________________
मूलं-११० अहम्मत्थिकाए धम्मत्थिकाए, से तं पच्छानुपुब्बी।
से किंतं अनानुपुव्वी?, २ एयाए चेवएगाइआए एगुत्तरिआए छगच्छगयाए सेढीए अन्नमनब्भासो दूरूवूणो, से तं अनानुपुव्वी।
वृ. इह च द्रव्यानुपूळधिकाराद् धर्मास्तिकायादीनामेव च द्रव्यत्वादित्थं निर्वचनमाह'धम्मत्थिकाए' इत्यादि, तत्र जीवपुद्गलानां स्वतः एव गतिक्रियापरिणतानां तत्स्वभावधारणाद् धर्मः अस्तयः-प्रदेशास्तेषां कायः-सङ्घातोऽस्तिकायः, धर्मश्चासावस्तिकायश्चेति समासः, सकललोकव्याप्यसंख्येयप्रदेशात्मकोऽमूर्तद्रव्यविशेष इत्यर्थः, जीवपुद्गलानामेव तथैव गतिपरिणतानां तत्स्वभावाधारणादधर्मः जीवपुद्गलानां स्थित्युपष्टम्भकारक इत्यर्थः, शेषं धर्मास्तिकायवत् सर्वं, सर्वभावावकाशनादाकाशम, आ-मर्यादया तत्संयोगेऽपि स्वकीयस्वरूपेऽवस्थानतः सर्वथा तत्स्वरूपत्वाप्राप्तिलक्षणया प्रकाशन्ते-स्वभावलाभेन अवस्थितिकरणेन च दीप्यन्ते पदार्थसार्था यत्र तदाकाशमिति, अथवा आ-अभिविधिना सर्वात्माना तत्संयोगानुभवनलक्षणेन काशन्ते-तत्रैव दीप्यन्ते पदार्था यत्र तदाकाशमिति भावः, तच्च तदस्तिकायेश्चेति आकाशास्तिकायः, लोकालोकव्याप्यनन्तप्रदेशात्मकोऽमूर्तद्रव्यविशेष इत्यर्थः, जीवन्ति जीविष्यन्ति जीवितवन्त इति जीवाः ते च तेऽस्तिकायाश्चेति समासः, प्रत्येकमसंख्येयप्रदेशात्मकसकललोकभाविनानजीवद्रव्यसमूह इत्यर्थः, पूरणगलनधर्माणः पुद्गला-परमाण्वादयोऽनन्ताणुकस्कन्धपर्यन्ताः, ते हि कुतश्चिद्रव्याद्गलन्ति-वियुज्यते किञ्चित्तु द्रव्यं तत्संयोगतः पूरयन्तीति भावः, ते च तेऽस्तिकायाश्चेति समासः, अद्धाशब्दः, कालवचन: समयः सङ्केतदिवाचकोऽप्यस्ति ततो विशिष्यते-अद्धारूप: समयोऽद्धासमयः, वक्ष्यमाणपट्टसाटिकादिपाटनदृष्टान्तसिद्धः सर्वसूक्ष्मः पूर्वपरकोटिविप्रमुक्तो वर्तमान एकः कालांश इत्यर्थः, अत एवात्र अस्तिकायत्वाभावः, बहुप्रदेशत्व एव तद्भावाद्, अत्र त्वतीतानागतयोविनष्टानुत्पन्नत्वेन वर्तमानस्यैकस्यैव कालप्रदेशस्य सद्भावत्, नन्वेवमावलिकादिकालाभावः, समयबहुत्व एव तदुपपत्तेरिति चेद्, भवतु तर्हि-को निवारियता ? 'समयावलियमुहुत्ता दिवसमहोरत्तपक्खमासा य' इत्याद्यागमविरोध इति चेत्, नैवम्, अभिप्रायापरिज्ञानाद्, व्यवहारनयमतेनैव तत्र तत्सत्त्वाभ्युपगमाद्, अत्र तु निश्चयनयमतेन तदसत्त्वप्रतिपादनात्, न हि पुद्गलस्कन्धे परमाणुसङ्घात इवावलिकादिषु समयसङ्घातः कश्चिदवस्थितः समस्तीति तदसत्त्वमसौ प्रतिपपद्य इत्यलं चर्चयेति। __ अत्र च जीवपुद्गलानां गत्यन्यथाऽनुपपत्तेधर्मास्तिकायस्य तेषामेव स्थित्यन्यथाऽनुपपत्तेरधर्मास्तिकायस्य सत्त्वं प्रतिपत्तव्यं, न च वक्तव्यं तदगतिस्थिति व भविष्यतो धर्माधर्मास्तिकायस्यौ च न भविष्यत इति प्रतिबन्धाभावादनेकान्तिकतेति, तावन्तरेणापि तद्भवनेऽलोकेऽपि तत्प्रसङ्गात्, यदि तु अलोकेऽपि तद्गतिस्थिति स्यातां तदाऽलोकस्यानन्तत्वाल्लोकान्निर्गत्य जीवपुदगलानां तत्र प्रवेशादेकद्वित्र्यादिजीवपुद्गलयुक्तः सर्वथा तच्छून्यो वा कदाचिल्लोक: स्यात्, न चैददृष्टमिष्टं वेत्याद्यन्यदपि दूषणजालमस्ति, न चोच्यते ग्रन्थविस्तरभयादिति । आकाशं तु जीवादिपदारथानामाधारान्यथाऽनुपपत्तेरस्तीति श्रद्धेयं, न च धर्माधर्मास्तिकायावेव तदाधारो भविष्यति इति वक्तव्यं, तयोस्तद्गतिस्थितिसाधकत्वेनोक्तत्वात्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org