________________
३४२
अनुयोगद्वार-चूलिकासूत्रं क्लेदन: पाचनो रुच्यो, मूढवातानुलोकः ।।" पित्तादिप्रशमनः खण्डशर्कराद्याश्रितो मधुरः, तथा चोक्तम् - • "पित्तं वातं विषं हन्ति, धातुवृद्धिकरो गुरुः।
- जीवनः केशकृद्वालवृद्धक्षीणौजसां हितः ।।" इत्यादि, स्थानान्तरे स्तम्भिताहारबन्धविध्वंसादिकर्ता सिन्धुलवणाद्याश्रितो लवणोऽपि रसः पठ्यते, स चेह नोदाहतो, मधुरादि संसर्गजत्वात् तदभेदेन विवक्षणात्, सम्भाव्यते च तत्र माधुर्यादिसंसर्गः, सर्वरसानां लवणप्रक्षेपअ एव स्वादुत्वप्रतिपत्तेरित्यलं विस्तरेण । स्पृश्यत इति स्पर्शः-कर्कशादिरष्टविधः, तत्र स्तब्धताकारणं दृषदादिगतः कर्कशः, सन्नतिकारणं तिनिशलतादिगतो मृदुः, अध:पनहेतुरयोगोलकादिगतो गुरुः, प्रायस्तिर्यगूर्वाधोगमनहेतुरकंतूलादिनिश्रितो लघुः, देहस्तम्भादिहेतुः प्रालेयाद्याश्रितः शीतः, आहारपाकादिकारणं वहन्याद्यनुगत उष्णः, पुद्गलद्रव्याणां मिथः संयुज्यमानानां बन्धनिबन्धनं तैलादिस्थितः स्निग्धः, तेषा मेवाबन्धनिबन्धनं भस्माद्याधारो रूक्षः, एतत्संसर्गजास्तु नोक्ताः एष्वेवान्तर्भावादिति । संस्थानस्वरूपं तु प्रतीतमेव।
मू.(१५१) से किंतं पज्जवनामे?, २ अनेगविहे पन्नत्ते, तंजहा-एगगुणकालए दुगुणकालए तिगुणकालए जावदसगुणकालए संखिज्जगुणकालए असंखिज्जगुणकालए अनंतगुणकालए, एवं नीललोहिअहालिहसुकिल्लावि भाणिअव्वा। एगगुणसुरभिगंधे दुगुणसुरभिगंधे तिगुणसुरभिगंधे जाव अनंतगुणसुरभिगंधे एवं दुरभिगंधोऽवि भाणिअव्वो। एगगुणतित्ते जाव अनंतगुणतित्ते, एवं कडुअकसागअंबिलमहुरावि भाणिअव्वा । एगगुणक्खडे जाव अनंतगुणक्खडे, एवं नउअगरुअलहुअसीतउसिणणिद्धलुक्खावि भा०, से तं पज्जवनामे।
वृ. परिः-समतादवन्ति अपगच्छन्ति न तु द्रव्यवत् सर्वदैवावतिष्ठन्त इति पर्यवाः, अथवा परिः-समन्ताद् अवनानि-गमनानि द्रव्यस्यावस्थान्तरप्राप्तिरूपाणि पर्यवा:-एकगुणकालत्वादयस्तेषां नाम पर्यवनाम, यत्र तु पर्यायनामेति पाठः, तत्र परिः-समन्तादयन्ते-अपगच्छन्ति नपुन व्यवत् सर्वदैव तिष्ठन्तीति पर्यायाः, अथवा परि:-सामस्त्येन एति-अभिगच्छति व्याप्नोति वस्तुतामिति पर्यायाः-एकगुणकालत्वादय एव, तेषां नाम पर्यायनामेति, तत्रेह गुणशब्दोऽशपर्याय: ततश्च सर्वस्यापि त्रैलोक्यगतकालत्वस्यासत्कल्पनया पिण्डितस्य य एकः-सर्वजघन्यो गुणः-अंशस्तेन कालकः परमाण्वादिरेकगुणकालक:-सर्वजघन्यकृष्ण इति।
द्वाभ्यां गुणाभ्यां -तदंशाभ्यां कालकः परमाण्वादिरेक द्विगुणकालकः, एवं तावत्रेयं यावदनन्तैर्गुणैः-तदंशैः कालकोऽनन्तगुणकालकः स एवेति एवमुक्तानुसारेणैकगुणनीलकादीनामेकगुणसुरभिगन्धादीनां च सर्वत्र भावना कार्येति, आह-गुणपर्याययोः कः प्रतिविशेषः?, उच्यते सदैव सहवर्तित्वाद्वर्णगन्धरसादयः सामान्येन गुणा उच्यते, न हि मूर्ते वस्तुनि वर्णादिकमात्रं कदाचिदपि व्यवच्छिद्यते, एकगुणकालत्वादयस्तु द्विगुणकालत्वाद्यवस्थायां निवर्तन्त एवेति अतः क्रमवृत्तित्वात् पर्यायाः, उक्तं च-"सहवर्तिनो गुणाः, यथा जीवस्य चैतन्यामूर्तत्वादयः, क्रमवर्तिनः पर्यायाः, यथा तस्यैव नारकत्वतिर्यक्त्वादयः" इति, ननु यद्येवं तहि वर्णादिसामान्यस्य भवतु गुणत्वं, तद्विशेषाणां तु कृष्णादीनां न स्याद्, अनियतत्वात् तेषां,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org