SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वार-चूलिकासूत्रं मुक्तं ?, सत्यं, किन्तु प्रमाणानुलस्यार्द्धतृतीयोत्सेधाङ्गुलरूपं बाहल्यमस्ति, ततो यदा स्वकीयबाहल्येन शतचतुष्टयलक्षणं दैर्घ्यं गुण्यते तदा अगुलविष्कम्भा सहस्राङ्गुलदीर्घा प्रमाणाङ्गुलविषया सूचिर्जायते, इदमुक्तं भवति___ अर्द्धतृतीयाङ्गुलविष्कम्भे प्रमाणाङ्गुले तिस्रः श्रेणयः कल्प्यन्ते, एका अगुलविष्कम्भा शतचतुष्टदीर्घा, द्वितीयाऽपि तावन्मानैव, तृतीयाऽपि दैर्येण चतुःशतमानैव विष्कम्भे त्व - मुलं, ततोऽस्यापिदैर्ध्याच्छतद्वयं गृहीत्वा विष्कम्भोऽङ्गुलप्रमाणः संपद्यते, तथा च सत्यगुलशतद्वयदीर्घा अगुलविष्कम्भा इयमपि सिद्धा, ततस्तिसृणामप्येतासामुपर्युपरि व्यवस्थापने उत्सेधागुलतोऽगुलसहस्रदीर्घा अडगुलविष्कम्भा प्रमाणाालस्य सूचिः सिद्धा भवति, तत इमां सूचिमधिकृत्योत्सेधागुलात्तत्सहस्रगुणमुक्तं, वस्तुतस्तु चतुःशतगुणमेव, अत एव पृथ्वीपर्वतविमानादिमानान्यनेनैव चतुःशतगुणेन अर्द्धतृतीयाङ्गुललक्षणस्वविष्कम्भान्वितेनानीयन्ते न तु सहस्रगुणया अगुलविष्कम्भया सूच्येति, शेषं भावितार्थं, यावत् 'पुढवीणं'ति रत्नप्रमादीनां 'कंडाणं'ति रत्नकाण्डादीनां 'पातालाणं'ति पातालकलशानां 'भवनाणं'ति भवनपत्यावासादीनां 'भवणपत्थडाणं'ति भवनप्रस्तटा नरकप्रस्तटान्तरे तेषां 'निरयाणं'ति नरकावासानां निरयावलियाणं'ति नरकावासपङ्कीनां निरयपत्थडाणं'ति 'तेरेक्कारस नव सत्त पंच तिन्नि य तहेव एक्को ये'त्यादिना प्रतिपादितानां नरकप्रस्तटानां, शेषं प्रतीतं, नवरं 'टंकाणं'ति छिनटङ्कानां कूडाणं'ति रत्नकूटादीनां 'सेलाणं'ति मुण्डपर्वतानां 'सिहरीणं'ति पर्वतानामेव शिखरवतां 'पब्भाराणं'ति तेषामेवेषपन्नतानां 'वेलाणं'ति जलधिवेलाविषयभूमीनामूर्ध्वाधोल(मुद्वेधो) भूमिमध्येऽवगाहः, तदेवम् 'अंगुलविहत्थिरयणि'त्यादी गाथोपन्यस्तान्यङ्गुलादीनि योजनावसानानि पदानि व्याख्यातानि। साम्प्रतं शेषाणि श्रेण्यादीनि व्याचिख्यासुराह मू. ( २७० वर्तते) से समासओ तिविहे पन्नत्ते, तंजहा-सेढीअंगुले पयरंगुले घनंगुले, 'असंखेज्जाओ जोयणकोडाकोडीओ सेढी, सेढी सेढीए गुणिया पयरं, पयरं सेढीए गुणियं लोगो, संखेज्जएणं लोगो गुणिओ संखेज्जा लोगा असंखेज्जएणं लोगो गुणिओ असंखेज्जालोगा अनंतेणं लोगो गुणिओ अनंता लोगा। एएसि णं सेढीअंगुलपयरंगुलघणंगुलाणं कयरे कयरेहितो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा?, सव्वथोये सेढी अंगुले, पयरंगुले असंखेज्जगुणे, घनंगुले असंखिज्जगुणे, से तं पमाणंगुले। से तं विभागनिप्फन्ने । से तं खेत्तप्पमाणे। वृ. 'अस्संखेञ्जाउ जोयणकोडाकोडीओ सेढि'त्ति अनन्तरनिर्णीतप्रमाणागुलेन यद्योजनं तेन योजनेनासंख्येया योजनकोटीकोटयः संवर्तितसमचतुस्रीकृतलोकस्यैका श्रेणिर्भवति, कथं पुनर्लोकः, संवर्त्य समचतुरस्रीक्रियते?, उच्यते, इह स्वरूपतो लोकस्तावच्चतुर्दशरज्जूच्छ्रितः, अधस्ताद्देशोनसप्तरज्जुविस्तरः, तिर्यग्लोकमध्ये एकरज्जुविस्तृतः, ब्रह्मलोकमध्ये पञ्चरज्जुविस्तीर्णः, उपितु लोकान्ते एकरज्जुविष्कम्भः, शेषस्थानेषु क्वचित्कोऽप्यनियतो विस्तरः, रज्जुप्रमाणं तु स्वयम्भूरमणसमुद्रस्य पौरस्त्यपाश्चात्यवदिकान्तं यावद्दक्षिणोत्तरवेदिकान्तं वा यावदवसेयम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy