________________
मूलं - १५१
३४३
सत्यं, वर्णादिसामान्यस्य भवतु गुणत्वं, तद्विशेषाणां तं कृष्णादीनां न स्याद्, अनियतत्वात् तेषां, सत्यं, वर्णादिसामान्यभेदानामपि कृष्णनीलादीनां प्रायः प्रभूतकालं सहवर्तित्वात् गुणत्वं विवक्षितमित्यलं विस्तरेण । आह-भवत्वेवं,
किन्तु पुद्गलास्तिकायद्रव्यस्यैय संबन्धिनो गुणपर्यायाः किमिति गुणपर्यायनामत्वेनोदाहृता: ?, न धर्मास्तिकायादीना, न च वक्तव्यं तेषां न सन्तीति, धर्माधर्माकाशजीवकालद्रव्येष्वपि यथाक्रमं गतिस्थित्यवगाहोपयोगवर्त्तनादिगुणानां प्रत्येकमनन्तानामगुरुलघुपर्यायाणां च प्रसिद्धत्वात्, सत्यं, किन्त्वन्द्रियप्रत्यक्षगम्यत्वात् सुप्रतिपाद्यतया पुद्गलद्रव्यस्यैव गुणपर्याया उदाहता न शेषाणामित्यलं विस्तरेण, तस्माद् यत्किमपि नाम तेन सर्वेणापि द्रव्यनाम्ना गुणनाम्ना पर्यायनाम्ना वा भवितव्यं, नातः परं किमपि नामास्ति, ततः सर्वस्यैवानेन संग्रहात् त्रिनामैतदुच्यत इति । मू. (१५२ )
तं पुन नामं तिविहं इत्थी पुरिसं नपुंसगं चेव । एएसिं तिण्हपि अ अंतंमि अ परूवणं वोच्छं ॥
वृ. तत्पुनर्नाम द्रव्यादीनां सम्बन्धि सामान्येन सर्वमपि स्त्रीपुनपुंसकलिङ्गेषु वर्तमानत्वात्, त्रिविधं - त्रिप्रकारं, तत्र स्त्रीलिङ्गे नदी महीत्यादि, पुंल्लिङ्गे घटः पटः इत्यादि, नपुंसके दधि मध्वित्यादि, एषां च स्त्रीलिङ्गवृत्त्यादीना त्रयाणामपि नाम्नां प्राकृतशैल्या उच्चार्यमाणानामन्ते यान्याकारादीन्यक्षराणि भवन्ति तत्प्ररूपणाद्वारेण लक्षणं निर्दिदिक्षुरुत्तरार्द्धमाह - 'एएसि' मित्यादि, गतार्थमेवेति गाथार्थः ।
मू. (१५३ )
तत्थ पुरिसस्स अंता आइऊओ हवंति चत्तारि । ते चेव इत्थिआओ हवंति ओकारपरिहीणा ||
वृ. 'तत्र' तस्मिन् त्रिविधे नाम्नि 'पुरुषस्य' पुंल्लिङ्गवृत्तेर्नाम्नाः 'अन्ता' अन्तवर्तीन्यक्षराणि चत्वारि भवन्ति, तद्यथा-आकार ईकार ऊकार ओकारश्चेत्यर्थः, एतानि विहाय नापरं प्राकृतपुंलिङ्गवृत्तेर्नाम्नोऽन्तेऽक्षरं सम्भवतीत्यर्थः, स्त्रीलिङ्गवृत्तेर्नाम्नोऽप्यन्ते ओकारवर्णान्येतान्येवाकारेकारोकारलक्षणानि त्रीणि अक्षराणि भवन्ति नापरमिति, अत्र चानन्तरगाथायां इत्थी पुरिसमिति निर्दिश्यापि यदिहादौ पुंल्लिङ्गनाम्नो लक्षणकथनं तत्पुरुषप्राधान्यख्यापनार्थमिति गाथार्थः ॥ मू. ( १५४ ) अंतिअ इंतिअ उतिअ अंताउ नपुंसगस्स बोद्धव्या । एतेसिं तिण्हपि अ वोच्छामि निदंसणे एत्तो ॥
मू. (१५५)
वृ. नपुंसकवृत्तिनाम्नां त्वन्ते अंकारः इंकार उंकारश्चेत्येतान्येव त्रीण्यक्षराणि भवन्ति नापरं । एतेषां च त्रयाणामपि निदर्शनम् - उदाहरणं प्रत्येकं वक्ष्यामीति गाथार्थः ॥ तदेवाहआगारंतो राया ईगारंतो गिरि अ सिहरी अ । ऊगारंतो विण्हू दुमो अ अंता उ पुरिसाणं ॥ आगारंता माला ईगारंता सिरी अ लच्छी अ । ऊगारंता जंबू वहू अ अंताउ इत्थीणं ॥ अंकारंतं धनं इंकारतं नपुंसगं अत्थि । डंकारंतो पीलुं महुं च अंता नपुंसाणं ॥
मू. ( १५६ )
मू. (१५७ )
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org