SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ मूलं-२०४ ३६१ ललतीव यत् सुकुमालं तत् सुललितम् ८, एते अष्टौ गुणा गीतस्य भवन्ति, एतद्विरहितं तु वडिम्बनामात्रमेव तदिति। कि चोपलक्षणत्वादन्येऽपि गीतगुणा भवन्ति तानाह-'उर' गाहा, चकारो गेयगुणान्तरसमुच्चार्थः, उर:कण्ठशिरोविशुद्धं च, अयमर्थः-यधुरसि स्वरो विशालस्तुर्युरोविशुद्धं, कण्ठे यदि स्वरो वर्तितोऽतिस्फुटितश्च तदा कण्ठविशुद्धं शिरसि प्राप्तो यदि नानुनासिकस्ततः शिसेविशुद्धम्, अथवा उर:कण्ठशिरस्सु श्लेष्मणाऽव्याकुलेषु विशुद्धेषु प्रशस्तेषु यद्गीयते तदुर:कण्ठशिरोविशुद्धं, गीयते गेयमिति संबध्यते, किंविशिष्टमित्याह-मृदुकं मृदुना-अनिष्ठुरेण स्वरेण यद्गीयते तन्मृदुकं, यत्राक्षरेषु घोलनया संचरन् स्वरो रङ्गतीवतत् घोलनाबहुलं रिङ्गितं, गेयपदैर्बद्धं-विशिष्टविरचनाया रचितं पदबद्धं, ततश्च पदत्रयस्य कर्मधारयः, 'समतालपडुक्खेवं'ति तालशब्देन हस्ततालासमुत्थ उपचाराच्छब्दो विवक्षितः, मुरजकांसिकादिगीतोपकारकातोद्यानां ध्वनिः प्रत्युत्क्षेप: नर्तकीपदप्रक्षेपलक्षणो वा प्रत्युत्क्षेपः, समौ गीतस्वरेण तालप्रत्युत्क्षेपौ यत्र तत् समतालप्रत्युत्क्षेपं, 'सत्तस्सरसीभरं'ति सप्त स्वराः सीमरन्ति-अक्षरादिभिः समा यत्र तत्सप्तस्वरसीभरंगीतमिति, ते चामी सप्त स्वरा:___ 'अक्खरसमं'गाहा, यत्र दीर्घ अक्षरे दीर्घो गीतस्वरः क्रियते हुस्वे हुस्वः प्लुते प्लुतः सानुनासिके तु सानुनासिकः तदक्षरसमं यद्गीतपदं-नामिकादिकं यत्र स्वरे अनुपाति भवति तत् तत्रैव यत्र गीयते तत् पदसमं, यत्परस्पराभिहतहस्ततालस्वरानुसारिणा स्वरेण गीयते तत्तालसमं, शृङ्गदाद्यिन्यतरवस्तुमयेनांगुलीकोशकेन समाहते तन्त्रीस्वरप्रकारो लयस्तमनुसरता स्वरेण यद्गीयते तल्लयसमं, प्रथमतो वंशतन्त्रादिभिर्यः स्वो गृहीतस्तत्समेन स्वरेण गीयमानं ग्रहसमं, निःश्वसितोच्छसितमानमनतिक्रमतो यद्गेयं तन्निःश्वसितोच्छसितसमं, वंशतन्त्र्यादिष्वेवांगुलीसञ्चारसमं यद्गीयते तत्सञ्चारसमम्। एवमेते स्वराः सप्त भवन्ति, इदमुक्तं भवति-एकोऽपि गीतस्वरोऽक्षरपदादिभिः सप्तभिः स्थानैः सह समत्वं प्रतिपद्यमानः सप्तधात्वमनुभवतीत्येवं सप्तस्वरा अक्षरादिभिः समा दर्शिता भवन्तीति। ___ गीते च यः सूत्रबन्धः सोऽष्टगुण एव कर्तव्य इत्याह-'निद्दोस'मित्यादि, तत्र 'अलियमुवघायजणय'मित्यादिद्वात्रिंशत्सूत्रदोषरहितं निर्दोषं १ विशिष्टार्थयुक्तं सारवत् २ गीतनिबद्धार्थगमकहेतुयुक्ततया दृब्धं हेतुयुक्तम् ३ उपमाद्यलङ्कारयुक्तमलंकृतम् ४ उपसंहारोपनययुक्तमुपनीतम् ५ अनिष्ठुराविरुद्धालञ्जनीयार्थवाचकं सानुप्रासं वा सोपचारम् ६ अतिवचनविस्तररहितं संक्षिप्ताक्षरं मितं ७ मधुरं श्रव्यशब्दार्थं ८ गेयं भवतीति शेषः। "तिन्नि य वित्ताइंति यदुक्तं, तत्राह-'सम'मित्यादि, यत्र वृत्ते चतुर्वपि पादेषु सङ्घयया समान्यक्षराणि भवन्ति तत्समं, यत्र प्रथमतृतीययोर्द्वितीयचतुर्थयोश्च पादयोरक्षरसंख्यासमत्वं तदर्द्धसमं, यत्तु सर्वत्र सर्वपादेष्वक्षरसङ्ख्यावैषम्योपेतं तद्विषमं, 'जति यस्माद्वृत्तं भवतीति शेषः, तस्मात् त्रय एव वृत्तप्रकारा भवन्ति, चतुर्थस्तु प्रकारो नोपलभ्यतेऽसत्त्वादित्यर्थः, एवमन्यथाऽप्यविरोधतो व्याख्येमिदमिति। 'दुन्निय भणिईओ'त्ति यदुक्तं तत्राह-'सक्काए'त्यादि, भणितिर्भाषा स्वरमण्डले-षड्जादि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy