________________
३५०
अनुयोगद्वार-चूलिकासूत्रं ... 'से त'मित्यादि निगमनम् । तेनैव क्षयोपशमेनोक्तस्वरूपेण निष्पन्नः क्षयोपशमिको भावोऽनेकधा भवति, तमाह-'खाओवसमिया आभिनिबोहियनाणलद्धी'त्यादि, आभिनिबोधिकज्ञानं-मतिज्ञानं तस्य लब्धिः-योग्यता स्वावरणकर्मक्षयोपशमसाध्वत्वात् क्षयोपशमिकी, एवं तावद् वक्तव्यं यावन्मनःपर्यायज्ञानलब्धिः, केवलज्ञानलब्धिस्तु स्वावरणकर्मणः क्षय एवोत्पद्यत इति नेहोक्ता, कुत्सितं ज्ञानमज्ञानं मतिरेव अज्ञानं मत्यज्ञानं, कुत्सितत्व चेह मिथ्यादर्शनोदयदूषितत्वात् दृष्टव्यं, दृष्टा च कुत्सार्थे नो वृत्तिः, यथा कृत्सितं शीलमशीलमिति, मत्यज्ञानस्य लब्धिः-योग्यता, साऽपि स्वावरणक्षयोपशमेनैव निष्पद्यते, एवं श्रुताज्ञानलब्धिरपि वाच्या, भङ्गः प्रकारो भेद इत्यर्थः, स चेह प्रक्रमादवधिरेव गृह्यते विरूपः-कुत्सितो भङ्गो विभङ्गः स एवार्थपरिज्ञानात्मकत्वात् ज्ञानं विभङ्गज्ञानं, मिथ्यादृष्टिदेवादेरवधिविभङ्गज्ञानमुच्यते इत्यर्थः, इह च विशब्देनैव कुत्सितार्थप्रतीतेन नो निर्देशः, तस्य लब्धिः-योग्यता साऽपि स्वावरणक्षयोपशमेनैव प्रादुरसति, एवं मिथ्यात्वादिकर्मणः क्षयोपशमसाध्याः शेषा अपि सम्यग्दर्शनादिलब्धयो यथासम्भवं भावनीयाः नवरंबाला-अविरता: पण्डिता:-साधव: बालपण्डितास्तु-देशविरताः तेषां यथास्वं वीर्यलब्धिर्वीर्यान्तरायकर्मक्षयोपशमाद्भावनीया, इन्द्रियाणि चेह लब्ध्युपयोगरूपाणि भावेन्द्रियाणि गृह्यन्ते, तेषां चलब्धिः-योग्यता मतिश्रुतज्ञानचक्षुर्दर्शनावरणक्षयोपशमजन्यत्वात् क्षयोपशमिकीति भावनीयम्, आचारधरत्वादिपर्यायाणां च श्रुतज्ञानप्रभवत्वात् तस्य च तदावरणकर्मक्षयोपशमसाध्यत्वादाचारधरादिशब्दा इह पठ्यन्ते इति प्रतिपत्तव्यम्। 'से त'मित्यादि निगमनद्वयम् ।
अथ पारिणामिकभावमाश्रित्याह- मू.(१६१ वर्तते) से किं तं पारिणामिए?, २ दुविहे पन्नत्ते, तंजहा-साइपारिणामिए अ अनाइपारिणामिए अ। से किं तं साइपारिणामिए?, २ अनेगविहे पन्नत्ते, तंजहावृ.सर्वथा अपरित्यक्तपूर्वावस्थस्य यद्रूपान्तरेण भवनं-परिणमनं स परिणामः, तदुक्तम्- .
"परिणामो ह्यर्थान्तरगमनंत च सर्वथा व्यवस्थानम्
नच सर्वथा विनाश: परिणामस्तद्विदा-मिष्टः॥" इति, स एव तेन वा निर्वृत्तः पारिणामिकः, सोऽपि द्विविधः-सादिरनादिश्च, तत्र सादिपारिणामिको। मू.(१६२) जुण्णसुरा जुण्णगुलो जुण्णघयं जुण्णतंदुला चेव।
___ अब्भा य अब्भरुक्खा संज्ञा गंधवणगरा य॥ . वृ. 'जुण्णसुरे'त्यादि, जीर्णसुरादीनां जीर्णत्वपरिणामस्य सादित्वात् सादिपारिणमिकता, इह चोभयावस्थयोरप्युनुगतस्य सुराद्रव्यस्य नव्यतानिवृत्तौ जीर्णतारूपेणं भवनं परिणाम इत्येवं सुखप्रतिपत्त्यर्थं जीर्णानां सुरादीनाकग्रहणम्, अन्यथा नवेष्वपि तेषु सादिपारिणमिकता अस्त्येव, कारणद्रव्यस्यैव नूतनसुरादिरूपेण परिणतेः, अन्यथा कार्यानुत्पत्तिप्रसङ्गाद्, अत्र बहु वक्तव्यं तत्तु नोच्यते स्थानान्तरवक्तव्यत्वादस्यार्थस्येति । अभ्राणि सामान्येन प्रतीतान्येव, अभ्रवृक्षास्तु तान्येव वृक्षाकारपरिणतानि, सन्ध्या-कालनीलाद्यभ्रपरिणतिरूपा प्रतीतैव, गन्धर्वनगराण्यपिसुरसद्मप्रासादोपशोभितनगराकारतया तथाविधनभ:परिणतपुद्गलराशिरूपाणि प्रतीतान्येय।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org