SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ मूलं-१६३ ३५१ मू.(१६३) उक्कावाया दिसादाहा गज्जियं विज्जू निग्धाया जूवया जक्खादित्ता धूमिआ महिआ रयुग्धाया चंदोवरागा सूरोवरागा चंदपरिवेसा सूरपरिवेसा पडिचंदा पडिसूरा इंदधनू उदगमच्छा कविहासिया अमोहा वासा वासधरा गामा नगरा धरापव्वता पायाला भवणा निरया रयणप्पहा सक्करप्पहा वालुअप्पहा पंकप्पहा धूमप्पहा तमप्पहा तमतमप्पहा सोहम्मे जाव अच्चुए गेवेज्जे अनुत्तरे ईसिप्पभारा परमाणुपोग्गले दुपएसिए जाव अनंतपएसिए, से तं साइपारिणामिए। से किंतं अनाइपारिणामिए?, २ धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए पुग्गलत्थिकाए अद्धासमए लोए अलोए भवसिद्धिआ अभवसिद्धिआ से तं अनाइपारिणामिए। से तं पारिणामिए। वृ.उल्कापाता अपिव्योमसम्मूच्छितज्वलनपतनरूपाः प्रसिद्धा एव, दिग्हास्तु-अन्यतरस्यां दिशि छिन्नमूलज्वलनज्वालाकरालिताम्बरप्रतिभासरूपाः प्रतिपत्तव्याः, गर्जिताविधुनिर्घाताः प्रतीताः, यूपकास्तु-'संझाच्छेयावरणोय जूयओ सुक्क दिन तिनी'तिगाथादलप्रतिपादितस्वरूपा आवश्यकादवसेया, यक्षादीप्तकानि नभोदृश्यमानाग्निपिशाचाः, धूमिका-रूक्षा प्रवरिला धूमाभा प्रतिपत्तव्या, महिका तु स्निग्धा घना स्निग्धघनत्वादेव भूमौ पतिता सार्द्रतृणादिदर्शनद्वारेण लक्ष्यते रजउद्घातो-रजस्वला दिशः, चन्द्रसूर्योपरागा राहुग्रहानि, बहुवचनं चात्रार्द्धतृतीयद्वीपसमुद्रवर्तिचन्द्रार्काणां युगपदुपरागभावात् मन्तव्यमिति चूर्णिकारः, चन्द्रसूर्यपरिवेषाःचन्द्रादित्ययोः परितो बलयाकारपुद्गलपरिणतिरूपाः सुप्रतीता एव, प्रतिचन्द्रः-उत्पातादिसूचको द्वितीयश्चन्द्रः, एवं प्रतिसूर्योऽपि, इन्द्रधनुः-प्रसिद्धमेव, उदकमत्स्यास्तु-इन्द्रधनु:खण्डान्येव, कपिहसितानि-अकस्मानभसि ज्वलभीमशब्दरूपाणि अमोघा-सूर्यबिम्बादधः कदाचिदुपलभ्यमानशकटोर्द्धिसंस्थितश्यामादिरेखाः वाणि-भरतादीनि वर्षधारस्तु-हिमवदादयः पाताला:-पातालकलशाः, शेषास्तु ग्रामादयः प्रसिद्धा एव। __ अत्राह-ननु वर्षधरादयः शाश्वतत्वात् न कदाचित्तद्भावं मुञ्चन्ति तत्कथं सादिपारिणमिकभाववर्तित्वं तेषां ?, नैतदेवं, तदाकारमात्रतयैव हि तेऽवतिष्ठामानाः शाश्वता उच्यन्ते, पुद्गलास्त्वसङ्ख्येयकालादूर्ध्वं न तेष्वेवावतिष्ठन्ते, किं त्वपरापरे तद्भावेन परिणमन्ति, तावत्कालादूर्ध्वं पुद्गलानामेकपरिणामेनावस्थितेः प्रागेव निषिद्धत्वादिति सादिपारिणमिकता नविरुध्यते, अनादिपारिणामिकेतु धर्मास्तिकायादयः, तेषां तद्रूपतया अनादिकालात् परिणतः, वाचनान्तराण्यपि सर्वाण्युक्तानुसारतो भावनीयानि। ‘से त'मित्यादि निगमनद्वयम्। उक्त: पारिणामिकः, अथ सान्निपातिकं निर्दशति. मू.(१६३ वर्तते) से किंतंसनिवाइए?, २ एएसिं चेव उदइअउवसमिअखइअखओवसमिअपारिणामिआणं भावाणं दुगसंजोएणं तियसंजोएणं चउक्कसंजोएणं पंचवसंजोएणं जे निप्फन्नइ सवे से सनिवाइए नामे, तत्थ नं दस दंअसंजोगा दस तिअसंजोगा पंच चउक्कअसंजोगा एगे पंचकसंजोगे। वृ. सन्निपातः-एषामेवौदयिकादिभावनां द्वयादिमेलापकः स एव तेन वा निर्वृत्तः सानिपातिकः, तथा चाह-'एएसिं चेवे'त्यादि, एषामौदयिकादीनां पञ्चानां भावनां द्विकत्रिकचतुष्कपञ्चकसंयोगर्ये षड्विंशतिर्भङ्गाः भवन्ति ते सर्वेऽपि सान्निपातिको भाव इत्युच्यते, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy