SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ३५८ अनुयोगद्वार-चूलिकासूत्रं मन्तव्याः, अपरं षड्जादीनां मृदङ्गादिषु यद्यपि नाशाकण्ठाद्युत्पन्नत्वलक्षणो व्युत्पत्त्यों न घटते तथापि सादृश्यात् तद्भावोऽवगन्तवयः, 'सञ्ज'मित्यादिश्लोकद्वयं, गोमुखी-काहला यस्या मुखे गोशृङ्गादि वस्तु दीयत इति, चतुर्भिश्चरणैः प्रतिष्ठानम्-अवस्थानं भुवि यस्याः सा गोधा चर्मावनद्धा गोधिका-वाद्यविशेषो दर्दरिकेत्यपरनाम्ना प्रसिद्धा, आडम्बर:-पटहः, मू.(१७५) एएसिणं सत्तण्हं सराणं सत्त सरलक्खणा पन्नत्ता, तंजहामू. (१७६) सज्जेण लहई वित्ति, कयं च न विनस्सइ। गावो पुत्ता य मित्ता य, नारीणं होइ वल्लहो॥ मू.(१७७) रिसहेण उ एसज्जं(पसेज्ज) सेनावच्चं धनानि । वत्थगंधमलंकारं, इथिओ सयनानि य। मू.(१७८) गंधारे गतिजुत्तिण्णा, वज्जवित्ती कलाहिआ। हवंति कइणो धन्ना, जे अन्ने सत्थपारगा। मू.(१७९) मज्झिमसरमंता उ, हवंति सुहजीविणो। खायई पियई देई, मज्झिमसरमस्सिओ। मू.(१८०) पंचमसरमंता उ, हवंति पुहवीपई। सूरा संगहकत्तारो, अनेगगणनायगा॥ मू.(१८१) रेवयसरमंता उ, हवंति दुहजीविणो। कुचेला य कुवित्ती य, चोरा चंडालमुट्ठिया। मू. ( १८२) निसायसरमंता उ, होंति कलहकारगा। जंघाचरा लेहवाहा, हिंडगा भारवाहगा ।। वृ. एतेषां सप्तानां स्वराणां प्रत्येकं लक्षणस्य विचिन्नत्वात् सप्त स्वरलक्षणानि-यथास्वं फलप्राप्त्यव्यभिचारीणि स्वरतत्त्वानि भवन्ति, तान्येव फलत आह-'सञ्जेणे'त्यादि सप्तश्लोकाः षड्जेन लभते वृत्तिम्, अयमर्थः-षड्जस्येदं लक्षणं-स्वरूप मस्ति येन तस्मिन् सति वृत्तिजीवनं लभते प्राणी, एतच्च मनुष्यापेक्षया लक्षयते, वृत्तिलाभादीनां तत्रैव घटनात्, कृतं च न विनश्यति, तस्येति शेषः, निष्फलारम्भो न भवतीत्यर्थः, गावः पुत्राश्च मित्राणि च भवन्तीति शेषः। __ गान्धारेगीतयुक्तिज्ञा वर्यवृत्तयः-प्रधानजीविका: कलाभिरधिकाः कवयः-काव्यकर्तारः प्राज्ञा:-सद्बोधा: ये चोक्तेभ्यो गीतयुक्तिज्ञादिभ्योऽन्ये-शास्त्रपारगाः चतुर्वेदिशास्त्रपारगामिनस्ते भवन्तीति। शकुनेन-श्येनलक्षणेन चरन्ति पापछि कुर्वन्ति शकुनान् वाघ्नन्तीति शाकुनिकाः, वागुरामृगबन्धनं तया चरन्तीति वागुरिकाः, शूकरेण सन्निहितेन शूकरवधार्थं चरन्ति शूकरान् वा जन्तीति शौकरिकाः, मौष्टिका मल्ला इति। पाठान्तराण्यप्युक्तानुसारेण व्याख्येयानि। मू. ( १८३)एएसिणं सत्तण्हं सराणं तओ गामा पन्नत्ता, तंजहा-सज्जगामे मज्झिमगामे गंधारगामे, सज्जगामस्स नं सत्त मुच्छणाओ, पन्नत्ताओ, तंजहा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy