________________
मूलं - १२०
तिर्यग्लोके क्षेत्रानुपूर्व्यं 'जंबूद्दीवे' इत्यादिगाथा - मू. ( १२१ )
माह
वृ. द्वाभ्यां प्रकाराभ्यां स्थानदातृत्वाहाराद्युपष्टम्भहेतुत्वलक्षणाभ्यां प्राणिनः पान्तीति द्वीपा :जन्त्वावासभूतक्षेत्रविशेषाः सह मुद्रया - मर्यादया वर्तन्त इति समुद्राः - प्रचुरजलोपलक्षिताः क्षेत्रविशेषा एव, एते च तिर्यग्लोके प्रत्येकसंख्येया भवन्ति, तत्र समस्तद्वीपसमुद्राभ्यन्तरभूतत्वेनादौ तावञ्जम्बूवृक्षेणोपलक्षितो द्वीपो जम्बूद्वीप:, ततस्तं परिक्षिप्य स्थितो लवणरसास्वादनीरपूरित: समुद्रो लवणसमुद्रः, एकदेशेन समुदायस्य गम्यमानत्वाद्, एवं पुरस्तादपि यथासम्भवं दृष्टव्यं, 'धायइ कालोय'त्ति, ततो लवणसमुद्रं परिक्षिप्य स्थितो धातकीवृक्षखण्डोपलक्षितो द्वीपो धातकीखण्डः, तत्परितोऽपि शुद्धोदकरसास्वादः कालोदः समुद्रः, तं च परिक्षिप्य स्थितः पुष्करैः - पद्मवरैरुपलक्षितो द्वीपः पुष्करवरद्वीपः, तत्परितोऽपि शुद्धोदकरसास्वाद एव पुष्करोदः समुद्रः, अनयोश्च द्वयोरप्येकेनैव पदेनात्र संग्रहो दृष्टव्यः ' पुक्खरे 'त्ति, एवमुत्तरत्रापि, ततो 'वरुणो'त्ति वरुणवरो द्वीपस्ततो वारुणीरसास्वादो वारुणोदाः समुद्रः, 'खीर'त्ति क्षीरवरो द्वीपः क्षीररसास्वादः क्षीरोदः समुद्रः, 'घय'त्ति घृतवरो द्वीपः घृतरसास्वादो धृतोदः समुद्रः, 'खोय'त्ति इक्षुवरो द्वीप: इक्षुरसास्वाद एवेक्षुरसः सुमद्रः, इत ऊर्ध्वं सर्वेऽपि समुद्राः द्वीपसदृशनामानो मन्तव्याः, अपरं च स्वयम्भूरमणवर्जाः सर्वेऽपीक्षुरसास्वादाः तत्रं द्वीपनामान्यमूनि, तद्यथा नन्दी - समृद्धिस्तया ईश्वरो द्वीपो नन्दीश्वरः, एवमरुणवर: अरुणावासः कुण्डलवरः शङ्खवरः रुचकवर इत्येवं पड् द्वीपनामानि चूर्णौ लिखितानि दृश्यन्ते सूत्रे तु 'नन्दी अरुणवरे कुण्डले रुयगे' इत्येतस्मिन् गाथादले चत्वार्येव तान्युपलभ्यन्ते, अतः चूर्णिलिखितानुसारेण रुचकवस्त्रयोदशः, सूत्रलिखितानुसारतस्तु स एवैकादशो भवति, तत्त्वं तु केवलिनो विदन्तीति गाथार्थः । इदानीमनन्तरोक्तद्वीपसमुद्राणामवस्थितिस्वरूपप्रतिपादनार्थं शेषाणां तं नामाभिधानार्थ
जंबूद्दीवे लवणे धायइ कालोअ पुक्खरे वरुणे । खीर घय खोअ नंदी अरुणवरे कुंडले रुअगे ।।
मू. (१२२ )
३२५
जंबुद्दीवाओ खलु निरंतरा संसया असंखइमा,
भुयगवर कुसवरा वि य कौंचवराभरणमाईया ॥
वृ. "जंबूद्दीवाओ खलु" इति, व्याख्या - एते पूर्वोक्ताः सर्वेऽपि जम्बूद्वीपादारभ्य 'निरन्तरा' नैरन्तर्येण व्यवस्थिताः, न पुनरमीषामन्तरेऽपरो द्वीपः कश्चनापि समस्तीति भाव:, ये तु शेषका भुजगवरादय इत ऊर्ध्वं वक्ष्यन्ते ते प्रत्येकमसंख्याततमा द्रष्टव्याः, तथाहि - 'भुजगवरे' ति पूर्वोक्ताद् रुचकवराद् द्वीपादसंख्येयान् द्वीपसमुद्रान् गत्वा भुजगवरो नाम द्वीप: समस्ति, 'कुसवर'त्ति ततोऽप्यीसंख्येयाँस्तान् गत्वा कुशवरो नाम द्वीपः समस्ति, अपि चेति समुच्चये, 'कोंचवरे 'ति ततोऽप्यसंख्येयाँस्तानतिक्रम्य क्रौञ्चवरो नाम द्वीपः समस्ति,
मू. (१२३ ) आभरणवत्थगंधे उप्पलतिलए अ पुढविनिहिरयणे । वासहरदहनईओ विजया वक्खारकप्पिदा ॥
Jain Education International
वृ. ‘आभरणमाई य'त्ति एवमसंख्येयान् द्वीपसमुद्रानुल्लंध्याऽऽभरणादयश्च-आभरणादिनामसदृशनामानश्च द्वीपा वक्तव्याः, समुद्रास्तु तत्सदृशनामन एव भवन्तीत्युक्तमेवेति गाथार्थः ॥
For Private & Personal Use Only
www.jainelibrary.org