SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ मूलं - २१२ ३६३ चतुर्थी विहिता, अपादीयते - वियुज्यते यस्मात् तद्वियुज्यमानावधिभूतमपादानु तत्र पञ्चमी विहिता, स्वम् - आत्मीयं सचित्तादि स्वामी राजादिः तयोर्वचने तत्सम्बन्धप्रतिपादने षष्ठी विहितेत्यर्थः, संनिधीयते - आधीयते यस्मिँस्तत्सन्निधानम् - आधारस्तदेवार्थः २ तस्मिन् सप्तमी विहिता, अष्टमी सम्बुद्धिः- आमन्त्रणी भवेद्, आमन्त्रणार्थे विधीयत इत्यर्थः । अत्र एनमेवार्थं सोदाहरणमाह- 'तत्थ पढमे' त्यादिगाथाश्चतस्त्रो गतार्था एव, नवरं प्रथमा विभक्तिर्निर्देशे, क यथेत्याह- 'सो'त्ति सः तथा 'इमो 'त्ति अयं 'अहं' ति अहं वाशब्द उदाहरणान्तरसूचकः, उपदेशे द्वितीया, क्वयथेत्याह-भण कुरु वा, किं तदित्याह - 'इदं' प्रत्यक्षं तद्वापरोक्षमिति, तृतीया करणे क यथेत्याह- भणितं वा कृतं वा, केनेत्याह- तेन वा मया वेति, यद्यपि कर्तरि तृतीया प्रतीयते, तथापि विवक्षाधीनत्वात् कारकप्रवृत्तेस्तेन मया वा कृत्वा भणितं कृतं वा, देवदत्तेनेति गम्यत इति, एवं करणविवक्षाऽपि न दुष्यतीति लक्षयामः, तत्त्वं तु बहुश्रुता भवतीत्येके, अन्ये तूपाध्यायाय गां ददातीत्यादिष्वेव सम्प्रदाने चतुर्थीमिच्छन्ति, अपनय गृहाण एतस्मादितो वेत्येवमपादाने पञ्चमी, तस्यातस्य गतस्य कस्य? - भृत्यादेरिति गम्यते, इत्येवं स्वस्वामिसम्बन्धे षष्ठी, तद्वस्तु बदरादिकं अस्मिन् कुण्डादौ तिष्ठतीति गम्यते, इत्येवमाधारे सप्तमी भवति, तथा 'कालभावे अ'त्ति कालभावयोश्चेयं दृष्टव्या, तत्र काले यथा मधौ रमते, भावे तु चारित्रेऽवतिष्ठते, आमन्त्रणे भवेदष्टमी यथा हे युवन्निति, वृद्धवैयाकरणदर्शनेन चेयमष्टमी गण्यते, ऐदंयुगीनानां त्वसौ प्रथमैवेति मन्तव्यमिति । इह च नामविचार प्रस्तावात् प्रथमादिविभक्त्यन्तं नामैव गृह्यते, तथा (चा) ष्टविभक्तिभेदादष्टविधं भवति, न च प्रथमादिविभक्त्यिन्तनामाष्टकमन्तरेणापरं नामास्ति, अतोऽनेन नामाष्टकेन सर्वस्य वस्तुनोऽभिधानद्वारेण संग्रहादष्टनामेदमुच्यते इति भावार्थ: 'सेतं अट्ठनामे 'त्ति निगमनम्। अथ नवनाम निर्दिशयन्नाह मू. (२१३ ) से किं तं नवनामे, २ नव कव्वरसा पत्रत्ता । मू. ( २१४ ) वीरो सिंगारो अब्भुओ अ रोद्दो अ होइ बोद्धव्वौ ।। वेलणओ बीभच्छो हासो कलुणो पसंतो अ॥ वृं. नवनाम्नि नव काव्यरसाः प्रज्ञप्ताः, तत्र कवेरभिप्रायः काव्यं, रस्यन्ते - अन्तरात्मनाऽनुभूयन्त इति रसाः, तत्तत्सहकारिकारणसन्निधानोद्भूताश्चेतोविकारविशेषा इत्यर्थः, उक्तं च"बाह्यार्थलम्बनो यस्तु, विकारो मानसो भवेत् । स भावः कथ्यतें सद्भिस्तस्योत्कर्षो रसः स्मृतः ॥ " काव्येषूपनिबद्धा रसाः काव्यरसाः- वीरशृङ्गारादयः, तानेवाह - 'वीरो सिंगारी' इत्यादिगाथा सुगमा, नवरं 'शूर वीर विक्रान्ता' विति वीरयति - विक्रामयति त्यागतपोवैरिनिग्रहेषु प्रेरयति प्राणिनमित्युत्तमप्रकृतिपुरुषचरितश्रवणादिहेतुसमुद्भूतो दानाद्युत्साहप्रकर्षात्मको वीरो, रस इति सर्वत्र गम्यते ?, शृङ्गं-सर्वरसेभ्यः परमप्रकर्षकोटिलक्षणमियति-गच्छतीति कमनीयकामिनीदर्शनादिसम्भवो रतिप्रकर्षात्मकः शृङ्गारः, सर्वरसप्रधान इत्यर्थः, अत एव । "शृङ्गारहास्यकरुणा, रौद्रवीरभयानकाः । बीभत्साऽद्भुतशान्ताश्च, नव नाट्य रसाः स्मृताः ॥” Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy