________________
-
नन्दी-चूलिकासूत्रं तदेतदर्हत्यपि समानं, न समानम्, अर्हद्वचसि प्रमासंवाददर्शनात्, उक्तं च
"जैनेश्वरे हि वचसि, प्रमासंवाद इष्यते।
प्रमाणवाधा त्वन्येषामतो द्रष्टा जिनेश्वरः।" अथ पुरुषमात्रसमुत्थं प्रमाणमतीन्द्रियविषये न साधकं नापि बाधकमविषयत्वात्, समानकक्षतायां हि बाध्यवाधकभावः, तथा चोक्तम् -
"समानविपया यस्माद्बाध्यबाधकसंस्थितिः।
अतीन्द्रिये च संसारिप्रमाणं न प्रवर्तते॥" ततः कथमुच्यते-अर्हतो वचसि प्रमासंवाददर्शन प्रमाणबाध्यत्वमन्येषामिति?, तदपि न सम्यक्, यतो न भगवान् केवलमतीन्द्रियमस्मादृशामशक्यपरिच्छेदमेवोपदिशति, यदि पुनः तथाभूतमुपदिशेत् तर्हि न कोऽपि तद्वचनतः प्रवतेत, अतीन्द्रियार्थं वचः सर्वेषामेव विद्यते परस्परविरुद्धं च, ततः कथं तद्वचनतः प्रेक्षावतां प्रवृत्तिः ?, ततोऽवश्यं परान् प्रतिपादयता भगवता परैः शक्यपरिच्छेदमप्युपदेष्टव्यं शक्यपरिच्छेदेषु चार्थेषु भगवदुक्तेषु यत्तथाप्रमाणेन संवेदनं तत्तद्विपयं साधकं प्रमाणमुच्यते, विपरीतं त बाधकं, अस्तित भगवदुक्तेषु शक्यपरिच्छेदेष्वर्थेषु प्रमासंवादः, तथाहि-घटादयः पदार्था अनेकान्तात्मका उक्ताः, ते च तथैव प्रत्यक्षतोऽनुमानतो वा निश्चीयन्ते, मोक्षोऽपिच परमानन्दरूपशाश्वतिकसौख्यात्मक उक्तः, ततः सोऽपि युक्त्वा सङ्गतिमुपपद्यते, यतः संसारप्रतिपक्षभूतो मोक्षः संसारेजन्मजरामरणादिदुःखहेतवोरागादयः ते च निर्मूलमपगता मोक्षावस्थायामिति न मोक्षे दुःखलेशस्यापि सम्भवः, न च निर्मूलमपगता रागादयो भूयोऽपि जायन्ते, ततः तत्सौख्यं शाश्वतिकमुपवर्ण्यते, ननु यदि न तत्र रागादयस्तर्हिन तत्र मत्तकामिनीगाढालिङ्गनपीनस्तनापीडनवदनचुम्बनकराघातादिप्रभवं रागनिबन्धनं सुखं नापि द्वैपनिबन्धनं प्रबलवैरितिरस्कारापादनप्रभवं नापि मोहनिबन्धनमहङ्कारसमुत्थमात्मीयविनीतपुत्रभ्रातृप्रभृतिबन्धुवर्गसहवाससम्भवं च, ततः कथमिव स मोक्षो जन्मिनामुपादेयो भवति?,
"वीतरागस्य न सुखं, योषिदालिङ्गनादिजम्। वीतद्वेषम् च कुतः, शत्रुसेनाविमर्पजम्? ॥"
वीतमोहस्य न सुखमात्मीयाभिनिवेशजम्। - ततः किं तादृशा तेन, कृत्यं मोक्षेण जन्मिनाम्?।। अपिच-क्षुदादयोऽपि तत्र सर्वथा निवृत्ता इष्यन्ते, ततोऽत्यन्तबुभुक्षाक्षामकुक्षेर्यविशिष्टाहारभोजनेन यद्वा ग्रीष्मादौ पिपासापीडितस्य पाटलाकुसुमादिवासितसुगन्धिशीतसलिलपानेनोपजायते सुखं तदपि तत्र दूरतोऽपास्तप्रसरमिति न कार्यं तेन, तदेतदतीवासमीचीनं, यतो यद्यपि रागादयः, प्रथमतः क्षणमात्रसुखदायितया रमणीयाः प्रतिभासन्ते तथापि ते परिणामपरम्परयाऽनन्तदुःखसहनरकादिदुःखसम्पातहेतवः, तत: पर्यन्तदारुणतया विषानभोजनससमुत्थमिव न रागादिप्रभवं सुखमुपादेयं प्रेक्षावतां भवति, प्रेक्षावन्तो हि बहुदुःखमपहाय यदेव बहुसुखं तदेव प्रतिपद्यन्ते, यस्तु स्तोकसुखनिमित्तं बहुदुःखमाद्रियते सप्रेक्षावानेव न भवति, किन्तु कुबुद्धिः, रागादिप्रभवमपि च सुखमुक्तनीत्या बहुदुःखहेतुकम्, अपवर्गसुखं चैकान्तिकात्यन्तिकपरमानन्दरूपं, ततः तदेव तत्त्ववेदिनामुपादेय, न रागादिप्रभवमिति, यदि पुनर्यदपि
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only