SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ मूलं - २९९ केष्वपि सर्व वाच्यं, वायुषु तु वैक्रियकृतो विशेषः समस्ति, तदभिधानार्थमाह ‘वाउकाइयाणं भंते!'इत्यादि, इहापि सर्व पृथिवीकायिकवद्वाच्यं, नवरं वैक्रियाणि बद्धान्यमीषामसङ्ख्येानि लभ्यन्ते तानि च प्रतिसमयमपहूियमाणानि क्षेत्रपल्योपमस्यासङ्ख्येयभागे यावन्तो नभःप्रदेशा भवन्ति तत्ससङ्ख्यैः समयैरपह्रियन्ते, क्षेत्रपल्योपमासङ्ख्ययभागवर्तिप्रदेशराशितुल्यानि भवन्तीत्यर्थः 'नो चेव नं अवहिया सिय'त्ति परप्रत्यायनार्थ प्ररूपणैवत्थं क्रियते, न तु तानि कदाचित्केनचिदित्थमपहूियन्त इति भावः, ननु वायवः सर्वेऽप्यसङ्ख्येलोकाकाशप्रदेशप्रमाणा उक्ताः, तद्वैक्रियशरीरिण: किमित्थं स्तोका एव पठ्यन्ते ?, उच्यते, चतुर्विधा वायवः- सूक्ष्मा अपर्याप्ताः पर्याप्ताश्च बादरा अपर्याप्ताः पर्याप्ताश्च तत्राद्यराशित्रये प्रत्येकं ते असडूयेयलोकाकाशप्रदेशप्रमाणा वैक्रियलब्धिशून्याश्च, बादरपर्याप्तास्तु सर्वेऽपि प्रतरासङ्ख्येयभागवर्तिप्रदेशराशिसङ्ख्या एव, तत्रापि वैक्रियलब्धिमन्तस्तदसङ्ख्येय भागवर्तिन एव न शेषाः, येषामपि च वैक्रियलब्धिस्तेष्वपि मध्येऽसङ्ख्यात भागवर्तिन एव बद्धवैक्रियशरीराः पृच्छासमये प्राप्यन्ते नापरे, अतो यथोक्तप्रमाणान्येवैां बद्धवैक्रियशरीराणि भवन्ति नाधिकानीति, अत्र केचिन्मन्यन्ते-ये केचन बान्ति वायवस्ते सर्वेऽपि वैक्रियशरीरे वर्तन्ते, तदन्तरेण तेषां चेष्टाया एवाभावात्, तच्च न घटते, यतः सर्वस्मिन्नपि लोके यत्र क्वचित् शुषिरं तत्र सर्वत्र चला वायवो नियमात् सन्त्येव, यदि च ते सर्वेऽपि वैक्रियशरीरिणः स्युस्तदा बद्धवैक्रियशरीराणि प्रभूतानि प्राप्नुवन्ति, न तु यथोक्तमानान्येवेति, तस्मादवैक्रियशरीरिणोऽपि वान्ति वायवः, अत्थि णं भंते ! ईसि पुरेवाया पच्छावाया मंदावाया महावाया वायंति ?, हंता अत्थि, कया णं भंते! जाव वायंति ?, गोयमा ! जया नं वाउयाए अहारियं रीयइ, जया णं जाव वाउयाए उत्तर-किरियं सीयइ, जया णं वाउकुमारा वाउकुमारीओ वा अप्पणो वा परस्स वा तदुभयस्स वा अट्ठाए वाउयायं उदीरंति तया णं ईसिं जाव वायंति" आहारियं रीयइ' त्ति रीतं रीति: स्वभाव इत्यर्थः, तस्यानतिक्रमेण यथारीतं रीयते-गच्छति, यदा स्वाबाविकौदारिकशरीरगत्यागच्छतीत्यर्थः, उत्तरकिरियंति - उत्तरा - उत्तरवैक्रियशरीराश्रया गतिलक्षणाक्रिया यत्र गमने तदुत्तरक्रियं तद्यथा भवतीत्येवं यदा रीयते । तदेवमत्र वातानां वाने प्रकारत्रयं प्रतिपादयता स्वाभाविकमपि गमनमुक्तम्, अतो वैक्रियशरीरिण एव ते वान्तीति न नियम इत्यलं विस्तरेण । वनस्पतिसूत्रे ऽपि सर्व पृथ्वीकायिकवद्वक्तव्यं, नवरं पृथिवीकायिकानां प्रत्येकशरीरित्वात् स्वस्थानबद्धौदारिकसङ्ख्यातुल्यानि तैजसकार्मणान्युक्तानि अत्र तु वनस्पतीनां बहूनां साधारणशरीरत्वाच्छरीरिणामानन्त्येऽप्यौदारिकशरीराण्यसङ्ख्यातान्येव, तैजसकार्मणानि तु प्रतिजीवं पृथग्भावादनन्तानि ततो न स्वस्थानबद्धौदारिककायतुल्यानि वक्तव्यानि, किन्तु यथौधिकतैजसकार्मणान्यभिहितानि तथैवात्रापि भावनीयानि । ४१९ मू. (२९९ वर्तते ) बेइंदियाणं भंते! केवइया ओरालियसरीरा पं० ?, गो० ! दुविहा पत्रत्ता, तंजहा- बद्धेल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धेलया ते नं असंखिज्जा असंखिज्जाहिं उस्सप्पिणी ओसप्पिणीहिं अवहीरंति कालओ खेत्तओ असंखेज्जाओ सेढीओ पयरस्सअसंखिज्जइभागो तासि नं सेढीणं विक्खंभसूई असंखेज्जाओ जोअणकोडाकोडीओ असंखिज्जाइ सेढिवग्गमूलाई बेइंदियाणं ओरालियबद्धेल्लएहिं पयरं अवहीरइ असंखिज्जाहिं उस्सप्पिणी For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy