________________
मूलं - ३
कथं श्रद्धेयम्?, न खलु लङ्घनमभ्यासतः तारतम्यवदप्युपलभ्यमानं सकललोकविपयमुपलभ्यते, तदसद्, दृष्टान्तदार्ष्टान्तिकयोर्वैपम्यात्, तथाहि-न लङ्घनमभ्यासादुपजायते, किन्तु बलविशेषतः, तथाहि-समानेऽपि गरुत्मच्छाखामृगशावक्यां भ्यासे न समानं लङ्घनम्, उक्तं च“गरुत्मच्छाखामृगयोर्लङ्घनाभ्याससम्भवे । समानेऽपि समानत्वं, लङ्घनस्य न विद्यते ॥"
अपि च-पुरुषयोरपि द्वयोः समानप्रथमयौवनयोरपि समानेऽप्यभासे एकः प्रभूतं लङ्घयितुं शक्नोति अपरस्तु स्तोकं, तस्माद्वलसापेक्षं लङ्घनं नाभ्यासमात्रहेतुकम्, अभ्यासस्तु केवलं देहवैगुण्यमात्रमपनयति, तच्च बलं वीर्यान्तरायकर्मक्षयोपशमात्, क्षयोपशमश्च जातिभेदापेक्षी द्रव्यक्षेत्राद्यपेक्षी च, ततो यस्य यावद्वलं तस्य तावदेव लङ्घनमिति तन्न सकललोकविपयं, जीवस्तु शशाङ्कइव स्वरूपेण सकलजगत्प्रकाशनस्वभावः, केवलमावरणघनपटलतिरस्कृतप्रभावत्वात् न तथा प्रकाशते, उक्तं च
“स्थितः शीतांजुवज्जीवः, प्रकृत्या भावशुद्धेया । चन्द्रिकावच्च विज्ञानं, तदावरणमभ्रवत् ॥”
ततो यथा प्रचण्डनैर्ऋतपवनप्रहता धनपटलपरमाणवः शनै: शनैर्नि: स्नेहीभूयापगच्छन्ति, तदपगमनानुसारेण च चन्द्रस्य प्रकाशो जगति वितनुते तथा जीवस्यापि रागादिभ्यः चित्तं विनिवर्त्य कायावाकंचेष्टासु संयतस्य सम्यक्शास्त्रानुसारेण च यथावस्थितं वस्तु परिभावयतो ज्ञानादिभावनाप्रभावतो ज्ञानावरणीयादिकर्म्मपरमाणवः शनै: शनैर्नि: स्नेहीभूयात्मनः प्रच्यवन्ते, कथमेतत्प्रत्येयमिति चेत् ?, उच्यते, इहाज्ञानादिनिमित्तकं ज्ञानावरणीयादि कर्म्म, ततः तत्प्रतिपक्षज्ञानाद्यासेवनेऽवश्यं तदात्मनः प्रच्यवते, उक्तं च
२९
“बंधइ जहेव कम्मं अन्नाणाईहिं कलुसियमणो उ। तह चेव तव्विवक्खे सहावओमुच्चइ जेणं ॥"
Jain Education International
ज्ञानावरणीयकर्म्मपरमाणुप्रच्यवनानुसारेण चात्मनः शनै: शनैज्ञानमधिकमधिकतरमुल्लसति, यदा तु ज्ञानादिभावनाप्रकर्षवशेनाशेषज्ञानावरणीयादिकर्मपरमाण्वपगमः तदा सकलाभ्रपटलविनिर्मुक्तशशाङ्कइव आत्मा लब्धयथावस्थितात्मस्वरूपः सकलस्यापि जगतोऽवभासकः, ततो ज्ञानस्य प्रकर्षः सकललोकविषयः, अथवा सर्वं वस्तु सामान्येन शास्त्रेऽपि प्रतिपाद्यते यथा पञ्चास्तिकायात्मको लोकः आकाशास्तिकायात्मकश्चालोकः, किञ्चिद्विशेषतश्च ऊर्ध्वाधिस्तिर्यग्लोकाकाशानां सविस्तरं तत्राभिधानात्, शास्त्रानुसारेण च ज्ञानाभ्यासः तत: तरतमभावोऽपि ज्ञानस्य सकलवस्तुविषय एवेति प्रकर्ष भावः तद्विषयो न विरुध्यते, लङ्घनं तु सामान्यतोऽपि न सकललोकविषयमिति कथमभ्यासत:, तत्प्रकर्षः सकललोकविषयो भवेत् ?, स्यादेतद्यद्यपि सामान्यतः शास्त्रानुसारेण सकलवस्तुविषयं ज्ञानमुपजायते तथाऽप्यभ्यासातः तत्प्रकर्षः सकलवस्तुगताशेषविशेषविषय इति कथं ज्ञायते ?, न ह्यत्र किञ्चित् प्रमाणमस्ति, न चाप्रमाणकं वचो विपश्चितः प्रतिपद्यन्ते विपश्चित्ताक्षितिप्रसङ्गात्, तदसत्, अनुमानप्रमाणसद्भावात्, तच्चानुमानमिदं - जलधिजलपलप्रमाणादयो विशेषाः कस्यचित्प्रत्यक्षाः, ज्ञेयत्वात्, घटादिगतरूपादिविशेषवत्, ज्ञेयत्वं हि ज्ञानविषयतया व्याप्तं, न च जलधिजलपलप्रमाणादिरूपेषु विशेषेषु
For Private & Personal Use Only
www.jainelibrary.org
-