SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३६२ अनुयोगद्वार-चूलिकासूत्रं स्वरसमूहे, शेषं कण्ठ्यं, गीतविचारप्रस्तावादिदमपि पृच्छति- केसी गायई' त्यादिप्रश्नगाथा सुगमा, नवरं के सि'त्ति कीदृशी स्त्री इत्यर्थः, 'स्वर'ति स्वरस्थानं, रूक्षं प्रतीतं, चतुरं-दक्षम्, विलम्बितं-परिमन्थरं, द्रुतं शीघ्रमिति। विस्सरं पुण केरिसि'त्ति गानाऽधिकामिदं। ___ अत्र क्रमेणोत्तरमाह-'गोरी गायइ महुर'मित्यादि, अत्रापि विस्सरंपुण पिंगल'त्ति गाथाऽधिकमेव, व्याख्या सुकरैव, नवरं-पिङ्गला-कपिला इत्यर्थः । समस्तस्वरमण्डलसंक्षेपाभिधानेनोपसंहरनाह-'सत्तसरे' त्यादि, तता तन्त्री तानो भण्यते, तत्र षड्जादयः स्वशः प्रत्येक सप्तभिस्तानैर्गीयन्त इत्येवमेकोनपञ्चाशत्तानाः सप्ततन्त्रिकायां वीणायां भवन्तीति। एवं तदनुसारेणैकतन्त्रीकायां त्रितन्त्रिकायां कण्ठेनापि वागीयमाना एकोनपञ्चाशदेव ताना भवन्तीति। तदेवमेतैः षड्जादिभिः सप्तभिर्नामभिः सर्वस्यापि स्वरमण्डलस्याभिधानात् सतनामेदमुच्यते, 'से तं सत्तनामे'त्ति निगमनम्। अथाष्टनाम प्रतिपादयन्नाहमू.(२०५) से किं तं अट्ठविहा वयणविभत्ती पन्नत्ता, तंजहामू.(२०६) निदेसे पढमा होइ, बितिआ उवएसन। तइया करणमि कया, चउत्थी संपवायणे। मू.(२०७) पंचमी अ अवायाणे, छट्ठी सस्सामिवायणे। सत्तमी सन्निहानंत्थे अट्ठमाऽऽमंतणी भवे॥ मू.(२०८) तत्थ पढमा विभत्ती निद्देसे सो इमो अहं वत्ति। बिइआ पुण उवएसे भण कुणसु इमं व तं वत्ति । मू.(२०९) तइआ करणमि कया भणिअंच कयं च तेण व मए वा। ___हंदि नमो साहाए हवइ चउत्थी पयाणमि॥ मू. (२१०) आवण्य गिव्ह य एतो इउत्ति वा पंचमी अवायाणे। छट्ठी तस्स इमस्स व गयस्स वा सामिसंबंधे। . मू.(२११) हवइ पण सत्तमी तं इममि आहारकालभावे । आमंतणी भवे अट्ठमी उजह हे जुवानत्ति ॥ मू.(२१२) . सेतं अदनामे। वृ.उच्यन्त इति वचनानि-वस्तुवाचीनि विभज्यते-प्रकटीक्रियते अर्थोऽनयेति विभक्तिः । वचनानां विभक्तिर्वचनविभक्तिः, नाख्यातविभक्तिरपितु नामविभक्तिः प्रथमादिकेति भावः, सा चाष्टविधा तीर्थकरगणधरैः, प्रज्ञप्ता, का पुनरियमित्याशङ्कय यस्मिन्नर्थे याविधीयते तत्सहितामष्टविधामपि विभक्तिं दर्शयितुमाह_ 'तद्यथे'त्यादि 'निद्देसे' इत्यादिश्लोकद्वयं निगदसिद्धं, नवरं-लिङ्गार्थमात्रप्रतिपादनं निर्देशः, तत्र सि औ जसिति प्रथमा विभक्तिर्भवति, अन्यतरक्रियायां प्रवर्तनेच्छोत्पादनमुपदेशस्तस्मिन् अम् सौ शस् इति द्वितिया विभक्तिर्भवति, उपलक्षणमानं चेदं, कटं करोतीत्यादिषूपदेशमन्तरेणापि द्वितीयाविधानाद, एवमन्यत्रापि यथासम्भवं वाच्यं, विवक्षितक्रियासाधकतमं करणं तस्मिंस्तृतीया कृता'विहिता, सम्प्रदीयते यस्मै तद्गवादिदानविषयभूतं सम्प्रदानं तस्मिँ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy