SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३६४ अनुयोगद्वार-चूलिकासूत्रं __ इत्यादिष्वयं सर्वरसानामादामेव पठ्यते, अत्र तु त्यागतपोगुणो वीररसे वर्तते, त्यागतपसी च 'त्यागो गुणो गुणशताधधिको मतो मे' 'परं लोकातिगंधाम, तपः श्रुतमिति द्वय' मित्यादिवचनात् समस्तगुणप्रधान इत्यनया विवक्षया वीररसस्यादावुपन्यास इति २, श्रुतं शिल्पं त्यागतप:शौर्यकर्मादि वा सकलभुवनातिशायि किमप्यपूर्वं वस्त्वद्भुतमुच्यते, तद्दर्शनश्रवणादिभ्यो जातो रसोऽप्युपचाराद्विस्मयरूपोऽद्भुतः ३, रोदयति-अतिदारुणतया अश्रूणि मोचयतीति रौद्रं-रिपुजनमहारण्यान्धकारादि, तद्दर्शनाद्युद्भवो विकृताध्यवसायोरूपो रसोऽपि रौद्रः ४, व्रीडयति-लञ्जामुत्पादयतीति लञ्जनीयवस्तुदर्शनादिप्रभवो मनोव्यलोकतादिस्वरूपो वीडनकः, अस्य स्थाने भयजनकसंग्रामादिवस्तुदर्शननादिप्रभवो भयानको रसः पठ्यते अन्यत्र, सचेह रौद्ररसान्तर्भावविवक्षणात् पृथग् नोक्तः ५, शुक्रशोणितोच्चारप्रश्रवणाद्यनिष्ठमुद्वेजनीयं वस्तु बीभत्समुच्यते, तद्दर्शनश्रवणादिप्रभवो जुगुप्साप्रकर्षस्वरूपो रसोऽपि बीभत्सः ६, विकृतासम्बद्धपरवचनवेषालङ्कारादिहास्याहपदार्थप्रभवो मनःप्रकर्षादिचेष्टात्मको रसोऽपि हास्यः ७, कृत्सितं रौत्यनेनेति निरुक्तवशात् करुणः करुणास्पदत्वात् करुणः प्रियविप्रयोगादिदुःखहेतुसमुत्थः शोकप्रकर्षस्वरूपः करुणो रस इत्यर्थः ८, प्रशाम्यति क्रोधादिजनितौत्सुक्यरहितो भवत्यनेनेति प्रशान्तः, परमगुरुवचःश्रवणादिहेतुसमुल्लसित उपशम-. प्रकर्षात्मा प्रशान्तो रस इत्यलं विस्तरेण ९ ॥ एतानेव लक्षणादिद्वारेण बिभणिषुर्वीररसं तावल्लक्षणतो निरूपयन्नाहमू. (२१५) तत्थ परिच्चायमि अतवचरणे सत्तुजनविनासे । ___ अननुसयधितिपरक्कमलिंगो वीरो रसो होइ। मू. ( २१६)वीरो रसो जहा-सो नाम महावीरो जो रज्जं पयहिऊण पव्वइओ। कामकोहमहासत्तूपक्खनिग्घायणं कुणइ॥ वृ. 'तत्र' तेषु नवसु रसेषु मध्ये 'परित्यागे' दाने 'तपश्चरणे' तपोविधाने शत्रुजनविनाशे च यथासङ्ख्यमननुशयधृतिपराक्रमचिह्नो वीरो रसो भवति-इदमुक्तं भवति-दाने दत्ते यदाऽनुशयोगर्वः पश्चात्तापो वा तं न करोति, तपसि च कृते धृति करोति नार्तध्यां, शत्रुविनाशे च पराक्रमते न तु वैक्लुव्यमवलम्बते, तदा एतैलिङ्गैज्ञायतेऽयं प्राणी वीररसे वर्तते, इत्येवमन्यत्रापि भावना कार्येति। ___ उदाहरणनिदर्शनार्थमाह-वीरो रसो 'यथे'त्युपदर्शनार्थमेतत्, 'सो नाम गाहा पाठसिद्धा, नवरं वीररसवत्पुरुषचेष्टितप्रतिपादनादेवंप्रकारेषु काव्येषु वीररसः प्रतिपत्तव्य इति भावार्थः, अपरं चेहोत्तमपुरुषजेतव्यकामक्रोोदिभावशत्रुजयनैव वीररसोदाहरणं मोक्षाधिकारिणि प्रस्तुतशास्त्रे इतरजनसाध्यसंसारकारणद्रव्यशत्रुनिग्रहस्याप्रस्तुतत्वादिति मन्तव्यमिति, एवमन्यत्रापि भावार्थोऽवगन्तव्य इति। श्रृङ्गाररसं लक्षणतस्त्वाहमू. ( २१७) संगारो नाम रसो रतिसंजोगाभिलाससंजननो। मंडपविलासविब्बोअहासलीलारमनलिंगो॥ मू. ( २१८ )सिंगारो रसो जहा-महुरविलाससललिअंहियउम्मादणकरं जुवाणाणं। 'सामा सहुदामं दाएती मेहलादामं॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy