SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३७६ अनुयोगद्वार-चूलिकासूत्रं भवति, यथा पुरुषश्च पुरुषश्चेति पुरुषौ, द्वयोश्च लुप्तयोरात्मनश्चार्थे वर्तमानाबहुवचनं यथा पुरुषश्च ३ पुरुषाः, एवं बहूना लुप्तानामात्मनश्चार्थे वर्तमानादपि बहुवचनं यथा पुरुषश्च ४ पुरुषा इति, जातिविवक्षायां तु सर्वत्रैकवचनमपि भावनीयम्। अतः सूत्रमनुश्रीयते-'जहा एगो पुरिसो'त्ति यथैकः पुरुषः, एकवचनान्तः पुरुषशब्द इत्यर्थः, एकशेषे समासे इति बह्वर्थवाचक इति शेषः, 'तहा बहवे पुरिस'त्ति तथा बहवः पुरुषाः, बहुवचनान्तः पुरुषशब्द इत्यर्थः, एकशेषे समासे सति बह्वर्थवाचक इति शेषः, यथा चैकशेषे समासे बहुवचनान्तः पुरुषशब्दो बह्वर्थवाचकस्तथैकवचनान्तोऽपीति न कश्चिद्विशेषः, एतदुक्तं भवतियथा पुरुषश्च ३ इति विधाय एकपुरुषशब्दशेषता क्रियते तदा यथैकवचनान्तः पुरुषशब्दो बह्वर्थान् वक्ति तथा बहुवचनान्तोऽपि, यथा बहुवचनान्तस्तथैकवचनान्तोऽपीति न कश्चिदेकवचनान्तबहुवचनान्तयोविशेषः, केवलं जातिविवक्षायामेकवचनं बह्वर्थविवक्षायां तु बहुवचनमिति । एवं कार्षापणशाल्यादिष्वपि भावनीयम्। ___ अयं च समासो द्वन्द्वविशेष एवोच्यते, केवलमेकशेषताऽत्र विधीयते इत्येतावता पृथगुपात्त इति लक्ष्यते, तत्त्वं तु सकलव्याकरणवेदिनो विदन्तीत्यलमतिविजृम्भितेन, गतं सामासिकम्। मू. ( २४९)से किं तं तद्धितए?, २ अट्ठवीहे पन्नत्ते, तंजहा वृ.तद्धिताञ्जातं तद्धितजम्, इह तद्धितशब्देन तद्धितप्राप्तिहेतुभूतोऽर्थो गृह्यते, ततो यत्रापि तुन्नाए तंतुवाए तद्धितप्रत्ययो न दृश्यते तत्रापि तद्धेतभूतार्थस्य विद्यमानत्वातद्धितजत्वं सिद्धं भवति। मू.( २५०) कम्मे सिप्पसिलोए संजोगसमीअवो अ संजूहो। इस्सरिअ अवच्चेण य तद्धितनामं तं अट्ठविहे ।। वृ. कम्मे'गाहा पाठसिद्धा, नवरं श्लोक:-श्लाघा संयूथो-ग्रन्थरचना, मू.( २५१) से किंतंकम्मनामे?, २ तणहारए कट्ठहारए पत्तहारए दोसिएसोत्तिए कप्पासिए भंडवेआलिए कोलालिए, से तं कम्मनामे । से किं तं सिप्पनामे ?, २ तुन्नए तंतुवाए पट्टकारे उएटे बरुडे मुंजकारेकट्ठकारे छत्तकारेवज्झकारे पोत्थकारे चित्तकारेदंतकारे लेप्पकारे सेलकारे कोट्ठिमकारे, से तं सिप्पनामे। से किं तं सिलोअनामे?, २ समणे माहणे सव्वातिही, से तं सिलोअनामे । से किं तं संजोगनामे?, २ रनो ससुराए रनो जामाउए रनो साले स्त्रो भाउए स्त्रो भगिणीवई, से तं संजोगनामे से किंतं समीवनामे?, २ गिरिसमीवे नयरंगिरिनयरं विदिसासमीवे नयरं वेदिसं नयरं बेनाए समीवे नयरं बेन्नायडंतगराए समीवे नयरंतगरायडं, से तं समीवनामे। से किं तं संजूहनामे ?, २ तरङ्गवइक्कारे मलयवइक्कारे अत्तानुसट्टिकारे बिंदुकारे, से तं संजूहनामे। से किं तंईसरीअनामे?, २ राईसरे तलवरे माडबिए कोडुबिए इन्भे सेट्ठी सत्थवाहे सेनावई, से तंईसरिअनामे।से किंतं अवच्चनामे?, २ अरिहंतमाया चक्कवट्टिगाया बलदेवमाया वासुदेवमाया रायमाया मुणिमाया वायगमाया, से तं अवच्चनामे से तं तद्धितए। से किं तं धाउए?, २ भूसत्तायां परस्मैभाषा एधवृद्धौ स्पर्द्ध संहर्षे गाध प्रतिष्ठालिप्सयोपॅथे च बाधृ लोडने, से तं धाउए । से किं तं निरुत्तिए?, २ मह्यां शेते महिषः, भ्रमति च रौति च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy