SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ मूलं-२७० ३९७ एवं स्थितोऽसौ लोको बुद्धिपरिकल्पनया संवर्त्य घनीक्रियते, तथाहि-रज्जुविस्तीर्णायास्त्रसनाडिकाया दक्षिणदिग्वबंधोलोकखण्डमधस्ताद्देशोनरज्जुत्रयविस्तीर्णं क्रमेण हीयमानविस्तरं तदेवोपरिष्टाद्रज्जवसंख्येयभागविष्कम्भं सातिरेकसप्तरज्जूच्छ्रितं गृहीत्वा वसनाडिकाया एवोत्तरपार्वे विपरीतं सनात्यते, अधस्तनं भागमुपरि कृत्वा उपरितनं चाधः समानीय संयोज्यत इत्यर्थः, एवं च कृते अधोवर्तिलोकस्यार्द्ध देशोनरज्जुचतुष्टविस्तीर्ण सातिरेकसप्तरज्जूच्छ्रितं बाहल्यतोऽपि अध: क्वचिद्देशोनसप्तरज्जुमानमन्यत्र त्वनियतबाहल्यं जायते, इदानीमुपरितलोकार्द्ध संवर्त्यते-तंत्रापि रज्जुविस्तरायास्त्रसानाडिकाया दक्षिणदिग्वर्तिनी ब्रह्मलोकमध्यादधस्तनमुपरितनं च द्वे अपि खण्डे ब्रहलोकमध्ये प्रत्येकं द्विरज्जुविस्तीर्णे उपर्यलोकसमीपे अधस्तु रत्नप्रभाक्षुल्लकप्रतरसमीपे अङ्गुलसहस्रभागविस्तरवती देशोनसार्द्धरज्जुत्रयोच्छ्रिते बुद्धया गृहीत्वा तस्या एवोत्तरपार्वे पूर्वोक्तस्वरूपेण वैपरीत्येन सङ्घात्येते, ___ एवं च कृते उपरितनं लोकस्यार्द्ध द्वाभ्यामगुलसहस्रभागाभ्यामधिकं रज्जुत्रयविष्कम्भम्, इह चतुर्णां खण्डानां पर्यन्तेषु चत्वारोऽङ्गुलसहस्रभागा भवन्ति, केवलमेकस्यां दिशि यौ ताभ्यां द्वाभ्यामप्येक एवाङ्गुलसहस्रभागः, एकदिग्वतित्वादेव, अपराभ्यामपिअद्वाभ्यामित्थमेवेत्यतस्तद्वयधिकत्वमुक्तं देशोनसप्तरज्जूच्छ्रितं, बाहल्यतस्तु ब्रह्मलोकमध्ये पञ्चरज्जुबाहल्यमन्यत्र त्वनियतं जायते, इदं च सर्वं गृहीत्वा आधस्त्यसंवर्तितलोकार्द्धस्योत्तरपार्वे संघात्यते, एवं च योजिते आघस्त्यखण्डस्योच्छ्रये यदितरोच्छ्रयादधिकं तद्खण्डित्वा उपरितनसङ्घातितखण्डस्य बाहल्ये ऊर्ध्वायतं संघात्यते, एवं च सातिरेकाः पञ्च रञ्जवः क्वचिद्वाहल्यं सिद्धयति, तथा आधस्त्यखण्डमधस्ताद्यथासम्भवं देशोनसप्तरज्जुबाहल्यं प्रागुक्तम्, अत उपरितनखण्डबाहल्यादेशोनरज्जुद्वयमत्रातिरिच्यत इत्यस्मादतिरिच्यमानवबाहल्यादर्द्ध गृहीत्वा उपरितनखण्डबाहल्ये संयोज्यते, एवं च कृते बाहल्यतस्तावत्सर्वमप्येतच्चतुरस्रीकृतनभ:खण्डं कियत्यपि प्रदेशे रज्ज्वंख्येयभागाधिका: षटञ्जवो भवन्ति, व्यावहारतस्तु सर्वं सप्तरज्जुबाहल्यमिदमुच्यते, व्यवहारनयो हि किञ्चिन्यूनसप्तहस्तादिप्रमाणमपि पटादिवस्तु परिपूर्णसप्तहस्तादिमानं व्यपदिशति देशतोऽपि च दृष्टं बाहल्यादिधर्मं परिपूर्णेऽपि वस्तुन्यध्यवस्यति, स्थूलदृष्टित्वादिति भावः, ___ अत एव तन्मतेनैवात्र सप्तरज्जुबाहल्यता सर्वगता दृष्टव्या, आयमविष्कम्भाभ्यां तु प्रत्येकं देशोनसप्तरज्जुप्रमाणभिदं जातं, व्यवहारतस्त्वत्रापि प्रत्येकं सप्तरज्जप्रमाणता दृश्यते, तदेवं व्यवहारनयमतेनायाभविष्कम्भबाहल्यैः प्रत्येकं सप्तरज्जुप्रमाणो घनो जातः, एतच्च वैशाखस्थानस्थितपुरुषाकारं सर्वत्र वृत्तस्वरूपं च लोकं संस्थाप्य सर्वं भावनीयं, सिद्धान्ते च यत्र क्वचिदविशेषितायाः श्रेष्याः सामान्येन ग्रहणं तत्र सर्वत्रास्य घनीकृतलोकस्य सम्बन्धिनी सप्तरज्जुप्रमाणा साग्राह्या, तथा प्रतरोऽप्येतावत्प्रमाण एव बोद्धव्यः, तदियं सप्तरज्जवायामत्वात् प्रमाणाङ्गलतोऽसङ्ख्येययोजनकोटिकोट्ययता एकप्रादेशिकी श्रेणिः, साचतयैव गुणिता प्रतरः, सोऽपि यथोक्तश्रेण्या गुणितो लोकः, अयमपि सङ्ख्येयेन राशिना गुणिताः सङ्ख्येयेया लोकाः असङ्ख्येयेन तु राशिना समाहतोऽसङ्ख्येया लोकाअनन्तैश्च लोकैरलोकः, नन्वङ्गलादिभिर्जीवाजीवादिवस्तूनि प्रमीयन्त इति तेषां प्रमाणता युक्ता, अलोकेन तु न किञ्चित्प्रमीयते इत् कथं For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy