SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३४४ अनुयोगद्वार - चूलिकासूत्रं वृ. गाथात्रयं व्यक्तं, नवरं संस्कृते यद्यपि विष्णुरित्युकारान्तमेव भवति तथापि प्राकृतलक्षणस्यैवेह वक्तुमिष्टत्वादूकारान्तता न विरुध्यते, एवमोकारान्तो द्रुम इत्यादिष्वपि वाच्यं, जम्बू:स्त्रीलिङ्गवृत्तिर्वनस्पतिविशेषः, 'पीलुं 'ति क्षीरं, शेषं सुगमं, मू. ( १५८ ) से तं तिनामे । वृ. 'से तं तिनामे' त्ति निगमनम् ॥ मू. (१५९ ) से किं तं चउनामे ?, २ चउव्विहे पत्रत्ते, तंजहा- आगमेणं लोवेणं पयईए विगारेणं । से किं तं आगमेणं ?, २ पद्मानि पयांसि कुण्डानि, से तं आगमेणं । से किं तं लोवेणं?, २ ते अत्र तेऽत्र पटो अत्र पटोऽत्र घटो अत्र घटोऽत्र, से तं लोवेणं । से किं तं पगईए ?, २ अग्नी एतौ पटू इमौ शाले एते माले इमे, से तं पगईए। से किं तं विगारेणं ?, २ दण्डस्य अग्रं दण्डाग्रं सा आगता साऽऽगता दधि इदं दधीदं नदी इह नदीह मधु उदकंअ मधूदकं वधू ऊहः वधूहः, सेतं विगारेणं, से तं चउनामे । वृ. आगच्छतीत्यागो - न्वागमादिस्तेन निष्पन्नं नाम यथा पद्मानीत्यादि, धुट्स्वराद् घुटि नुः इत्यनेनात्र न्वागमस्य विधानाद्, उपलक्षणमात्रं चेदं, संस्कार उपस्कार इत्यादेरपि सुडाद्यागमनिष्पन्नत्वादिति, लोपो वर्णापगमरूपस्तेन निष्पन्नं नाम, यथा तेऽत्रेत्यादि, 'एदोत्परः पदान्ते'. इत्यादिना आकारस्येह लुप्तत्वात्, नामत्वं चात्र तेन तेन रूपेण नमनान्नामेति व्युत्पत्तेरस्त्येवेति, इत्थमन्यत्रापि वाच्यम् । उपलक्षणं चेदं मनस ईषा मनीषा - बुद्धिः भ्रमतीति भ्रूरित्यादेरपि सकारमकारादिवर्णलोपेन निष्पन्नत्वादिति, प्रकृतिः - स्वभावो वर्णलोपाद्यभावस्तया निष्पन्नं नाम, यथा अग्नी एतावित्यादि, द्विवचनमनावि त्यनेनात्र प्रकृतिभावस्य विधानात्, निदर्शनमात्रं चेदं, सरसिजं कण्ठेमाल इत्यादीनामपि प्रकृतिनिष्पन्नत्वादिति, वर्णस्यान्यथाभावापादनं विकारस्तेन निष्पन्नं दण्डस्याग्रं दण्डाग्रमित्यादि, समानः सवर्णे दीर्घीभवति परश्च लोपम् इत्यादिना दीर्घत्वलक्षणस्य वर्णविकारस्येह कृतत्वाद्, उदाहरणमात्रं चैतत् - तस्करः षोडशेत्यादेरपि वर्णविकारसिद्धत्वादिति । तदिह यदस्ति तेन सर्वेणापि नाम्ना आगमनिष्पन्नेन वा लोपनिष्पन्नेन वा प्रकृतिननिर्वृत्तेन वा विकारनिष्पन्नेन वा भवितव्यं, डित्थादिनाम्नामपि सनिरुक्तवात् 'नाम च धातुजमाहे' त्वादिवचनात् ततश्चतुर्भिरप्यैतैः सर्वस्य संग्रहाच्चतुर्नामेदमुच्यते, 'से तं चउनामे 'त्ति निगमनम् । मू. (१६०) से किं तं पंचनामे ?, २ पंचविहे पन्नत्ते, तंजहा - नामिकं नैपातिकं आख्यातिकम् औपसर्गिकं मिश्र, अश्व इति नामिकं, खल्विति नैपातिकं धावतीत्याख्यातिकं, परीत्यौपसर्गिकं, संयत इति मिश्र, से तं पंचनामे । वृ. इहाश्व इति किं ? नामिकं, वस्तुवाचकत्वात्, खल्विति नैपातिकं, निपातेषु पठितत्वात्, धावतीत्याख्यातिकं, क्रियाप्रधानत्वात्, परीत्यौपसर्गिकम्, उपसर्गेषु पठितत्वात् संयत इति मिश्रम्, उपसर्गनामसमुदायनिष्पन्नत्वादिति । एतेरपि सर्वस्य कोडीकरणाद् पञ्चनामत्वं भावनीयम्, ‘से तं पंचनामे' त्ति निगमनम् । मू. ( १६१ ) से किं तं छन्नामे ?, २ छव्विहे पन्नत्ते, तंजहा- उदइए उवसमिए खइए अखोवसमिए पारिणामिए संनिवाइए । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy