________________
मूलं - ११०
३१३
६५४३२१, आगमत्, ७२०, अत्राऽऽद्यो भङ्गः पूर्वानुपूर्वी अन्त्यस्तु पश्चानुपूर्वीति तदपगमे शेषाण्यष्टादशोत्तराणि सप्त भङ्गकशतान्यनानुपूर्वीति मन्तव्यानि । अत्र च भङ्गकस्वरूपानयनार्थ
करणगाथा
"पुव्वानुपुव्वि हिट्ठा समयाभेएण कुरु जहाजेदूं । उवरिमतुल्लं पुरओ नसेञ्ज पुव्वकम्मो सेसे ॥"
इति, व्याख्या - इह विवक्षितपदानां क्रमेण स्थापना पूर्वानुपूर्वीत्युच्यते, तस्याः, 'हेट्ठ' त्ति अधस्ताद् द्वितीयादिभङ्ककान्, जिज्ञासुः 'कुरु'त्ति स्थापय एकादीनि पदानीति शेषः, कथमित्याह - ज्येष्ठस्यानतिक्रमेण यथाज्येष्ठं, यो यस्मादौ स तस्य ज्येष्ठो, यथा द्विकस्यैयको ज्येष्ठः, त्रिकस्य त्वेककोऽनुज्येष्ठः, चतुष्कादीनां तु स एव ज्येष्ठानुज्येष्ठ इति, एवं त्रिकस्य द्विको ज्येष्ठः, स एव चतुष्कस्यानुज्येष्ठः, पञ्चकादीनां तु स एव ज्येष्ठानुज्येष्ठ इत्यादि, एव च सति उपरितनाङ्कस्य अधस्ताज्ज्येष्ठो निक्षिप्यते, तत्रालभ्यमाने अनुज्येष्ठः, तत्राप्यलभ्यमाने ज्येष्ठानुज्येष्ठ इति यथाज्येष्ठं निक्षेपं कुर्यात्, कथमित्याह-'समयाभेदेने 'ति समय:-सङ्केतः प्रस्तुतभङ्गकरचनव्यवस्था
अभेदः - अनतिक्रमः, तस्य च भेदस्तदा भवति यदा तस्मिन्नेव भङ्गके निक्षिप्ताङ्कसदृशोऽपरोऽङ्कः पतति, ततो यथोक्तं समयभेदं वर्जयत्रेव ज्येष्ठाद्यङ्कनिक्षेपं कुर्याद्, उक्तं च“जहियंमि उ निक्खित्ते पुनरवि सो चेव होइ कायव्वो ।
सो होइ समयभेओ वञ्जेयव्वो पयत्तेणं ॥"
निक्षिप्तस्य चाङ्कस्य यथासम्भवं 'पुरओ'त्ति अग्रत: उपरितनाङ्गैस्तुल्यं -सदृशं यथा भवेत्येवं न्यसेत्, उपरितनाङ्कसदृशानेवाङ्कात्रिक्षेपेदित्यर्थः, 'पुव्वक्कमो सेसे 'त्ति स्थापितशेषानङ्कानिक्षिप्ताङ्कस्य यथासम्भवं पृष्ठतः पूर्वक्रमेण स्थापयेदित्यर्थः, यः संख्यया लघुरेककादिः स प्रथमं स्थाप्यते वस्तुतया महान् द्विकादिः स पश्चादिति पूर्वक्रमः, पूर्वानुपूर्वीलक्षणे प्रथमभङ्गके इत्थमेव दृष्टत्वादिति भाव इत्यक्षरघटना ।
भावार्थस्तु दिग्मात्रदर्शनार्थ सुखाधिगमाय च त्रीणि पदान्याश्रित्व तावद् दर्श्यते-तेषां च परस्पराभ्यासे षड् भङ्गका भवन्ति, ते चैवमानीयन्ते - पूर्वानुपूर्वीलक्षणस्तावत् प्रथमो भङ्गः, तद्यथा - १२३, अस्याश्च पूर्वानुपूर्व्या अधस्ताद्, भङ्गकरचने क्रियमाणे एककस्य तावज्ज्येष्ठ एव नास्ति, द्विकस्य तु विद्यते एक:, स तदधो निक्षिप्यते, तस्य चाग्रतस्त्रिको दीयते, 'उवरिमतुल्ल' मित्यादिवचनात्, पृष्ठतस्तु स्थापितशेषो द्विको दीयते, ततोऽयं द्वितीयो भङ्गः २१३, अत्र च द्विकस्य विद्यते एकको ज्येष्ठः परं नासौ तदधस्तान्निक्षिप्यते, अग्रतः सदृशाङ्कपातेन समयभेदप्रसङ्गात्, एकस्य तु ज्येष्ठ एव नास्ति, त्रिकस्य तु विद्यते द्विको ज्येष्ठः, स तदधस्तान्निक्षिप्यते, अत्र चाग्रभागस्य तावदसम्भव एव, पृष्ठतस्तु स्थापितशेषावेककत्रिकौ क्रमेण स्थाप्येते 'पुव्व'क्कमो सेसे' त्तिवचनात्, ततस्तृतीयोऽयं भङ्गः १३२, अत्राप्येककस्य ज्येष्ठ एव नास्ति, त्रिकस्य ज्येष्ठो द्विको, न च निक्षिप्यते, अग्रे सदृशाङ्कपातेन समयभेदापत्तेः, ततोऽस्यैवानुज्येष्ठ एककः स्थाप्यते, अग्रतस्तु द्विकः 'उवरिमतुल्ल'मित्यादिवचनात् पृष्ठतस्तु स्थापितशेषस्त्रिको दीयते इति चतुर्थोऽयं भङ्गः ३१२, एवमनया दिशा पञ्चमषष्ठावप्यभ्यूह्यौ, सर्वेषां चाभीषामियं स्थापनाअत्राप्याद्यभङ्गस्य पूर्वानुपूर्वीत्वादत्यस्य च पश्चानुपूर्वीत्वान्मध्यमा एव चत्वारोऽ२१३१२३
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org