SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ३० नन्दी-चूलिकासूत्रं प्रत्यक्षमन्तरेण शेषानुमानादिज्ञानसम्भवः, तथाहि-नते विशेषा अनुमानप्रमाणगम्याः, लिङ्गाभावात्, नाप्यागमगम्याः, तस्य विधिप्रतिषेधमात्रविषयत्वात्, नाप्युपमानगम्याः, तस्य प्रत्यक्षपुरस्सरत्वाद्, "न चागमेन यदसौ, विध्यादिप्रतिपादकः । अप्रत्यक्षत्वतो नैवोपमानस्यापि सम्भवः ।।" नाप्यर्थापत्तिविषयाः, सा हि दृष्टः श्रुतो वाऽर्थो यदन्तरेण नोपपद्यते यथा काष्ठस्य भस्मविकारोऽग्नेर्दाहकशक्तिमन्तरेण तद्विषया वर्ण्यते, न च दृष्टाः श्रुतो वा कोऽप्यर्थः तान् विशेषानन्तरेण नोपपद्यते, ततो नार्थापात्तिगम्याः, न चैते विशेषाः, स्वरूपेण न सन्ति, विशेषान् विना सामान्यस्यैवास भवात्, न च वाच्यमत एव सामान्यस्यान्यथानुपपत्तेरापत्तिगम्याः, नियतरूप-- तयाऽनवगमात्, प्रातिनैयत्यमेव च विशेषाणां स्वस्वरूपं, अन्यथा विशेषहाने: सामान्यरूपताप्रसङ्गात्, न च तेषां ज्ञेयत्वमेवासिद्धमिति वाच्यम्, अभावप्रमाणव्यभिचारप्रसङ्गात्, तथाहियदि केनापि प्रमाणेन न ज्ञायन्ते तहि "प्रमाणपञ्चकं यत्र, वस्तुरूपे न जायते। वस्त्वसत्तावबोधार्थं, तत्राभावप्रमाणता॥" इति वचनादभावप्रमाणविषयाः स्युः, अभावाख्यं च प्रमाणमभावसाधनमिष्यते, अथ च ते विशेषाः स्वरूपेणैवावतिष्ठन्ते, ततोऽभावप्रमाणव्यभिचारप्रसङ्गः, तस्माद्विपक्षव्यापकानुपलब्ध्या विशेषाणां ज्ञेयत्वं प्रत्यक्षविषयतया व्याप्यत इति प्रतिबन्धसिद्धिः, स्यादेतत्-ज्ञेयत्वादिति हेतुर्विशेषविरुद्धः, तथाहि-धटादिगता रूपादिविशेषा इन्द्रियप्रत्यक्षेण प्रत्यक्षा उपलब्धाः, ततः तज्ज्ञेयत्वमिन्द्रियप्रत्यक्षविषयतया प्रत्यक्षत्वेन व्याप्तं निश्चितं सत् जलधिजलपलप्रमाणादिष्वपि विशेषेषु प्रत्यक्षत्वमिन्द्रियप्रत्यक्षविषयतां साधयति, तच्चानिष्टमित्ति, तदयुक्तम्, विरुद्धलक्षणासम्भवात्, तथाहि विरुद्धो हेतुः सदा भवति यदा बाधकं नोपजायते 'विरुद्धोऽसति बाधके' इति वचनाद्, अत्र चबाधकं विद्यते, यदि हि इन्द्रियप्रत्यक्षविषयतया प्रत्यक्षत्वं भवेत् ततोऽस्मादृशामपि ते प्रत्यक्षा भवेयुः, न च भवन्ति, तस्मादस्मादृशैः प्रत्यक्षत्वेनासंवेदनमेव तेषामिन्द्रियप्रत्यक्षविषयत्वसाधने बाधकमिति न विशेषविरुद्धः, अन्यः प्राह-न विशेषविरुद्धता हेतोर्दूषणम्, अन्यथा सकलानु-- मानोच्छेदप्रसङ्गात्, तथाहि-यथा धूमोऽग्निं साधयति, अग्निप्रतिबद्धतया महानसे निश्चितत्वात्, तथा तस्मिन् साध्यधर्मिण्यग्न्यभावमपि साधयति, तेनापि सह महानसे प्रतिबन्धनिश्चयात्, तद्यथानात्रत्येनाग्निा अग्निमान् पर्वतो, धूमवत्त्वात्, महानसवत्, ततश्चैवं न कश्चिदपि हेतुः स्यात्, तस्मात् न विशेषविरुद्धता हेतोर्दोषः, आह च प्रज्ञाकरगुप्तोऽपि - __ "यदि विशेषविरुद्धतया क्षितिर्ननु न हेतुरिहास्ति न दूषितः । - निखिलहेतुपराक्रमरोधिनी, न हि न सा सकलेन विरुद्धता॥" यच्चोक्तम्-'अथवा अस्तु तदपि तथापि, सर्वमेतावदेव जगति वस्त्विति न निश्चय इत्यादि' तदप्यसारं, यतोऽवधिज्ञानं तदावरणकर्मदेशक्षयोत्थं ततोऽतीन्द्रियमपि तन्न सकलवस्तुविषयं, केवलज्ञानं तु निर्मूलसकलज्ञानावरणकर्मपरमाण्वपगमसमुत्थं ततः कथमिव तन्त्र सकलवस्तुविषयं भवेत्?, न ह्यतीन्द्रियस्य देशादिविप्रकर्षाः प्रतिबन्धकाः, न च केवलप्रादुर्भावे आवरण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy