SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ मूलं-३ ३३ तदपि सुखमभिलषणीयं भवतः तर्हि पानशौण्डानां यत् मद्यपानप्रभवं यच्च गर्त्ताशूकराणां पुरीषभक्षणसमुत्थं यच्च रक्षसां मानुषमांसाभ्यवहारसम्भवंन्यच्च दासस्य सतः स्वाभिप्रसादादिहेतुकं यदपि च पारसीकदेशवासिनो मात्रादिश्रोणीसङ्गमनिबन्धनं तत्सर्वं भवतो द्विजातिभवे सति न सम्पद्यते इति पानशौण्डाद्यप्यभिलषणीयम् अपि च- नरकदुःखमप्राप्तस्य न तद्वियोगसम्भवं सुखमुपजायते ततो नरकदुःखमप्यभिलपणीयं, अथ विशिष्टमेव सुखमभिलषणीयं न यत्किञ्चित् तर्हि विशिष्टमेकान्तेन सुखं मोक्ष एव विद्यते न रागादौ क्षुदादौ वा तस्मात्तदेवाभिलषणीयं न शेषमिति । योऽपि च सम्यग्दर्शनज्ञानचारित्ररूपो मोक्षमार्ग उक्तः सोऽपि युक्त्या विचार्यमाणः प्रेक्षावतामुपादेयताम श्रनुते, तथाहि सकलमपि कर्मजालं मिथ्यात्वाज्ञानप्राणिहिंसादिहेतुकं ततः सकलकर्म्मनिर्मूलनाय सम्यग्दर्शनाद्यभ्यास एवं घटते, नान्यत्, तदेवं भगवदुपदिष्टेषु शक्यपरिच्छेदेष्वनुमेयेषु च यथाक्रमं प्रत्यक्षानुमान संवाददर्शनात् मोक्षादिषु च युक्त्योपपद्यमानत्वाद्भगवानेव सर्वज्ञो न सुगतादिरिति स्थितम् । तथा 'भद्रं जिनस्य वीरस्य' जयति रागादिशत्रुगणमिति जिन:, औणादिको नक्प्रत्ययः, तस्य भद्रं भवतु, अनेनापायातिशयमाह, अपायो - विश्लेषः तस्यातिशयः - प्रकर्षभावोऽपायातिशयो, रागादिभिः सहात्यन्तिको वियोग इत्यर्थः, ननु रागादिभिः सहात्यन्तिको वियोगोऽसम्भवी, प्रमाणबाधनात्, तच्च प्रमाणमिदं यदनादिमत् न तद्विनाशमाविशति यथाऽऽकाशं अनादिमन्तश्च रागादय इति, किञ्च - रागादयो धर्माः, ते च धर्मिणो भिन्ना अभिन्ना वा ?, यदि भिन्नाः तर्हि सर्वेषामविशेषेण वीतरागत्वप्रसङ्गः, रागादिभ्यो भिन्नत्वाद्, विवक्षितपुरुषवत्, अथाभिन्नाः तर्हि तत्क्षये धर्मिणोऽप्यात्मनः क्षयः, तदभिन्नत्वात्, तत्स्वरूपवत्, तथा च कुतस्तस्य वीतरागत्वं ?, तस्यैवाभावादिति, अत्रोच्यते, इह यद्यपि रागादयो दोषा जन्तोरनादिमन्तः तथापि कस्यचित् स्त्रीशरीरादिषु यथावस्थितवस्तुतत्त्वावगमेन तेषां रागादीना प्रतिपक्षभावनातः प्रतिक्षणमपचयो दृश्यते, ततः सम्भाव्यते विशिष्टकालदिसामग्रीसद्भावे भावनाप्रकर्षविशेषभावतो निर्मूलमपि क्षयः, अथ यद्यपि प्रतिपक्षभावनातः दृष्टस्तथापि तेषामात्यन्तिकोऽपि क्षय: सम्भवतीति कथमवसेयम् ?, उच्यते, अन्यत्र तथाविधप्रतिबन्धग्रहणात्, तथाहि - शीतस्पर्शसम्पाद्या रोमहर्षादयः शीतप्रतिपक्षस्य वह्नेर्मन्दतायां मन्दा उपलब्धा: उत्कर्षे च निरन्वयविनाशधर्माण:, ततोऽन्यत्रापि बाधकस्य मन्दतायां बाध्यस्य मनदतादर्शनाद् बाधकोत्कर्षेऽवश्यं बाध्यस्य निरन्वयविनाशो वेदितव्यः, अन्यथा बाधकमन्दतायां मन्दताऽपि न स्यात्, अथास्ति ज्ञानस्य ज्ञानावरणीयं कर्म बाधकं, ज्ञानावरणीयकर्ममन्दातायां च ज्ञानस्यापि मनाक् मन्दता, अथ च प्रबलज्ञानावरणीयकर्मोदयोत्कर्षेऽपि न ज्ञानस्य निरन्वयो विनाशः, एवं प्रतिपक्ष भावनोत्कर्षेऽपि न रागादीनामत्यन्ततयोच्छेदो भविष्यतीति, तदयुक्तम्, द्विविधं हि बाध्यं - सहभूस्वभावभूतं सहकारिसम्पाद्यस्वभावभूतं च, तत्र यत्सहभूस्वभावभूतं तन्न कदाचिदपि निरन्वयं विनाशमाविशति, ज्ञानं चात्मनः सहभूख भावभूतम्, आत्मा च परिणामिनित्यः ततोऽत्यन्तप्रकर्षवत्यपि ज्ञानावरणीयकम्र्म्मोदये न निरन्वयविनाशो ज्ञानस्य, रागादयस्तु लोभादिककर्म 30/3 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy