________________
३४०
अनुयोगद्वार-चूलिकासूत्रं विसेसियपज्जत्तयअपज्जत्तभेआ भाणिअव्वा। .
अविसेसिए वेमाणिए विसेसिए कप्पोवगे अ कप्पातीतगे अ, अविसेसिए कप्पोवगे विसेसिए सोहम्महे ईसानए सणंकुमारए माहिदिए बंभलोए लंतयए महासुक्कए सहस्सारए आणयए पाणयए आरणए अच्चुयए, एतेसिंपी अविसेसिअविसेसिअअपज्जत्तगपज्जत्तगभेदा भाणिअव्वा। अविससिए कप्पातीतए विसेसिए गेवेज्जए अअनुत्तरोववाइए अ, अविसेसिए गेवेज्जए विसेसिए हेट्ठिम, मज्झिम, उवरि, अविसेसिए हेट्ठिम० विसेसिए हेट्ठिमहेट्ठिमगेवेज्जए हेडिममज्झिमगेवेज्जए, हिट्ठिमउवरिमगेवेज्जए, अविसेसिए मज्झिमगेवेज्जए विसेसिए हिटिममज्झिमगेविज्जए मज्झिममज्झिमगेवेज्जए मज्झिमउवरिमगेवेज्जए, अविसेसिए उवरिमगेवेज्जए विसेसिए उवरिमहडिमगेवेज्जए उवरिममज्झिमगेवेज्जए उवरिमउवरिमगेवेज्जए अ, एतेसिपि सव्वेसिं अविसेसिअविसेसिअपज्जत्तगापज्जत्तगभेदा भाणिअव्वा। अविसेसिए अनुत्तरोववाइए विसेसिए विजयए वेजयंतए जयंतए अपराजिअए सव्वद्विसिद्धए अ, एतेसिपि सव्वेसिं अविसेसिअविसेसिअपज्जत्तगापज्जत्तगभेदा भाणिअव्वा। __ अविसेसिए अजीवदव्वे विसेसिए धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए पोग्गलथिकाए अद्धासमए अ, अविसेसिए पोग्गलत्थिकाए विसेसिए परमाणुपोग्गले दुपएसिए तिपएसिए जाव अनंतपसिए अ, से तंदुनामे __ वृ. यत एवेदं द्विनाममत एव द्विविधं-द्विप्रकारं, तद्यथा-एकं च तदक्षरं च २ तेन निर्वृत्तमेकाक्षरिकम्, अनेकानि च तान्यक्षराणि च २ तैर्निर्वृत्तमनेकाक्षरिकं चकारौ समुच्चयार्थी, तत्रैकाक्षरिके हीः-लञ्जा देवताविशेषो वा, श्री:-देवताविशेषः, धी:-बुद्धिः, स्त्री-योषिदिति, अनेकाक्षरिके-कन्येत्वादि, उपलक्षणं चेदं बलाकापताकादीनां त्र्याद्यक्षरनिष्पन्ननाम्नामिति, तदेवं यदस्ति वस्तु तत् सर्वमेकाक्षरेण वा नाम्नाऽभिधीयतेऽमेकाक्षरेण वा, अतोऽनेन नामद्वयेन विवक्षितस्य सर्वस्यापि वस्तुजातस्याभिधानाद् द्विनामोच्यते, द्विरूपं सत् सर्वस्य नाम द्विनाम, द्वयोर्वा नाम्नोः समाहारो द्विनाममिति। एतदेव प्रकारान्तरेण- अहवादुनामे' इत्यादि, जीवस्य नाम जीवनाम अजीवस्य नाम अजीवनाम, अत्रापि यदस्ति तेन जीवनाम्नाऽजीवनाम्ना वा भवितव्यमिति जीवाजीवनामभ्यां विवक्षितसर्ववस्तुसंग्रहो भावनीयः, शेषं सुगमं।
पुनरेतदेवान्यथा प्राह-'अहवादनामे'इत्यादि, द्रव्यमित्यविशेषनाम जीवे अजीवे च सर्वत्र सद्भावात्, जीवद्रव्यमजीवद्रव्यमिति च विशेषनाम, एकस्य जीव एवान्यस्य त्वजीव एव सद्भावादितिः, ततः पुनरुत्तरापेक्षाया जीवद्रव्यमित्यविशेषनाम, नारकस्तिर्यङित्यादि तु विशेषनाम, पुनरप्युत्तरापेक्षया नारकादिकमविशेषनाम रत्नप्रभायां भवो रात्रप्रभ इत्यादि तु विशेषनाम, एवं पूर्वं पूर्वमविशेषनाम उत्तरोत्तरं तु विशेषनाम सर्वत्र भावनीयं, शेषं सुगम, नवरंसम्मूर्च्छन्ति तथाविधकर्मोदयाद् गर्भमन्तरेणैवोत्पद्यन्त इति सम्मूच्छिमाः, गर्भे व्युत्क्रान्तिः-उत्पत्तिर्येषां गर्भव्युत्क्रान्तिकाः, उरसा भुजाभ्यां च परिसर्पन्ति-गच्छन्तीति विषधरगोधानकुलादयः सामान्येन परिसर्पाः, विशेषस्तूरसा परिसर्पन्तीत्युर:-परिसर्पाः सदिय एव, भुजाभ्यां परिसर्पन्तीति भुजपरिसर्पाः-गोधानकुलादय एव, शेषं सुखोनेयं ।
तदेवमुक्ताः सामान्यविशेषनामभ्यां जीवद्रव्यस्य सम्भविनो भेदाः, साम्प्रतं प्रागुद्दिष्टम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org