________________
३४८
अनुयोगद्वार-चूलिकासूत्रं अपरंच-अनावरणादिशब्दाः पूर्वं ज्ञानावरणाभावापेक्षाः प्रवृत्ता अत्र तु दर्शनावरणाभावापेक्षा इति विशेषः, वेदनीयं द्विधा-प्रीत्युत्पादकं सातमप्रीत्युत्पादकं त्वसातं, तत्क्षयापेक्षास्तु क्षीणसातावेदनीयादयः शब्दाः सुखोन्नेयाः, नवरमवेदनो-वेदनारहितः, स च व्यवहारतोऽल्पवेद-- नोऽप्युच्यते ततः प्राह-निर्वेदन:-अपगतसर्ववेदनेः, स च पुनः कालान्तरभाविवेदनोऽपि स्यादित्याह-क्षीणवेदन:-अपुन विवेदनः, निगमयन्नाह-'सुभासुभवेअणिञ्जकम्मविप्पमुक्के'त्ति।
मोहनीयं द्विधा-दर्शनमोहनीयं चारित्रमोहनीयं च, तत्र दर्शमोहनीयं त्रिधा-सम्यकत्वमिश्रमिथ्यात्वभेदात्, चारित्रमोहनीयं च द्विधा-क्रोधादिकषायहास्यादिनोकषायभेदात्, तत एततक्षयसम्भवीनि सत्रलिखितानि क्षीणक्रोधादीनि नामानि सबोधान्येव, नवरं मायालोभौ प्रेम, क्रोधमानौ तु द्वेषः, तथा अमोह:-अपगतमोहनीयकर्मा, सच व्यवहारिकैरल्पमोहोदयोऽपि निदिश्यते अत आह-निर्गतो मोहानिर्मोहः, सच पुनः कालान्तरभाविमोहोदयोऽपिअ स्यादुपशान्तमोहवत् तद्व्यवच्छेदार्थमाह-क्षीणमोह: अपुन विमोहोदय इत्यर्थः, निगमयतिमोहनीयकर्मविप्रमुक्त इति।
नारकाद्यायुष्कभेदेनायुश्चतुद्धी, तत्क्षयसमुद्भवानि च नामानि सुगमानि, नवरमविद्यमानायुष्कोऽनायुष्कस्तद्भविकायु:क्षयमात्रेऽपि स स्यादत उक्तं-निरायुष्कः, स च शैलेशी गतः किञ्चिदवतिष्ठमानायुःशेषोऽप्युपचारतः स्यादत उक्तं- क्षीणायुरिति, आयुःकर्मविप्रमुक्त इति निगमनं। __नामकर्म सामान्येन शुभाशुभभेदतो द्विविधं, विशेषस्तु गतिजातिशरीराङ्गोपाङ्गादिभेदाद् द्विचत्वारिंशादिभेदं स्थानान्तरदवसेयं, तत्रेह तत्क्षयभावीनि कियन्ति तन्नामानि अभिधत्ते'गइजाइसरीरे' त्यादि, इह प्रक्रमानामशब्दो यथासम्भवं दृष्टव्यः, ततश्च नारकादिगतिचतुष्टयहेतुभूतं गतिनाम, एकेन्द्रियादिजातिपञ्चककारणं जातिनाम, औदारिकादिशरीरपञ्चकनिबन्धनं शरीरनाम, औदारिकवैक्रियाहारकशरीरत्रयाङ्गोपाङ्गनिर्वृत्तिकारणमङ्गोपाङ्गनाम, काष्ठादीनां लाक्षादिद्रव्यमिव शरीरपञ्चकपुद्गलानां परस्परंबन्धहेतुर्वन्धननाम, तेषामेव पुद्गलानां परस्परं बन्धनार्थमन्योऽन्यसांनिध्यलक्षणसङ्घातकारणं काष्ठसन्निकर्षकृत् तथाविधकर्मकर इव सङ्घातनम, कपाटादीना लोहपट्टादिरिवौदारिकशरीरस्थ्वां परस्परबन्धविशेषनिबन्धनं संहनननाम, एतच्च बन्धनादिपदत्रयं क्वचिद्वाचनान्तरे न दृश्यत इति, बोन्दिस्तनुः शरीरमिति पर्यायाः, अनेकाश्च ता नानाभावेषु बह्वीनां तासां भावात् तस्मिन्नेव वा भवे जघन्यतोऽप्यौदारिकतेजसकार्मणलक्षणानां तिसृणां भावाद् बोन्द्यश्चानेकवोन्द्यस्तासां वृन्दं-पटलं तदेव पुद्गलसङ्घातरूपत्वात् सङ्घातोऽनेकबोन्दिवृन्दसङ्घातः, गत्यादीनां च द्वन्द्वे गतिजातिशरीराङ्गोपाङ्गबन्धनसंघातसंहननसंस्थानानेकबोन्दिवृन्दसङ्घातास्तैर्विप्रमुक्तो यः स तथा, प्राक्तनेन शरीरशब्देन शरीराणां निबन्धनं नामकर्म गृहीतं, बोन्दिवृन्दग्रहणेन तु तत्कार्यभूतशरीराणामेव ग्रहणमिति विशेषः, क्षीणम्-अपगतं तीर्थकरशुभसुभगसुस्वरादेययश:कीर्त्यादिक शुभं नाम यस्य स तथा, क्षीणम्-अपगतं नरकगत्यशुभदुर्भगदुःस्वरानादेयायशःकीर्त्यादिकमशुभं नाम यस्य स तथा, अनामनिर्नामक्षीणनामादिशब्दास्तु पूर्वोक्तानुसारेण भावनीयाः, शुभाशुभनामविप्रमुक्त इति निगमनम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org