SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ - ४१८ अनुयोगद्वार-चूलिकासूत्रं याणि मुक्तौदारिकवद्वाच्यानि, आहारकाणि बद्धान्येषां न सम्भवन्ति, चतुर्दशपुर्वधरसम्भवित्वात्तबन्धस्य, मुक्तानि तु मुक्तौदारिकवद्वाच्यानि, मनुष्यभवे कृतोज्झिताहारकशरीराणां प्रतिपतितचतुर्दशपूर्वविदां नारकेषूत्पत्तिसम्भवादौदारिकोक्तन्यायेनानन्तानां तेषां सम्भव इति भावः, तैजसकार्मणानि तु बद्धानि मुक्तानि च यथेषामेव वैक्रियाणि तथा वक्तव्यानि। उक्तानि पञ्चापि शरीराणि नारकेषु, अथासुरकुमारेषु तानि वक्तुमाह 'असुरकुमाराणं भंते!'इत्यादि, औदारिकाण्यत्रापि नारकवद्वाच्यानि, वैक्रियाण्यपि तथैव, नवरमसुरकुमाराणां नारकेभ्यः स्तोकत्वात् प्रस्तुतशरीरोण्यपि स्तोकान्यतो विष्कम्भसूच्या विशेषः, सा चेयं-'तासिणं सेढीणं विक्खंभसूई'त्यादि, तासाम्-अनन्तरोक्तश्रेणीनां विष्कम्भसूचिः-विस्तरणश्रेणिरङ्गलप्रथमवर्गमूलस्यासङ्ख्येयभागाः, इदमुक्तं भवति-प्रतरस्याङ्गुलप्रमाणे क्षेत्रे यावत्यः श्रेणयो भवन्ति तासां यत्प्रथमवर्गमूलं तस्याप्यसङ्घयेयभागे याः श्रेणयो भवन्ति तत्प्रमाणैव विस्तरसूचिरिह ग्राह्या, सा च नारकोक्तसूचेरसङ्ख्याततमे भागे सिद्धा भवति, ततो नारकाणामसुरकुमारा असङ्ख्येयभागे वर्तन्ते इति प्रतिपादितं भवति, इत्थमेव चैतत्, यतः प्रज्ञापनामहादण्डके केवलरत्नप्रभानारकाणामपि समस्ता अपि भवनपतयोऽसङ्ख्याततमभागवर्तित्वेनोक्ताः किं पुनः समस्तनारकाणां केवला (अ) सुरकुमारा इति, आहारकाणि नारकदेव, तैजसकार्मणान्यत्रैवोक्तवैक्रियवदिति । एवं समानैव वक्तव्यता यावत्स्तनितकुमाराः । मू.(२९९ वर्तते) पुढविंकाइयाणं भंते! केवइया ओरालिअसरीरा पं०?, गो०! दुविहां पन्नत्ता, तंजहा-बद्धलया यमुक्केलया य, एवंजहाओहिआओरालिअसरीरा तहा भा०, पुढविका० केवइया वेउव्विअसरीरा पं०?, गो० ! दुविहा पन्नत्ता, तंजहा-बद्धेल्लया य मुक्केल्लया य, तत्थ नंजे ते बद्धेल्लया ते नं नत्थि, मुक्केल्लया जहा ओहिआणं ओरालिअसरीरा तहा भा०, आहारगसरीरावि एवं चेव भाणियव्वा, तेअगकम्मसरीरा जहा जहा एएसिं चेव ओरालिअसरीरा तहा भाणिअव्वा, जहा पुढविकाइयाणं एवं आउकाइयाणं तेउकाइयाण य सव्वसरीरा भाणियव्वा। वाउकाइयाणं भंते! केवइयाओरालिअसरीरा पं०?, गो०! दुविहा पन्नत्ता, तंजहा-बद्धेल्लया य मुक्केल्लया य, जहा पुढविकाइयाणं ओरालिअसरीरा तहा भाणिअव्वा, वाउकाइयाणं भंते ! केवइया वेउव्विअसरीरा पं०?, गो० ! दुविहा पन्नत्ता, तंजहा-बद्धेलया य मुक्केल्लया य, तत्थ नंजे ते बद्धेलया ते नं असंखिज्जा समए २ अवहीरमाणा २ खेतपलिओवमस्स असंखिज्जइभागमेत्तेणं कालेणं अवहीरंति नो चेवनं अवहिआ सिआ, मुक्केल्लया वेउव्विअसरीरा य जहा पुढविकाइयाणं तहा भाणिअव्वा, तेअगकम्मसरीरा जहा पुढविकाइयाणं तहा भाणिअव्वा, वणस्सइकायाणं भंते ! केवइया तेअगसरीरा पं०?, गो० ! दुविहा पनत्ता, जहा ओहिआ तेअगकम्मसरीरा तहा वणस्सइकाइयाणवि तेअगकम्मसरीरा भाणिअव्वा। वृ.औदारिकाणि बद्धानि मुक्तानि चात्रौधिकौदारिकवद्वाच्यानि, केवलं यदोधिकबद्धानामसङ्घयेयप्रमाणत्वमुक्तं तदिह लघुतरासङ्ख्येयकेन द्रष्टव्यं, तत्राप्कायादिशरीरैः सह सामान्येन चिन्तितत्वाद्, अत्र तु केवलपृथ्वीकायमात्रप्रस्तावादिति भावः, वैक्रियाहारकाणि बद्धानि अमीषां न सन्ति, मुक्तानि तु प्राग्वदेव मनुष्यादिभवेषु संभवन्ति, तानि तु मुक्तौधिकौदारिकवदभिधानीयानि, तैजसकार्मणान्यत्रैवोक्तौदारिकवदृश्यानि, एवमपूकायिकतेजःकायि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy