________________
मूलं - २५१
३७७
भ्रमरः मुहुर्मुहुर्लसतीति मुसलं कपेरिव लम्बते त्थेति च करोति कपित्थं चिदितकरोति खल्लं च भवती चिक्खल्लं ऊर्ध्वकर्ण: उलूकः मेखस्य माला मेखला, से तं निरुत्तिए ।
"
से तं भावपमाणं । से तं पमाणनामे। से तं दसनामे से तं नामे। नामति पयं समत्तं । वृ. एते च कर्मशिल्पादयोऽर्थास्तद्विततप्रत्ययस्योत्पित्सोर्निमित्तीभवन्तीत्येतदभेदात्तद्धित्तजं नामाष्टविधमुच्यत इति भावः, तत्र कर्म तद्वितजं 'दोसिए सोत्तिए' इत्यादि, दूष्यं पण्यमस्येति दाषिकः सूत्रं पण्यमस्येति सौत्रिकः, शेषं प्रतीतं, नवरं भाण्डविचार: कर्मास्येति भाण्डवैचारिक:, कौलालानि-मृद्भण्डानि पण्यमस्येति कौलालिकः, अत्र क्वापि 'तणहारए' इत्यादिपाठो दृश्यते, तत्र कश्चिदाह-नन्वत्र तद्वितप्रत्ययो ने कचिदुपलभ्यते तथा वक्ष्यमाणेष्वपि 'तुन्नाए तंतुवाए' इत्यादिषु नायं दृश्यते तत्किमित्येवं भूतनाम्नामिहोपन्यासः ? अत्रोच्यते, अस्मादेव सूत्रोपन्यासात् तृणानि हरति-वहतीत्यादिकः कश्चिदाद्यव्याकरणदृष्टस्तद्धितोत्पत्तिहेतुभूतोऽर्थो द्रष्टव्यः, ततो यद्यपि साक्षात्तद्धितप्रत्ययो नास्ति तथापि तदुत्पत्तिनिबन्धनभूतमर्थमाश्रित्येह तन्निर्देशो न विरुध्यते, यदि तद्विततोत्पत्तिहेतुरर्थोऽस्ति तर्हि तद्वितोऽपि कस्मान्नोत्पद्यत इति चेत् ? लोके इत्थमेव रूढत्वादिति ब्रूमः, अथवा अस्मादेवाद्यमुनिप्रणीतसूत्रज्ञापका-देवं जानीया:- तद्वितप्रत्यया एवामी केचित् प्रतिपत्तव्या इति । अथ शिल्पतद्वितनामोच्यतेवस्त्रिकः, वस्त्र शिल्पमस्येति तन्त्रीवादनं शिल्पमस्येती तान्त्रिकः, तुन्नाए तंतुवाए इत्यादि प्रतीतम्, आक्षेपपरिहारौ उक्तावेव, यच्चेह पूर्वं च क्वचिद्वाचनाविशेषेऽप्रतीतं नाम दृश्यते तद्देशान्तररूढितोऽवसेयम् । अथ श्लाघातद्धितनामोच्यते- 'समणे' इत्यादि, श्रमणादीनि नामानि श्लाघ्येष्वर्थेषु साध्वादिषु रूढान्यतोऽस्मादेव सूत्रनिबन्धात् श्लाघ्यार्थास्तद्धितास्तदुत्पत्ति-हेतुभूतमर्थमात्रं वा अत्रापि प्रतिपत्तव्यम् । संयोगतद्वितनाम राज्ञः श्वसुर इत्यादि, अत्र सम्बन्धरूपः संयोगो गम्यते, अत्रापि चास्मादेव ज्ञापकात् तद्वितनामता, चित्रं च पूर्वगतं शब्दप्राभृतमप्रत्यक्षं च नः अतः कथमिह भावनास्वरूपमस्मादृशैः सम्यगवगम्यते - समीतद्वितनांम गिरिसमीपे नगरं गिरिनगरम्, अत्र 'अदूरभवश्चे' त्य न भवति, गिरिनगरमित्येव प्रतीतत्वात्, विदिशाया अदूरभवं नगर वैदिशम्, अत्र त्वदूरभवश्चेण् भवत्येव, इत्थमेव रूढत्वादिति ।
संयूथतद्वितनाम 'तरंगवइक्कारए' इत्यादि, तद्वितनामता चेहोत्तरत्र च पूर्ववद्भावनीया । ऐश्वर्यतद्वितनाम - 'राईसरे' इत्यादि, इह राजादिशब्दनिबन्धनमैश्वर्यमवगन्तव्यं, राजेश्वरादिशब्दार्थस्त्विहैव पूर्वं व्याख्यात एव । अपत्यतद्वितनाम - 'तित्थयरमाया' इत्यादि, तीर्थकरोऽपत्यं यस्याः सा तीर्थकरमाता, एवमन्यत्रापि सुप्रसिद्धेनाप्रसिद्धं विशिष्यते, अत एव तीर्थकरादिभिर्मातरो विशेषिताः, तद्वितनामत्व भावना तथैव, गतं तद्वितनाम ।
अथ धातुजमुच्यते- 'से किं तं धाउए' इत्यादि, भूरयं परमस्मैपदी धातुः सत्तालक्षणस्यार्थस्य वाचकत्वेन धातुजं नाभेति, एवमन्यत्रापि, अभिधानाक्षरानुसारतो निश्चितार्थस्य वचनंभणनं-निरुक्तं तत्र भवं नैरुक्तं तच्च मह्यां शेते महिष इत्यादिकं पाठसिद्धमेव, तदेवमुक्तं नैरुक्तं नाम ।
तद्भणने चावसितं भावप्रमाणनाम, तदवसाने च समर्थितं प्रमाणनाम तत्समर्थने च समापितं . गौणादिकं दशनाम, एतैरपि च दश नामाभिः सर्वस्यापि वस्तुनोऽभिधानद्वारेण संग्रहाद्दशनामेद
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org