________________
३०६
अनुयोगद्वार-चूलिकासूत्रं देश: प्रदेश स चासावर्थश्च प्रदेशार्थः तस्य भावः प्रदेशार्थता तया, परमाणुत्वेनेति भावः, द्रव्यार्थप्रदेशार्थतया तु यथोक्तोभयरूपतयेति भावः, तदयमर्थः-एतेषां भदन्त! आनुपूर्व्यादिद्रव्याणां मध्ये 'कयरे कयरेहितो'त्ति कतराणि-कान्याश्रित्य द्रव्यापेक्षया प्रदेशापेक्षया उभयापेक्षया वाऽल्पानि विशेषहीनत्वादिना बहूनि असंख्येयगुणत्वादिना तुल्यानि समसंख्यत्वेन विशेषाधिकानि किञ्चिदाधिक्येनेति, वाशब्दः, पक्षान्तरवृत्तिद्योतकाः, इति पृष्टे वाचः क्रमवर्तित्वाद् द्रव्यार्थतापेक्षया तावदुत्तरमुच्यते, तत्र-'सव्वत्थोवाइं नेगमववहाराणं अवत्तवगदव्वाई दंव्वट्ठयाए'त्ति नैगमव्यवहारयोः द्रव्यार्थतामपेक्ष्य तावदवक्तव्यकद्रव्याणि सर्वेभ्योऽन्येभ्यः स्तोकानि सर्वस्तोकानि, अनानुपूर्वीद्रव्याणि तु द्रव्यार्थतामेवापेक्ष्य विशेषाधिकानि, कथम्?, वस्तुस्थितिस्वभावाद्, उक्तं च
"एएसि णं भंते ! परमाणुपोग्गलाणं दुपएसियाणं खंधाणं कयरे कयरेहितो बहुया०?, गोयमा ! दुपएसिएहितो खंधेहितो परमाणुपोग्गला बहुग"त्ति, तेभ्योऽपि आनुपूर्वीद्रव्याणि द्रव्यार्थतयैवासंख्येयगुणानि, यतोऽनानुपूर्वीद्रव्येष्ववक्तव्यकद्रव्येषु च परमाणुलक्षणं व्यणुकस्कन्धलक्षणं चैकैकमेव स्थानं लभ्यते, आनुपुर्वीद्रव्येषु तु त्र्यणुकस्कन्धादीन्नेकोत्तर-- वृद्ध्याऽनन्ताणुकस्कन्धपर्यन्तान्यनन्तानि स्थानानि प्राप्यन्ते, अतः स्थानबहुत्वादानुपूर्वीद्रव्याणि पूर्वेभ्योऽसंख्यातगुणानि।। - ननु यदि तेषु स्थानान्यनन्तानि तर्खनन्तगुणानि पूर्वेभ्यस्तानि कस्मान्न भवन्तीति चेत्, 'नैवं, यतोऽनन्ताणुकस्कन्धाः केवलानानुपूर्वीद्रव्येभ्योऽप्यनन्तमागवर्तित्वात्, स्वभावादेव स्तोका इति न किञ्चितैरिह वर्द्धते, अतो वस्तुवृत्त्या किलासंख्यातान्येव तेषु स्थानानि प्राप्यन्ते, तदपेक्षया त्वसंख्यातगुणान्येव तानि, एतच्च पूर्व भागद्वारे लिखितप्रज्ञापनासूत्रात् सर्वं भावनीयमित्यलं विस्तरेण।
उक्तं द्रव्यार्थतया अल्पबहुत्वम्, इदानी प्रदेशार्थतया तदेवाऽऽह-'पएसट्टयाए सव्वत्थोवाई नेगमववहाराण'मित्यादि, नैगमव्यवहारयोः प्रदेशार्थतया अल्पबहुत्वे चिन्त्यमाने अनानुपूर्वीद्रव्याणि सर्वेभ्यः स्तोकानि, कृत इत्याह-'अपएसट्ठयाए'त्ति प्रदेशलक्षणस्यार्थस्य तेष्वभावादित्यर्थः, यदि हितेषु प्रदेशाः स्युस्तदा द्रव्यार्थतायामिव प्रदेशार्थतायामप्यवक्तव्यकापेक्षयाऽधिकत्वं स्यात्, न चैतदस्ति 'परमाणुरप्रदेश' इति वचनाद्, अतः सर्वस्तोकन्येतानि, ननु यदि प्रदेशार्थता तेषु नास्ति तर्हि तया विचारोऽपि तेषां न युक्त इति चेत्, नैतदेवं, प्रकृष्टःसर्वसूक्ष्मः पदगलास्तिकायस्य देशो निरंशो भागः प्रदेश इति व्युत्पत्तेः प्रतिपरमाणु प्रदेशार्थताऽभ्युपगम्यत एव, आत्मव्यतिरिक्तप्रदेशान्तरापेक्षया त्वप्रदेशार्थतेत्यदोषः, अवक्तव्यकद्रव्याणि प्रदेशार्थतयाऽनानुपूर्वीद्रव्येभ्यो विशषाधिकानि, यतः किलासत्कल्पनया अवक्तव्यकद्रव्याणां षष्टिः अनानुपूर्वीद्रव्याणां तु शतं, ततो द्रव्यार्थताविचारे एतानीतरापेक्षया विशेषाधिकान्युक्तानि, अत्र तु प्रदेशार्थताविचारेऽनानुपूर्वीद्रव्याणां निष्प्रदेशत्वात् तदेव शतमवस्थितम्, अवक्तकद्रव्याणां त्विह प्रत्येकं द्विप्रदेशत्वाद्, द्विगुणितानां विंशत्युत्तरंप्रदेशशतं जायत इति तेषामितरेभ्यः प्रदेशार्थतया विशेषाधिकत्वं भावनीयम्।
आनुपूर्वीद्रव्याणि प्रदेशार्थतया अवक्तकद्रव्येभ्योऽनन्तगुणानि भवन्ति, कथम् ?, यतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org