________________
३९५
मूलं-२७० विषयज्ञानपनार्थं राजग्रहणं दिक्त्रयभेदभिन्नसमुद्रयहिमवत्पर्वतपर्यन्तसीमाचतुष्टयलक्षणा ये चत्वारोऽन्तास्ताँश्चतुरोऽपि चक्रेण वर्तयति-पालयतीति चतुरन्तचक्रवर्ती तस्य-परिपूर्णषट्खण्डभरतभोक्तुरित्यर्थः, चत्वारिमधुरतृणफलान्येक: श्वेतसर्षपः, षोडश सर्षपा एकं धान्यमाषफलं, द्वे धान्यमाषफले एक गुञ्चा, पञ्ज गुञ्जा एकः कर्ममाषकः, षोडश कर्ममाषक एकः सुवर्णः, एतैरष्टभिः काकणीरत्नं निष्पद्यते, एतानि च मधुरतृणफलादीनि भरतचक्रवर्तिकालसम्भवीन्येव गृह्यन्ते, अन्यथा कालभेदेन तद्वैषम्यसम्भवे काकिणीरत्नं सर्वचक्रिणां तंल्यं न स्यात्, तुल्यं चेष्यते तदिति, चत्वारि चतसृष्वपि दिक्षु द्वे ऊर्ध्वाध इत्येवं षट् तलानि यत्र तत् षट्तलम्, अध उपरि पार्श्वतश्च प्रत्येकं चतसृणामस्रीणां भावात् द्वादश अस्त्रयः-कोट्य यत्र तद्द्वादशास्त्रिकां, कर्णिका:-कोणास्तेषां चाध उपरिच प्रत्येकं चतुर्णां सद्भावदष्टकर्णिकम्, अधिकरणिः-सुवर्णकारोपकरणं तत्संस्थानेन संस्थितं-तत्सदृशाकारं समचतुरस्त्रमिति यावत् प्रज्ञप्त-प्ररूपितं, तस्य काकिणीरत्नस्यैकैका कोटिरुत्सेधांगुलप्रमाणविष्कम्भा द्वादशाप्यस्रय एकैकस्य उत्सेधांगुलप्रमाण भवंतीत्यर्थः, अस्य समचतुरस्त्रत्वादायामो विष्कम्भश्च प्रत्येकमुत्सेधांगुलप्रमाण इत्युक्तं भवति, यैव च कोटिरु/कृत्य आयामं प्रतिपद्यते सैव तिर्यक् व्यवस्थापिता विष्कम्भभागो भवतीत्यायामविष्कम्भयोरेकतरनिर्णयेऽप्यपरनिश्चयः स्यादेवेति सूत्रे विष्कम्भस्यैव ग्रहणं, तद्ग्रहणे चायामोऽपि गृहीत एव, समचतुरस्रत्वात्तस्येति । तदेवं सर्वत उत्सेधांगुलप्रमाणमिदं सिद्धं, यच्चान्यत्र-'चउरंगुलप्पमाणा सुवण्णवरकारणी नेये'ति श्रूयते, तन्मतान्तरु संभाव्यते, निश्चयं तु सर्ववेदिनो विदन्तीति। _तदेकैककोटिगतमुत्सेधांगुलं श्रमणस्य भगवतो महावीरस्यार्डागुलं, कथमिदम्?, उच्यते, श्रीमहावीरस्य सप्तहस्तप्रमाणत्वादेकैकस्य च हस्तस्य चतुर्विशत्युत्सेधांगुलमानत्वादष्टषष्टयधिकशतांगुलमानो भगवानुत्सेधांगुलेन सिद्धो भवति, स एव चात्मांगुलेन मतान्तरमाश्रित्य स्वहस्तेन सार्द्धहस्तत्रयमानत्वाच्चतुरशीत्यंगुलमानो गीयते, अतः सामर्थ्यादेकमुत्सेधांगुलं श्रीमन्महावीरात्मांगुलापेक्षया अर्धाजंगुलमेव भवति, येषां तं मतेन भगवानात्मांगुलेनाष्टोत्तरशतांगुलमानः स्वहस्तेन सार्द्धहस्तचतुष्टमानत्वात् तन्मतेन भगवत एकस्मिन्नात्मांगुले एकमुत्सेधांगुलं तस्य च पञ्च नवमभागा भवन्ति, अष्टषष्टयधिकशतस्याष्टोत्तरशतेन भागापहारे एतावत एव भावात्, यन्मतेन तु भगवनान्विंशत्यधिकमंगुलशतं स्वहस्तेन पञ्चहस्तमानत्वात्, तन्मतेन भगवत एकस्मिन्नात्मांगुले एकमुत्सेधांगुलं तस्य च द्वौ पञ्चभागौ भवतः, अष्टषष्टयधिकशतस्य विंशत्यधिकशतेन भागो हृते इयत एव लाभात्, तदेवमिहाद्य-मतमपेक्ष्यैकमुत्सेधांगुलं भगवदात्मांगुलस्यार्द्धरूपतया प्रोक्तमित्यवसेयमिति। - तदुच्छ्यांगुलं सहस्रगुणितं प्रमाणांगुलं भवति, कथमिदमवसीयते?, उच्यते, भरतश्चक्रवर्ती प्रमाणाङ्गुलेनात्माङ्गुलेन च किल विंशतिशतमङ्गुलानां भवति, भरतात्माङ्गुलस्य प्रमाणागुलस्य चैकरूपत्वात्, उत्सेधाङ्गुलेन तु पञ्चधनुःशतमानत्वात् प्रतिधनुश्च षण्णवत्यगुलसद्भावाद् अष्टचत्वारिंशत् सहस्राण्यगुलानां संपद्यते, अतः सामार्थ्यादेकस्मिन् प्रमाणामुले चत्वारिशतान्युत्सेधाङ्गुलानां भवन्ति, विंशत्यधिकशतेन अष्टचत्वारिंशत्सहस्राणां भागापहारे एतावतो लाभात्, यद्येवमुत्सेधाजुलात्प्रमाणाङ्गुलं चतुःशतगुणमेव स्यात् कथं सहस्रगुण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org