SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ३२४ अनुयोगद्वार-चूलिकासूत्रं क्षेत्रानुभावात् प्रायो मध्यमपरिणामवन्त्येव द्रव्याणि संभवन्ति, अतस्तद्योगात्तिर्यंङ्-मध्यमो लोकस्तिर्यग्लोकः, अथवा स्वकीयोाधोभागात्तिर्यग्भाग एवातिविशालतयाऽत्र प्रधानम्, अतस्तेन व्यपदेशः कृतः, तिर्यग्भागप्रधानो लोकस्तिर्यग्लोकः, उक्तं च __ "मज्झनुभावं खेत्तं जं तं तिरयंति वयणपञ्जवओ। भण्णइ तिरियं विसालं अतो व तं तिरियलोगोत्ति ।" 'वयणपञ्जवओ'त्ति मध्यानुभाववचनस्य तिर्यग्ध्वनेः पर्यायतामाश्रित्येत्यर्थः । अत्र च जघन्यपरिणामवद्रव्ययोगतो जघन्यतया गुणस्थानकेषु मिथ्यादृष्टेरिवादावेवाधोलोकस्योपन्यासः, तदुपरि मध्यमद्रव्यवत्त्वात् मध्यमतया तिर्यग्लोकस्य, तदुपरिष्टादुत्कृष्टद्रव्यवत्त्वादूर्ध्वलोकस्योपन्यास इति पूर्वानुपूर्वीत्वसिद्धिः, पश्चानुपूर्वी तु व्यत्ययेन प्रतीतैव, अनानुपूर्त्या तु पदत्रयस्य षड्भङ्गा भवन्ति, तेच पूर्वं दशिता एव, शेषभावना त्विह प्राग्वदेवेति। अत्रच कचिद्वाचनान्तरे एकप्रदेशावगाढादीनां असंख्यातप्रदेशावगाढान्तानां प्रथमं पूर्वानुपूर्व्यादिभाव उक्तो दृश्यते, सोऽपि क्षेत्रानुपूळधिकारादिविरुद्ध एव, सुगमत्वाच्चोक्तानुसारेण भावनीय इति। साम्प्रतं वस्त्वन्तरविषयत्वेन पूर्वानुपूर्व्यादिभावं दिदर्शयिषुरधोलोकादीना च भेदपरिज्ञाने शिष्यव्युत्पत्तिं पश्यन्नाह मू.(१२०) अहोलोअखेत्तानुपुव्वी तिविहा पन्नत्ता, तंजहा-पुव्वानुपुव्वी पच्छानुपुव्वी अनानुपुब्बी। से किं तं पुव्वानुपुवी?, २ रयणप्पभा सक्करप्पभा वालुअप्पभा पंकप्पभा धूमप्पभा तमप्पभा तमतमप्पभा, से तं पुव्वानुपुव्वी। से कि तं पच्छानुपुवी?, २ तमतमा जाव रयणप्पभा, से तं पच्छानुपुव्वी । से किं तं अनानुपुव्वी ?, २ एआए चेव एगाइआए एगुत्तरिआए सत्तगच्छगयाए सेढीए अन्नमनब्भासो दूरूवूणो, सेतं अनानुपुवी। तिरिअलोअखेत्तानुपुव्वी तिविहा पन्नता, तंजहा-पुव्वानुपुव्वी पच्छानुपुव्वी अनानुपुची। से किं तं पुव्वानुपुव्वी? वृ.'अहोलोयखेत्तानुपुव्वी तिविहे'त्यादि, अधोलोकक्षेत्रविषया आनुपूर्वी, औपनिधिको प्रक्रमाल्लभ्यते, सा त्रिविध, प्रज्ञप्ता, तद्यथेत्यादि शेषं पूर्ववद्भावनीयं यावद्रत्नप्रभेत्यादि, इन्द्रनीलादिबहुविधरत्नसम्भावनरकवर्ज प्रायो रत्नानां प्रभाज्योत्स्ना यस्यां सा रत्नप्रभा, एवं शर्कराणाम्उपलखण्डानां प्रभा प्रकाशनं स्वरूपेणावस्थानं यस्यां सा शर्कराप्रभा, वालुकाया वालिकाया वा-परुषपांशूत्कररूपायाः प्रभा-स्वरूपावस्थितिर्यस्यां सा वालुकाप्रभा वालिकाप्रभा वेति, पङ्कस्यप्रभा यस्यां सा पङ्कप्रभा, प्रङ्काभद्रव्योपलक्षितेत्यर्थः, धूमस्यप्रभा यस्यां सा धूमप्रभा, धूमाभद्रव्योपलक्षितेत्यर्थः, तमसः प्रभा यस्यां सा तमःप्रभा कृष्णद्रव्योलक्षितेत्यर्थः, क्वचित्तमेति पाठः, तत्रापि तमोरूपद्रव्ययुक्तत्वात्तमा इति, महातमसः प्रभा यस्यां सा महातमःप्रभा अतिकृष्णद्रव्योपलक्षितेत्यर्थः, क्वचित्तमतमेति पाठः, तत्राप्यतिशयवत्तमस्तमस्तमस्तद्रूपद्रव्ययोगात्, तमस्तमा इति, अत्र प्रज्ञापकप्रत्यासन्नेति रत्नप्रभाया आदावुपन्यासः कृतः, ततः परं व्यवहितव्यवहिततरादित्वात् क्रमेण शर्कराप्रभादीनामिति पूर्वानुपूर्वीत्वं, व्यत्ययेन पशश्चानुपूर्वीत्वम्, अमीषां च सप्तानां पदानां परस्पराभ्यासे पञ्च सहस्त्राणि चत्वारिंशदधिकानि भङ्गानां भवन्ति, तानि चाद्यन्तभङ्गकद्वयरहितान्यनानुपूर्त्या दृष्टव्यानीति, शेषभावना पूर्ववदिति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy