________________
३५९
मूलं-१८४ मू.(१८४) मग्गी कोरविआ हरिया, रयणी असारकंता य।
छट्ठी असारसी नाम, सुद्धसज्जा य सत्तमा। मू.(१८५)मज्झिमगामस्स णं सत्त मुच्छणाओ पन्नत्ताओ, तंजहा मू.(१८६)
उत्तरमंदा रयणी, उत्तरा उत्तरासमा।
समोक्कंता य सोवीरा, अभिरूवा होइ सत्तमा। मू.( १८७) गंधारगामस्स णं सत्त मुच्छणाओ पन्नत्ताओ, तंजहामू.(१८८) नंदी अखुड्डिआ पूरिमा य चउत्थी असुद्धगंधारा।
उत्तरगंधारावि असा पंचमिआ हवइ मुच्छा। मू.(१८९) सुट्टत्तरमायामा सा छट्ठी सव्वओ य नायव्वा।
अह उत्तरायया कोडिमा य सा सत्तमी मुच्छा। वृ एतच्चिरन्तनमुनिगाथाभ्यां व्याख्यायते-यथा
"सञ्जाइतिहागामो, ससमूहो मुच्छणाण विडेओ। ता सत्त एक्कमेक्के तो सत्तसराण इगवीसा ।।१।। अन्नन्नसरविसेसे उप्पायंतस्स मुच्छणा भणिया।
कत्ता व मुच्छिओ इव कुणई मुच्छंव सो वत्ति ॥२॥" कर्ता वा मूच्छित इव ताः करोतीति मूर्च्छना उच्यन्ते, 'मुच्छं व सो वत्ति' मूर्च्छन्निव वा स कर्ता ताः करोतीति मूर्च्छना उच्यन्त इत्यर्थः, मङ्गीप्रभृतीनां चैकविंशतिमूर्च्छनानां स्वरविशेषाः पूर्वगतस्वरप्राभृते भणिताः, इदानीं तु तद्विनिर्गतेभ्यो भरतविशाखिलादिशात्रेभ्यो विज्ञेया इति । मू.(१९०) सत्त सरा करो हवंति? गीयस्स का हवइ जोणी।
कइसमया ओसासा, कइ वा गीयस्स आगारा॥ मू.(१९१)
सत्त सरा नाभीओ हवंति गीयं च रुइयजोणी।
पायसमा ऊसासा तिनि य गीयस्स आगारा ।। मू. (१९२) आइमउ आरभंता समुव्वहन्ता य मज्झयारंमि।
अवसाने उज्झंता तिन्निवि गीयस्स आगारा । वृ.इह चत्वारः प्रश्नाः, तत्र कृतः इति कस्मात् स्थानात् सप्तस्वरा उत्पद्यन्ते, का योनिरिति का जातिः, तथा कति समया येषु ते कतिसमया-उच्छासाः, किंपरिमाणकाला इत्यर्थः, तथा आकारा:-आकृतयः स्वरूपाणि इत्यर्थः । उत्तरमाह-'सत्त सरा नाभीओ'इत्यादिगाथा स्पष्टा, नवरंरुदितं योनिः-समानरूपतया जातिर्यस्य तद् दितयोनिकं, पादसमा उच्छासाः, यावद्भिः समयैर्वृत्तस्य पादः समाप्यते तावत्समया उच्छासा गीते भवन्तीत्यर्थ: आकारानाह-'आइ'गाहा, त्रयो गीतस्याकारा:-स्वरूपविशेषलक्षणा भवन्ति इति पर्यन्ते सम्बन्धः, किं कुर्वाणा इत्याह'आरंभन्त'त्ति आरम्भमाणा गीतमिति गम्यते, कथंभूतमित्याह-'आइमउ'त्ति आदौ-प्रथमतो मृदु-कोमलं आदिमृदु, तथा समुद्वहन्तश्च-कुर्वन्तश्च महतीं गीतध्वनिमिति गम्यते, 'मध्यकारे' मध्यमभागे, तथा अवसाने च क्षपयन्तो, गीतध्वनि मन्द्रीकुर्वन्ति इत्यर्थः, आदौ मृदु मध्ये तारं पर्यन्ते मन्द्रं गीतं कर्तव्यम्, अत एते मृदुतादयस्रयो गीतस्याकारा भवन्तीति तात्पर्यं। किन्तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org