________________
३५७
मूलं-१६५ स्वरान्नामतो निरूप्य कारणतस्तानेवाभिधित्सुराहमू.(१६६)एएसिणं सत्तण्हं सराणं सत्त सरहाणा पन्नत्ता, तंजहामू.(१६७) सज्जं च अग्गजीहाए उरेण रिसहं सरं।
कंठुग्गएण गंधारं, मज्झजीहाए मज्झिमं॥ मू.(१६८) नासाए पंचमं बूआ, दंतोटेण अरेवतं।
भमुहक्खेवेण नेसायं, सरहाणा विआहिआ॥ मू. (१६९) सत्त सरा जीवणिस्सिआ पन्नत्ता, तंजहामू. (१७०) सज्जं रवइ मऊरो, कुक्कुडो रिसभं सरं।
हंसो रवइ गंधारं, मज्झिम गवेलगा। मू. (१७१) अह कुसुमसंभवे काले, कोइला पंचमं सरं।
- छटुं च सारसा कुंचा, नेसायं सत्तमंगओ। मू.(१७२)सत्त सरा अजीवनिस्सिआ पन्नत्ता, तंजहामू.(१७३) सज्ज रवइ मुअंगो, गोमुही रिसहं सरं।
संखो रवइ गंधारं, मज्झिमं पुण झल्लरी॥ मू. (१७४) चउच्चरणपइट्ठाणा, गोहिआ सरं।
आडंबरो रेवइयं, महाभेरी असत्तमं ॥३१॥ वृ. तत्र नामेरुत्थिथोऽविकारी स्वर आभोगतोऽनाभोगतो वा यदव जिह्वादिस्थानं प्राप्य विशेषमासादयति तत् स्वरस्योपकारकमतः स्वरस्थानमुच्यते,
तत्र 'सञ्ज' मित्यादिश्लोकद्वयं सुगम, नवरं चकारोऽवधारणे षड्जमेव प्रथमस्वरलक्षणं ब्रूयात्, कयेत्याह-अग्रभूता जिह्वा अग्रजिह्वा जिह्वाग्रमित्यर्थस्तया, इह यद्यपिषड्जभणने स्थानान्तराण्यपिकण्ठादीनि व्याप्रियन्ते अग्रजिह्वा च स्वरान्तरेषु व्याप्रियते तथापि सा तत्र बहुव्यापारवतीतिकृत्वा तथा तमेव ब्रुयादित्युक्तम्, इममत्र हृदयम-षड्जस्वरोऽग्रजिह्वां प्राप्य विशिष्टांअ व्यक्तिमासादयत्यतस्तदपेक्षया सा स्वरस्थानमुच्यते, एवमन्यत्रापि भावना कार्या, उरो-वक्षस्तेन ऋषभं स्वरं, ब्रुयादिति सर्वत्र सम्बध्यते, ___ 'कंठुग्गएणं'ति कण्ठादुद्गमनमुद्गतिः-स्वरनिष्पत्तिहेतुभूता क्रियाअतेन कण्ठोद्गतेन गान्धारं, जिह्वाया मध्यो भागो मध्यजिह्वा तया मध्यमं, तथा दन्ताश्चौष्ठौ च दन्तोष्ठं तेन धैवत रैवतं वेति भ्रत्क्षेपावष्टम्भेन निषादमिति।।
इत ऊर्ध्वं सर्वं निगदसिद्धमेव, नवरं जीवनिस्सिय'त्ति जीवाश्रिताः जीवेम्यो वा निसृतानिर्गताः, 'सझं रवई'त्यादिश्लोकः, रवति-नदति ‘गवेल'त्ति गावश्च एलकाश्च ऊरणका गवेलकाः, अथवा गवेलका-ऊरणका एव, 'अह कुसुमे'त्यादि, अथेति विशेषणार्थो, विशेषणार्थता चैवं-यथा गवेलका अविशेषेण मध्यमस्वरं नदन्ति न तथा पञ्चमं कोकिलः, अपि तु वनस्पतिषु बाहुल्येन कुसुमानां-मल्लिकापाटलादीनां सम्भवो यस्मिन् काले स तथा तस्मिन्, मधुमास इत्यर्थः, - 'अजीवनिस्सिय'त्ति तथैव, नवरमजीवेष्वपि मृदङ्गादिषु जीवव्यापारोत्थापिता एवामी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org