________________
३२६
I
अनुयोगद्वार - चूलिकासूत्रं इयं च गाथा कस्याञ्चिद्वाचनायां न दृश्यत एव, केवलं कापि वाचनाविशेषे दृश्यते, टीकाचूर्ण्योस्तु तद्वयाख्यानमुपलभ्यत इत्यस्माभिरपि व्याख्यातेति । तानेवाभरणादीनाह-'आभरणवत्थे'त्यादिगाथाद्वयम् (त्रयम्) । असंख्येयानाम् असंख्येयानां द्वीपानामन्ते आभरणवस्त्रगन्धोत्पलतिलकादिपर्यायसदृशनामक एकैकोऽपि द्वीपस्तावद्वक्तव्यो यावदन्ते स्वम्भूरमणो द्वीप :, शुद्धोदकरसः स्वयम्भूरमण एव समुद्र इति गाथाद्वय (त्रय) भावार्थः । कुरुमंदरआवासा कूडाअ नक्खत्तचंदसूरा य। देवे नागे जक्खे भूए अ सयंभुरमणे अ॥
मू. ( १२४ )
वृ. ननु यद्येवं तर्ह्यसंख्येयान् द्वीपानुतिक्रम्य ये वर्तन्ते तेषामेव द्वीपाना मेतानि नामान्याख्यातानि, ये त्वन्तरालेषु द्वीपास्ते किंनामका इति वक्तव्यं ?, सत्यं लोके पदार्थानां शङ्खध्वजकलशस्वस्तिकश्रीवत्सादीनि यावन्ति शुभनामानि तैः सर्वैरप्युलक्षितास्तेषु द्वीपाः प्राप्यन्त इति स्वयमेव दृष्टव्यं, यत उक्तम्-‘“दीवसमुद्दा णं भंते! केवइया नामधिजेहिं पन्नत्ता ?, गोयमा ! जावइया लोए सुभा नामा सुभा रूवा सुभा गंधा सुभा रसा सुभा फासा एवइया नं दीवसमुद्दा नामधिञ्जेहिं पन्नत्ता" इति, संख्या तु सर्वेषामसंख्येयस्वरूपा
“उद्धारसागराणं अड्ढाईञ्जाणा जत्तिया समया । दुगुणादु गुणपवित्थर दीवोदहि रञ्जु एवइया ॥" इति गाथाप्रतिपादिता दृष्टव्या ।
मू. (१२५) से तं पुव्वानुपुव्वी। से किं तं पच्छानुपुव्वी ?, २ सयंभूरमणे अ जाव जंबूद्दीवे, सेतं पच्छानुपुव्वी । से किं तं अनानुपुव्वी ?, २ एआए चेव एगाइआए एगुत्तरिआए असंखेज्जगच्छगयाए सेढीए अन्नमन्नब्भासो दुरुवूणो, से तं अनानुपुव्वी ।
वृ. तदेवमत्र क्रमोपन्यासे पूर्वानुपूर्वी व्यत्येयन पश्चानुपूर्वी, अनानुपूर्वी त्वमीषामसंख्येयानां पदानां परस्पराभ्यासे येऽसंख्येया भङ्गा भवन्ति भङ्गकद्वयोना तत्स्वरूपा दृष्टव्येति ॥
मू. ( १२५ वर्तते ) उड्डलोअखेत्तानुपुव्वी तिविहा पन्नत्ता, तंजहा- पुव्वानुपुव्वी पच्छानुपुव्वी अनानुपुवी। से किं तं पुव्वानुपुव्वी ?, २ सोहम्मे ईसाने सणकुमारे माहिंदे बंभलोए लंतए महासुक्के सहस्सारे आणए पाणए आरणे अच्चुए गेवेज्जविमाणे अनुत्तरविमाणे ईसिपब्भारा, सेतं पुव्वानुपुव्वी । से किं तं पच्छानुपुव्वी ?, २ ईसिपब्भारा जाव सोहम्मे, से तं पच्छानुपुव्वी । से किं तं अनानुपुव्वी ?, २ एआए चेव एगाइआए एगुत्तरिआए पन्नरसगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो, से तं अनानुपुव्वी ।
अहवा उवनिहिआ खेत्तानुपुव्वी तिविहा पन्नत्ता, तंजहा- पुव्वानुपुव्वी पच्छानुपुव्वी अनानुपुव्वी, से किं तं पुव्वानुपुव्वी ?, २ एगपएसोगाढे दुपएसोगाढे दसपएसोगाढे संखिज्जपएसोगाढे जाव असंखिज्जपएसोगाढे, से तं पुव्वानुपुव्वी। से किं तं पच्छानुपुव्वी ?, २ असंखिज्जपएसोगाढे संखिज्जपएसोगाढे जाव एगपएसोगाढे, से तं पच्छानुपुव्वी । से किं तं अनानुपुव्वी ?, २ एआए चेव एगाइआए एगुत्तरिआए असंखिज्जगच्छगयाए सेढीए अन्त्रमन्त्रब्भासो दुरूवूणो, से तं अनानुपुव्वी ।
से तं उवनिहिआ खेत्तानुपुव्वी । से तं खेत्तानुपुवी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org