SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ४२० अनुयोगद्वार-चूलिकासूत्रं ओसप्पिणीहि कालओ खेत्तओ अंगुलपयरस्स आवलिआए असंखिज्जइभागपडिभागेणं, मुक्केल्लया जहा ओहिआ ओरालिअसरीरा तहा भाणिअव्वा, वेउब्विअआहारगसरीरा बद्धेल्लया नत्थि मुक्केल्लया जहा ओहिआ ओरालिअसरारा तहा भाणिअव्वा, तेअगकम्मगसरीरा जहा एएसिं चेव ओरालिअसरीरा तहा भाणिअव्वा, जहा बेइंदिआणं तहा तेइंदियचउरिदियाणवि भाणिअव्वा। पंचिंदियतिरिक्खजोणियाणवि ओरालिअसरीरा एवं चेव भाणिअव्वा, पंचिंदिअतिरिक्खजोणिआणं भंते ! केवइया वेउव्विअसरीरा पन्नत्ता?, गो० ! दुविहा पन्नत्ता, तंजहा-बद्धल्लेया यमुक्केलेया य, तत्थणंजे ते बद्धलेया तेनं असंखिज्जा असंखिज्जाहिं उस्सप्पिणीओरप्पिणीहिं अवहीरंति कालओ खेतओ असंखिज्जाओ सेढीओ पयरस्स असंखिज्जइभागो तासिणं सेढीणं विखंभसूई अंगुलपढमवग्गमूलस्स असंखिज्जइभागो, मुक्केल्लया जहा ओहिआ ओरालिआ तहा भा०, आहारयसरीरा जहा बेइंदिआणं तेअगकम्मसरीरा जहा ओरालिया। _वृ.अत्रबद्धौदारिकाण्यसङ्घयेयानि कालतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि, क्षेत्रतस्तु प्रतरासङ्घयेयभागवर्त्य सङ्घयेयश्रेणीनां यः प्रदेशराशिः तत्तुल्यानि, तासां च प्रतरासङ्ख्येयभागवतिश्रेणीनां विष्कम्भसूचिरसङ्ख्येययोजनकोटिकोटीप्रमाणाऽत्र ग्राह्या। एतदेव विशेषतरमाह-'असंखेज्जाई सेढिवग्गमूलइ'ति, एकस्या नभः श्रेणेर्यः प्रदेशराशिः स सद्भावतोऽसङ्ख्यातप्रदेशात्मकोऽपि कल्पनया पञ्चषष्टिसहस्राणि पञ्चशतानि षट्त्रिंशदधिकानि ६५५३६, अस्य प्रथमं वर्गमूलं २५६, द्वितीयं १६, तृतीयं ८, चतुर्थं २, एतानि कल्पनया चत्वार्यपि सद्भावतोऽसङ्ख्येयानि वर्गमूलानि, एतेषां च मीलने कल्पनया अष्टसप्तत्यधिके द्वे शते सद्भावतस्त्वसङ्ख्येयाः प्रदेशा जायन्ते, तत एतावत्प्रदेशा प्रस्तुतविष्कम्भसूचिर्भवति, ईदानी प्रस्तुतशरीरमानमेव प्रकारान्तरेणाह__'बेइंदियाणं ओरालियसरीरेहिं बद्धल्लएहि मित्यादि, द्वीन्द्रियाणां यानि बद्धान्यौदारिकशरीराणि तैः प्रतरः सर्वोऽप्यपहियते, कियता कालेनत्याह-असङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः, केन पुनः क्षेत्रप्रविभागेन् कालप्रविभागेन च?, एतावता कालेनायमपहियत इत्याह-अङ्गुलप्रतरलक्षणस्य क्षेत्रस्य आवलिकालक्षणस्य च कालस्य योऽसङ्घयेयभागरूपः प्रविभाग:अंशस्तेन, इदमुक्तं भवति-योकैकेन द्वीन्द्रियशरीरेण प्रतरस्यैकैकोऽङ्गुलासङ्घयेयभाग एकैकनावलिकाऽसङ्ख्येयभागे एकैकेनावलिकाऽसङ्घयेयभागेन प्रत्येकं क्रमेण स्थाप्यमानानि द्वीन्द्रियशरीराण्यसङ्घयेयोत्सर्पिण्यवसर्पिणीभिः सर्वंप्रतरं पूरयन्तीत्यपि द्रष्टव्यं, वस्तुत एकार्थत्वादिति, मुक्तौदारिकवैक्रियाहारकाणि पृथ्वीकायिकवद्वाच्यानि, तैजसकार्मणानि तु यथैषामेवौदारिकाणि । त्रीन्द्रियचतुरिन्द्रियाणामप्येवमेव वाच्यम्। __पञ्चेन्द्रियतिरश्चामपीत्थमेव, नवरमेतेषु केषाञ्चिद्वैक्रियलब्धिसम्भवतो बद्धान्यपि वैक्रियशरीराणि लभ्यन्ते, अतस्तत्सङ्ख्यानिरूपणार्थमाह-'पंचिंदियतिरिक्खजोणिआणं भंते! केवइया वेउव्वियसरीरा?' इत्यादि, इह च सामान्येनासङ्ख्येयतामात्राव्यभिचारतस्त्रिन्द्रियादीनामतिदेशो मन्तव्यो, न पुनः सर्वथा परस्परं सङ्ख्यासाम्यमेतेषां, यत उक्तम् एएसिणं भंते ! एगिदियबेइंदियतेइंदियचउरिंदियपंचिंदियाणं कयरे कयरेहितो अप्पा वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy