________________
३५६
अनुयोगद्वार-चूलिकासूत्रं उक्तं षड्नाम, अथ सप्तनामं निरूपयितुमाहमू.(१६४)से किं तं सत्तनामे?, २ सत्त सरा पन्नत्ता, तंजहावृ.'स्वृ शब्दोपतापयो'रिति स्वरणानि स्वराः-ध्वनिविशेषाः ते च सप्त, तद्यथामू.(१६५) सज्जे रिसहे गंधारे, मज्झिमे पंचमे सरे।
रेवए (धेवए) चेव नेसाए, सरा सत्त विआहिआ॥ वृ. 'सञ्जे 'त्ति श्लोको, व्याख्या षड्भ्यो जातः षड्जः उक्तं च
__ "नासां कण्ठमुरस्तालु, जिह्वां दन्ताँश्च संश्रितः।
_षड्भिः संजायते यस्मात्, तस्मात् षड्ज इति स्मृतः॥" तथा ऋषभो-वृषभस्तद्वत् यो वर्तते स ऋषभः, आह च
"वायुः समुत्थितो नाभेः, कण्ठशीर्षसमाहतः।
नर्दन् वृषभवद् यस्मात्, तस्मादृषभ उच्यते॥" तथा गन्धो विद्यते यस्य स गन्धारः, स एव गान्धारो-गन्धवाहविशेष इत्यर्थः, अभाणि च
"वायुः समुत्थितो नाभे«दि कण्ठे समाहतः ।
नानागन्धावहः पुण्यो, गान्धारस्तेन हेतुना ॥" तथा मध्ये कायस्य भवो मध्यमः, यदवाचि
"वायुः समुत्थितो नाभेरुरोहदि समाहतः।
नाभिं प्राप्तो महानादो, मध्यमत्वं समश्नुते ।।" तथा पञ्चानां षड्जादिस्वराणां निर्देशक्रममाश्रित्य पूरणः पञ्चमः, अथवा पञ्चसु-नाभ्यादिस्थानेषु मातीति पञ्चमः स्वरो, यदभ्यधायि- ..
"वायुः समुत्थितो नाभेरुरोहतकण्ठशिरोहतः ।
पञ्चस्थानोत्थितस्यास्य, पञ्चमत्वं विधीयते ॥ तथाऽभिसन्धयते-अनुसंधयति शेषस्वरानिति निरुक्तिवशाद्वैवः, यदुक्तम्_ "अभिसंधयते यस्मादेतान् पूर्वोदितस्वरान् ।
तस्मादस्य स्वरस्यापि, धैवतत्वं विधीयते॥" पाठान्तरेण रैवश्चैवेति, तथा निषीदन्ति स्वरा यस्मिन् स निषादः, यतोऽभिहितम्
"निषीदन्ति स्वरा यस्मिन्निपादस्तेन हेतुना।
सर्वांश्चाभिभत्येव, यदादित्याऽस्य दैवतम् ।।?" इति, तदेवं स्वरा:-जीवाजीवनीश्रितध्वनिविशेषाः ‘सत्त वियाहिय'त्ति विविधप्रकारैराख्यातास्तीर्थकरगणधरैरितिश्लोकार्थः । आह-ननुअकारणभेदेन कार्यस्य भेदात् स्वराणां च जिह्वादिकारणजन्यत्वात् तद्वतां च द्वीन्द्वियादित्रसजीवानामसंख्येयत्वाञ्जीवनिसृता अपि तावत् स्वरा असङ्ख्याताः प्राप्नुवन्ति किमुताजीवनिसृता इति कथं सप्तसङ्ख्यानियमो न विरुध्यत इति?, अत्रोच्यते, असङ्ख्यातानामपि स्वरविशेषाणामेतेष्वेव सप्तसु सामान्यस्वरेष्वन्तर्भावाद् बादराणां वा केषाञ्चिदेवोपलभ्यमानविशिष्टव्यक्तीनां ग्रहणाद्गीतोपकारिणां विशिष्टस्वराणां वक्तुमिष्टत्वाददोष इति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org