगात्, प्रस्थकश्च निश्चयात्मकं मानमुच्यते, निश्चयश्च ज्ञानं, तत्कथं जडात्मनि काष्ठभाजने वृत्तिमनुभविष्यति?, चेतनाचेतनयोः सामानाधिकरण्याभावात्, तस्मात्, प्रस्थकोपयुक्त एव प्रस्थकः। सेत'मित्यादि निगमन्। __ मूं.(३१० वर्तते) से किंतं वसहिदिढतेणं?, २ से जहानामए केई कंचि पुरिसंवएज्जाकहिं भवं वससि?, तं अविसुद्धो नेगमो भणइ-लोगे वसामि, लोगे तिविहे पन्नत्ते, तंजहाउड्डलोए अहोलोए तिरिअलोए, तेसु सव्वेसु भवं वससि?, विसुद्धो नेगमो भणइ-तिरिअलोए वसामि, तिरिअलोए जंबुद्दीवाइआ संयभूरमणपज्जवसाना असंखिज्जा दीवसमुद्दा पन्नत्ता,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org