________________
३४१
मूलं-१५० . जीवद्रव्यमपि भेदतस्तथैवोदाहर्तुमाह-'अविसेसिए अजीवदव्वे'इत्यादि, गतार्थं, तदेवं यदस्ति वस्तु तत्सर्वं सामान्यनाम्ना विशेषनाम्ना वा अभिधीयते, एवमन्यत्रापि द्विनामत्वं भावनीयं, 'से तं दनामे 'त्ति निगमनम्।
मू.(१५१) से किं तिनामे?, २ तिविहेपन्नत्ते, तंजहा-दव्वनामे गुणनामे पज्जवनामे अ।
से किंतंदव्वनामे?, २ छविहे पन्नत्ते, तंजहा-धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए पुग्गलत्थिकाए अद्धासमए अ, से तंदव्वनामे।
किंतंगुणनामे?, २ पंचविहे पन्नत्ते, तंजहा-वननामे गंधनामे रसनामे फासनामे संठाननामे। से किंतंवण्णनामे?, २ पंचविहे पन्नत्ते, तंजहा-कालवण्णनामे नीलवण्णनामे लोहिअवण्णनामे हालिद्दवण्णनामे सुकिल्लवण्णनामे, से तं वणनामे । से किं तं गंधनामे?, २ दुविहे पत्रत्ते, तंजहा-सुरभिगंधनामे अ दुरभिगंधनामे अ, से तं गंधनामे । से किं रसनामे?, २ पंचविहे पन्नत्ते, तंजहा-तित्तरसनामे कडुअरसनामे कसायरसनामे अंबिलरसनामे महुररसनामे अ, से तं रसनामे । से किं तं फासनामे?, २ अट्ठविहे पन्नत्ते तंजहा-कक्खडफासनामे मउअफा० गरुअफा० लहुअफा० सीतफासनामे उसिणफासनामे निद्धफा० लुक्खफासनामे, सेतं फासनामे। से किंतं सठाणनामे?, २ पंचविहे पन्नत्ते, तंजहा-परिमंडलसंठाणनामे वट्टसं९ तंससं० चउरंससं० आयतसंठाणनामे, से तं संठगणनामे, से तं गुणनामे।। __ वृ. यत एवेदं त्रिनाम तत एव त्रिविधं-त्रिप्रकारं, द्रव्यनामादिभेदात्, तत्र द्रवति-गच्छति ताँस्तान् पर्यायान् प्राप्नोतीति द्रव्यं तस्य नाम धर्मास्तिकाय इत्यादि, धर्मास्तिकायादयश्च प्राक् व्याख्याता एव, गुण्यन्ते-संख्यायन्ते इति गुणास्तेषां नाम गुणनाम, ‘वण्णनामे' इत्यादि, तत्र वर्ण्यते-अलङ्क्रियते वस्त्वनेनेति वर्णः-कृष्णादिः पञ्चधा प्रतीत एव, कपिशादयस्त्वेततसंयोगेनैवोत्पद्यन्ते न पुनः सर्वथा एतद्विलक्षणया इति नेहोदाहृताः, गन्ध्यते-आघ्रायत इति गन्धस्तस्य नाम गन्धनाम, स च द्विविधः-सुरभिर्दुरभिश्च, तत्र सौमुख्यकृत् सुरभिः, वैमुख्यकृद् दुरभिः, अत्राप्युभयसंयोगजः पृथग्रोक्तः, एतत्संसर्गजत्वादेव भेदाविवक्षणात्, रस्यते-आस्वाद्यत इति रसस्तस्य नाम रसनाम, सच तिक्तकटुकषायाम्लमधुरभेदात् पञ्चविधः, तत्रश्लेष्मादिदोपहन्ता निम्बाद्याश्रितस्तिक्तो रसः, तथा च भिषक् शास्त्रम्
"श्लेष्माणमरुचि पित्तं, तृषं कुष्टं विषं ज्वरम्।
हन्यात् तिक्तो रसो बुद्धः, कर्ता मात्रोपसेवितः॥" गलामयादिप्रशमनो मरिचनागराद्याश्रितः कटुः उक्तं च
"कटुर्गलामयं शोफं, हन्ति युक्त्योपसेवितः ।
- दीपनः पाचको रुच्यो, बृंहणोऽतिकफापहः ।।" रक्तदोपाद्यहर्ता बिभीतकामलककपित्थाद्याश्रितः कषायः, आह च
"रक्तदोषं कर्फ पित्तं, कषायो हंति सेवितः।
रूक्षः शीतो गुणग्राही, रोचकश्च स्वरूपतः ।" अग्निदीपनादिकृदम्लीकाद्याश्रितोऽम्लः, पठ्यते च
"अम्लोऽग्निदीप्तिकृत् स्निग्धः, शोफपित्तकफापहः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org