________________
मूलं-३ देशस्यापि सम्भवः, ततो यद्वस्तु तत्सर्वं भगवतः प्रत्यक्षमेवेति भवति सर्वज्ञस्यैवमात्मनो निश्चयःएतावदेव जगति वस्त्विति, यदप्युक्तम्-'अशुच्यादिरसास्वादप्रसङ्ग' इति, तदापि दुरन्तदीर्घपापोदयविजृम्भितम्, अज्ञानतो भगवत्यधिक्षेपकरणात्, यो हि यादृगभूतोऽशुच्यादिरसो येषां च प्राणिनां यादृग्भूतां प्रीतिमुत्पादयति येषां च विद्विषं तत्सर्वं तदवस्थतया भगवान् वेत्ति, ततः कथमशुच्यादिरसास्वादप्रसङ्गः?, अथ यदि तटस्थतया वेत्ति तर्हि न सम्यक, सम्यक्, चेत् यथास्वरूपं वेत्ता तर्हि नियमात् तदास्वादप्रसक्तिः, उक्तं च
"तटस्थत्वेन वेद्यत्वे, तत्त्वेनाऽवेदनं भवेत्।
तदात्मना तुवेद्यत्वेऽशुच्यास्वादः प्रसज्यते।" तदसत्, भवान् हि सका करणाधीनज्ञानः ततो रसं यथावस्थितमवश्यं जिह्वेन्द्रियव्यापारपुरस्सरमास्वादत एव जानाति, भगवांस्तु करणव्यापारनिरपेक्षोऽतीन्द्रियज्ञानी ततो जिह्वेन्द्रियव्यापारसम्पाद्यास्वादमन्तरेणैव रसं यथावस्थितं तटस्थतया सम्यग्वेत्तीति न कश्चिदोषः।
एतेन पररागादिवेदने रागित्वादिप्रसङ्गापादनमप्यपास्तमवसेयं, पररागादीनामपि यथावस्थिततया तटस्थेन सत्तावेदनात्, यदप्युक्तं-'कालतोऽनादिरनन्तः संसार इत्यादि' तदप्यसम्यग्, युगपत्सर्व्ववेदनाद्, न च युगपद्सर्ववेदनमसम्भवि, दृष्टत्वात्, तथाहि-सम्यग्जिनागमाभ्यासप्रवृत्तस्य बहुशो विचारितधर्माधर्मास्तिकायादिस्वरूपस्य्सामान्यतः पञ्चास्तिकायविज्ञानं युगपदपि जायमानमुपलभ्यते, एवमशेषविशेषकलितपञ्चास्तिकायविज्ञानमपि भविष्यति, तथा चायमर्थोऽन्यैरप्युक्तो
"यथा सकलशास्त्रार्थः, स्वभ्यस्तः प्रतिभासते।
- मनस्येकक्षणेनैव, तथाऽनन्तादिवेदनम्॥" यदप्युच्यते-'कथमतीतंभावि वा वेत्ति ?, विनष्टानुत्पन्नत्वेन तयोरभावादि, ति, तदपि न सम्यक्, यतो यद्यपीदानिन्तनकालापेक्षया ते असती, तथापि यथाऽतीतमतीते कालेऽवर्तिष्ट यथा च भावी (वय॑ति) वर्तिष्यते तथा ते साक्षात्करोति ततो न कश्चिद्दोषः, स्यादेतत्-यथा भवद्भिर्ज्ञानस्य तारतम्यदर्शनात्प्रकर्षसम्भवोऽनुमीयते तथा तीर्थान्तरीयैरपि, ततो यथा भवत्सम्मततीर्थकरोपदर्शिता: पदार्थराशयः सत्यतामश्नुवते तथा तीर्थान्तरीयसम्मततीर्थकरोपदर्शिता अपि सत्यतामश्नुवीरन्, विशेषाभावाद्, अन्यथा भवत्सम्मततीर्थकरोपदर्शिता अपि असत्यतामश्नुवीरन्, अथ तीर्थान्तरीयसम्मतीर्थकरोपदिष्टाः पदार्थराशयोऽनुमानप्रमाणेन बाध्यन्ते ततो न ते सत्याः, तदयुक्तम्, अनुमानप्रमाणेनातीन्द्रियज्ञानस्य बाधितुमशक्यत्वात्,
"अतीन्द्रियानंसेवद्यान्, पश्यन्त्यार्षेण चक्षुषा।
ये भावान् वचनं तेषां, नानुमानेन बाध्यते॥" अथ सम्भवति जगति प्रज्ञालवोन्मेषदुर्विदग्धाः कुतर्कशास्त्राभ्याससम्पर्कतो वाचाला: तथाविधाद्भुतेन्द्रजालकौशलवशेन दर्शितदेवागमनभोयानचामरादिविभूतयः कीर्तिपूजादिलब्धुकामाः स्वयमसर्वज्ञा अपि सर्वज्ञा वयमिति ब्रुवाणाः, तत एतावदेव न ज्ञायते यदुत-तेषां सर्वोत्तमप्रकर्षरूपमतीन्द्रियज्ञानमभूत्, यदि पुनर्यथोक्तस्वरूपमतीन्द्रियज्ञानमभविष्यत् तर्हि वचनमपि तेषां नाबाधिष्यत, अथ च दृश्यते बाधा ततस्ते कैतवभूमयो न सर्वज्ञा इति प्रतिपत्तव्यम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org