________________
मूलं-१६१
गोत्रं द्विधा-उच्चैर्गोत्रं नीचैर्गोत्रं च, ततस्तत्क्षयसम्भवीनि क्षीणगोत्रादिनामान्युक्तानुसारतः सुखावसेयान्येव।
दानान्तरायादिभेदादन्तरायं पञ्चधा, तत्क्षयनिष्पन्नानि च क्षीणादानान्तरायादिनामान्यविषमाण्येव, तदेवमेकैकप्रकृतिक्षयनिष्पन्ननामानि प्रत्येकं निर्दिश्य साम्प्रतं पुनः समुदितप्रकृत्यष्टकक्षयनिष्पन्नानि सामान्यतो यानि नामानि भवन्ति तान्याह-'सिद्धे' इत्यादि, सिद्धसमस्तप्रयोजनत्वात् सिद्धः, बोधात्मकत्वादेव बुद्धः, बाह्याभ्यन्तरग्रन्थबन्धनमुक्तत्वात् मुक्तः, परि:-समन्तात् सर्वप्रकारे: निर्वृत्तः-सकलसमीहितार्थलाभप्रकर्षप्राप्तत्वात् शीतीभूतः परिनिर्वृतः, समस्तसंसारान्तकृत्त्वादन्तकृदिति, एकान्तेनैव शरीरमानसदुःखप्रहणात् सर्वदुःखप्रहीण इति। 'सेत'मित्यादि निगमनद्वयम्। उक्तो द्विविधोऽपि क्षायिकः, अथ क्षायोपशमिकवाह
म.(१६१ वर्तते )से किं तं खओवसमिए?, २ विहे पन्नते, तंजहा-खओवसमिए य खओवसमनिप्फन्ने य। सेकिंतखओवसमे?,२ चउण्हंघाइकम्माणं खओवसमेणं, तंजहानानावरणिज्जस्स दंसणावरणिज्जस्स मोहणिज्जस्स अंतरायस्स खओवसमेणं, से तंखओवसमे। - से किं तं खओवसमनिप्फन्ने?, २ अनेगविहे पन्नत्ते, तंजहा-खओवसमिआ आभिनिबोहिअनाणलद्धी जाव खओवसमिया मनपज्जवनाणलद्धी खओवसामिआ मइअन्नालद्धी खओवसमिया सुअअन्नाणलद्धीखओवसमिआविभंगनाणलद्धीखओवसमिआ चक्खुदंसणलद्धी अचक्खुदंसणलद्धी ओहिदंसणलद्धी एवं सम्मदंसणलंधी मिच्छादसणलद्धी सम्ममिच्छादसणलद्धी
खओवसमिआ सामाइअचरित्तलद्धी एवं छेदोवट्ठावणलद्धी परिहारविसुद्धिअलद्धी सुहुमसंपरायचरित्तलद्धी एवं चरित्ताचरित्तलद्धी खओवसमिआ दानलद्धी एवं लाभ० भोग० उवभोगलद्धी खओवसमिआ वीरिअलद्धी एवं पंडिअवीरिअलद्धी बावलवीरिअलद्धी बालपंडिअवीरिअलद्धी खओवसमिआ सोइंदिअलद्धी जाव खओवसमिआ फासिंदिअलद्धी। ___ खओवसमिए आयारंगधरे एवं सुअगडंगधारे ठाणंगधरे समवायंधरे विवाहपन्नत्तिधरे नायाधम्म्कहा० उवासगदसा० अंतगडदसा० अनुत्तरोववाइअदसा० पण्हावागारणधरे विवागसुअधरेखओवसमिएअदिट्ठियावधरे अखोवसमिए नवपुवी खओवसमिए जाव चउद्दसपुव्वी खओवसमिए गणी खओवसमिए वायए, से तंखओवसमनिप्फन्ने, से तं खओवसमिए।
वृ.असावपि द्विरूप:-क्षयोपशमस्तनिष्पन्नश्च, तत्र विवक्षितज्ञानादिगुणविधातकस्य कर्मण उदयप्राप्तस्य क्षयः-सर्वथाऽपगमः अनुदीर्णस्य तु तस्यैवोपशमे-विपाकत उदयाभाव इत्यर्थः, ततश्च क्षयोपलक्षित उपशमः क्षयोपशमः, ननु चौपशमिकेऽपि यदुदयप्राप्तं तत्सर्वथा क्षीणं शेषं तु न क्षीणं नाप्युदयप्राप्तमतस्तस्योपशम उच्यत इत्यनयोः कः प्रतिविशेषः ?, उच्यते, क्षयोपशमावस्थे कर्मणि विपाकत एवोदयो नास्ति, प्रदेशतस्त्वस्त्येव, उपशान्तावस्थायां तु प्रदेशतोऽपि नास्त्युदय इत्येतावता विशेषः । तत्र चतुर्णां घातिकर्मणां केवलज्ञानप्रतिबन्धकानां ज्ञानावरणदर्शनावरणमोहनीयान्तरायाणां यः क्षयोपशम:-क्षयोपशमरूपः स क्षयोपशमिको भावः, नमिति पूर्ववत्, तद्यथेत्यादिना स्वत एव घातिकर्माणि विवृणोति, शेषकर्मणां तं क्षयोपशमो नास्त्येव, निषिद्धत्वात्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org