________________
मूलं - १६१
३४५
"
वृ. अत्रौदयिकादयः षड् भावाः प्ररूप्यन्ते, तथा च सूत्रम् -'उदइए' इत्यादि, अत्राह - ननु नाम्नि प्रक्रान्ते तदभिधेयाना मर्थानां भावलक्षणानां प्ररूपणमयक्तमिति, नैतदेवं, नामनामवतोरभेदोपचारात् तत्प्ररूपणस्याप्यदुष्टत्वाद्, एवमन्यत्रापि यथासम्भवं वाच्यं तत्र ज्ञानावरणादीनामष्टानां प्रकृतीनामात्मीयात्मीयस्वरूपेण विपाकतोऽनुभवनमुदयः स एवौदयिकः, अथवा यथोक्तन वोदयेन निष्पन्न औदयिको भाव इति सामर्थ्याद् गम्यते, उपशमनमुपशमः -कर्मणोऽनुदयाक्षीणावस्था भस्मपटलावच्छ्न्नाग्निवत् स एव औपशमिक:, तेन वा निर्वृत्त औपशमिकः, क्षय:- कर्मणोऽपगमः स एव तेन वा निर्वृत्तः क्षायिकः कर्मणो यथोक्तो क्षयोपशमावेव ताभ्यां वा निर्वृत्तः क्षायोपशमिकः दरविध्य्तभस्मच्छन्नावह्निवत्, परिणमनं तेन तेन रूपेण वस्तूनां भवनं परिणामः स एव तेन वा निर्वृत्तः पारिणामिक अनन्तरोक्तानां द्वयादिभावानां मेलकः सन्निपातः स एव तेन वा निर्वृत्तः सान्निपातिकः ।
तत्रामीषां प्रत्येकं स्वरूपनिरूपणार्थमर्थमाह
मू. (१६१ वर्तते ) से किं तं उदइए ?, २ दुविहे पन्नत्ते, तंजहा- उदइए अ उदयनिप्फन्ने अ । से किं तं उदइए ?, २ अट्ठण्हं कम्मपयडीणं उदएणं, से तं उदइए। से किं तं उदयनिप्फन्ने ?, २ दुविहे पन्नत्तं, तंजहा- जीवोदयनिप्फने अ अजीवोदयनिप्फने अ ।
से किं तं जीवोदयनिप्पन्ने ?, २ अनेगवीहे पन्नत्ते तंजहा- नेरइए तिरिक्खजोणिए मनुस्से देवे पुढविकाइए जाव तसकाइए कोहकसाई जाव लोहकंसाई इत्थीवेदए पुरिसवेयए नपुंसगवेद कण्हलेसे जाव सुक्कलेसे मिच्छादिट्ठी ३ अविरए असण्णी अन्नाणी आराहरए छउमत्थे सजोगी संसारत्थे असिद्धे, से तं जीवोदयनिप्फन्ने ? से किं तं अजीवोदयनिप्फन्ने ?, २ अगवीहे पन्नत्ते तंजहा- उरालिअं वा सरीरं उरालिअसरीरपओगपरिणामिअं वा दव्वं, वेउव्विअं वा सरीर वेडव्वियसरीरपओगपरिणामिअं वा दव्वं, एवं आहारगं, सरीरं ते अगं सरीरं कम्मगसरीरं च भाणिअव्वं, पओगपरिणामिए वन्ने गंधे रसे फासे से तं अजीवोदयनिप्फन्ने । से तं उदयनिप्फन्ने, से तं उदइए ।
वृ. औदयिको भावो द्विविधः - अष्टानां कर्मप्रकृतीनामुदयस्तन्निष्पन्नश्च, अयं चार्थः प्रकारद्वयेन व्युत्पत्तिकरणादादावेव दर्शितः, उदयनिष्पन्नः, पुनरपि द्विविधो- जीवे उदयनिष्पन्नो. जीवोदयनिष्पन्नः अजीवे उदयनिष्पन्नोऽजीवोदयनिष्पन्नो, जीवोदयनिष्पन्नस्योदाहरणानि‘नेरइए’इत्यादिः, इदमुक्तं भवति-कर्मणामुदयेनैव सर्वेऽप्येते पर्याया जीवे निष्पन्नाः, तद्यथानारकस्तिर्यमनुष्य इत्यादि, अत्राह - ननु यद्येवमपरेऽपि निद्रापञ्चकवेदनीयहास्यादयो बहवः कर्मोदयजन्या जीवे पर्यायाः सन्ति, किमिति नारकत्वादयः कियन्तोऽप्युपन्यस्ताः ?, सत्यम्, उपलक्षणत्वादमीषामन्येऽपि सम्भविनो दृष्टव्याः, अपरस्त्वाह- ननु कर्मोदयजनितानां नारकात्वादीनां भवत्विहोपन्यासो लेश्यास्तु कस्यचित् कर्मण उदये भवन्तीत्येतन्न प्रसिद्धं तत्किमितिह तदुपन्यास: ?, सत्यं, किन्तु योगपरिणामो लेश्याः, योगस्तु त्रिविधोऽपि कर्मोदयजन्य एव, ततो लेश्यानामपि तदुभयजन्यत्वं न विहन्यते, अन्ये तु मन्यन्ते-कर्माष्टकोदयात् संसारस्थत्वासिद्धत्ववल्लेश्यावत्त्वमपि भावनीयमित्यलं विस्तरेण, तदर्थिना तु गन्धहस्तिवृत्तिरनुसर्तव्येति, 'से तं जीवोदयनिप्पन्नो 'त्ति निगमनम् ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org