________________
३१२
अनुयोगद्वार-चूलिकासूत्रं न चानयसाध्यं कार्यमन्यः साधयति, अतिप्रसङ्गादिति।
घटादिज्ञानगुणस्य प्रतिप्राणि स्वसंवेदनसिद्धत्वाञ्जीवयस्यास्तित्वमवसातव्यं, न च गुणिनमन्तरेण गुणसत्ता युक्ता, अतिप्रसङ्गात्, न च देह एवास्य गुणी युज्यते, यतो ज्ञानममूर्तं चिद्रूपं सदैवेन्द्रियगोचरातीत्वादिधर्मोपेतम्, अतः तस्यानुरूप एव कश्चिद्गुणी समन्वेषणीयः, स च जीव एव न तु देहो, विपरीतत्वाद्, यदि पुनरननुरूपोऽपि गुणानां गुणी कल्प्यते तर्खनवस्था, रूपादिगुणानामप्याकाशादेर्गुणित्वकल्पनाप्रसङ्गादिति। पुद्गलास्तिकायस्य तु घटादिकार्यान्यथानुपपत्तेः, प्रत्यक्षत्वाच्च सत्त्वं प्रतीतमेवेति, कालोऽप्यस्ति बहुलाशोकचम्पकादिषु पुष्पफल-प्रदानस्यानियमेनादर्शनाद्, यस्तु तत्र नियामकः स काल इति, स्वभावादेव तु तद्भावने, नित्यं सत्त्वमसत्वं वे'त्यादिदूषणप्रसङ्गः, अत्र बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थदुरवगमताभयादिति।
आह-धर्मास्तिकायस्य प्राथम्यमधर्मास्तिकायस्यादिनां तु तदनन्तरं क्रमेणेत्थं निर्देश: कुतः सिद्धो? येनात्र पूर्वानुपूर्वीरूपता स्यादिति, अत्रोच्यते, आगमे इत्थमेव पठितत्वात, तत्रापि कथमित्थमेव पाठइति चेद्, उच्यते, धर्मास्तिकायस्य इत्यत्र यदाद्यं धर्मेतिपदं तस्य माङ्गलिकत्वाद्धर्मास्तिकायस्य प्रथममुपन्यासः, ततस्तत्प्रतिपक्षत्वादधर्मास्तिकायस्य, ततस्तदाधारात्वादाकाशास्तिकायस्य, ततः स्वाभाविकामूर्तत्वसाम्याञ्जीवास्तिकायस्य, ततस्तदुपयोगित्वात् पुद्गलास्तिकायस्य, ततो जीवाजीवापर्यायत्वात् तदनन्तरमद्धासमयस्योपन्यास इति पूर्वानुपूर्वीसिद्धिरिति। __ अथपश्चानुपूर्वी निरूपयितुमाह-'से किं तं पच्छानुपुव्वी'त्यादि, पाश्चात्यादारभ्य प्रतिलोभं व्यत्ययेनैवानुपूर्वी -परिपाटिः क्रियते यस्यां सा पश्चानुपूर्वी , अत्रोदाहरणमुत्क्रमेण, इदमेवाऽऽह-'अद्धासमये'त्यादि, गतार्थमेव। अथानानुपूर्वी निरूपयितु-'से किं त' मित्यादि, अत्र निर्वचनम्-'अनानुपव्वी एयाए चेवे'त्यादि, न विद्यते आनुपूर्वी - यथोक्तपरिपाटिद्वयरूपा यस्यां सा अनानुपूर्वी, विवक्षितपदानामन्तरीक्तक्रमद्वयमुल्लङ्घय परस्परासदृशैः, सम्भवद्-ि भर्भङ्गकैर्यस्यां विरचना क्रियते साऽनानुपूर्वीत्यर्थः, का पुनरियमित्याह-'अन्नमन्नब्भासो'त्ति, अन्योऽन्यं-परस्परमभ्यासो-गुणनमन्योऽन्याभ्यासः, 'दूरूवणो'त्ति द्विरूपन्यून: आद्यन्तरूपरहितः अनानुपूर्वीति सण्टङ्कः, कस्यां विषये योऽसावभ्यास-इत्याह- श्रेण्यां' पङ्को, कस्यां पुनः श्रेण्यामित्याह-'एयाए चेवे'ति, अस्यामेव' अनन्तराधिकृतधर्मास्तिकायादिसम्बन्धिन्यां, कथंभूतायामित्याह-एक आदिर्यस्यां सा एकादिकी एकैक उत्तरः प्रवर्द्धमानो यस्यां सा एकोत्तरा तस्यां, पुनः कथंभूतायामित्याह-'छगच्छगयाए'त्ति षण्णां गच्छ:-समुदायः षड़गच्छस्तंगताप्राप्ता षड्गच्छता तस्यां, धर्मास्तिकायादिवस्तुषट्कविषयायामित्यर्थः, आदौ व्यवस्थापितैककायाः पर्यन्ते न्यस्तषट्काया धर्मास्तिकायादिवस्तुषट्कविषयायाः पङ्क्तेर्या परस्परगुणने भङ्गकसङ्ख्या भवति सा आद्यन्तभङ्गकद्वयरहिता अनानुपूर्वीति भावार्थः। __ तत्रोर्ध्वाधः किलैककादयः षट्पर्यन्ता अङ्काः स्थापिताः, तत्र चैककेन द्विके गुणिते जातौ द्वावेव, ताभ्यां त्रिको गुणितो जाता: षट्, तैरपि चतुष्कको गुणितो जाता चतुर्विंशतिः, पञ्चकस्य तु तद्गुणने जातं विंशं शतं, षट्कस्य तद्गुणने जातानि विंशत्यधिकानि सप्त शतानि, स्थापना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org