________________
मूलं - १००
द्रव्यार्थतयाऽपि तावदेतानि पूर्वेभ्याऽसंख्यातगुणान्युक्तानि, यदा तु संख्यातप्रदेशिकस्कन्धानामसंख्यातप्रदेशिकस्कन्धानामनन्ताणुक स्कन्धानां च सम्बन्धिनः सर्वेऽपि प्रदेशा विवक्ष्यन्ते तदा महानसौ राशिर्भवतीति प्रदेशार्थतयाऽमीषां पूर्वेभ्योऽनन्तगुणत्वं भावनीयम् ।
उक्तं प्रदेशार्थतयाऽल्पबहुत्वम्, इदानीमुभयार्थतामाश्रित्य तदाह- 'दव्वट्ठपएसट्टयाए' इत्यादि, इहो भयार्थताधिकारेऽपि यदेवाल्यं तदेवादौ दर्श्यते, अवक्तकद्रव्याणि च सर्वाल्पानि इति प्रथममेवोक्तम् ‘सव्वत्थोवाई नेगमववहाराणं अवत्तव्वगदव्वाई दव्वट्टयाए 'त्ति, अपरं चोभयार्थताधिकारेऽपि ‘अनानुपुव्वीदव्वाइं दव्वट्टयाए ' इत्यादि (दौ) यदुक्तम् 'अपएसट्टयाए 'त्ति तदात्मव्यतिरिक्तप्रदेशान्तराभावतोऽनानुपूर्वीद्रव्याणामप्रदेशिकत्यादिति मन्तव्यं, ततश्चेदमुक्तं भवति-द्रव्यार्थतया अप्रदेशार्थतया च विशिष्टान्यनानुपूर्वीद्रव्याण्यवक्तकद्रव्येभ्यो विशेषाधिकानि, शेषभावना तु प्रत्येकचिन्तावत् सर्वा कार्या ।
३०७
आह-यद्येवं प्रत्येकचिन्तायामेव प्रस्तुतोऽर्थः सिद्धः किमनयो भयार्थताचिन्तयेति चेत्, नैवं, यत आनुपूर्वीद्रव्येभ्यस्तत्प्रदेशाः कियताऽप्यधिका इति प्रत्येकचिन्तायां न निश्चितम्, अत्र तु 'ताइं चेव पएसट्टयाए अनंतगुणाई' इत्यनेन तन्निर्णीतमेव, ततोऽनवगतार्थप्रतिपादनार्थत्वात् प्रत्येकावस्थातो भिन्नैवोभयावस्था वस्तूनामिति दर्शनार्थत्वाच्च युक्तमेवोभयार्थताचिन्तनमित्यदोषः । तदेवमुक्तो नवविधोऽप्यनुगम इति निगमयति-'से तं अनुगमे 'त्ति, तद्भणने च समर्थिता नैगमव्यवहारयोरनौपनिधिकी द्रव्यानुपूर्वी इति निगमयति- 'से तं नेगमेत्यादि ।
व्याख्याता नैगमव्यवहारनयमतेन अनौपनिधिकी द्रव्यानुपूर्वी, साम्प्रतं संग्रहनयमतेन तामेव व्याचिख्यासुराह
मू. ( १०१ ) से किं तं संगहस्स अनोवनिहिआ दव्वानुपुव्वी ?, २ पंचविहा पन्नत्ता, तंजहाअट्ठपयपरूवणया १ भंगसमुक्कित्तणया २ भंगोवदंसणया ३ समोआरे४ अनुगमे ५ ।
वृ. सामान्यमात्रसंग्रहशीलः संग्रहो नयः, अथ तस्य संग्रहनयस्य किं तद्वस्त्वनौपनिधिकी द्रव्यानुपूर्वीति प्रश्नः, आह- ननु नैगमसंग्रहव्यवहारेत्यादिसूत्रक्रमप्रामाण्यन्नैगमान्नतरं संग्रहस्योपन्यासो मुक्तः, तत्किमिति व्यवहारमपि निर्दिश्य ततोऽयमुच्यत इति, सत्यं, किन्तु नैगमव्यवहारयोरत्र तुल्यमत्वाल्लाघवार्थ युगपत् तन्निर्देशं कृत्वा पश्चात् संग्रहो निर्दिष्ट इत्यदोषः । अत्र निर्वचनमाह-‘संगहस्स अनोवनिहिया दव्वानुपुव्वी पंचविहा' त्ति, संग्रहनयमतेनाप्यनौपनिधिकी द्रव्यानुपूर्वी - प्राग्निरूपितशब्दार्थ पञ्चभिरर्थपदप्ररूपणतादिभिः प्रकारैर्विचार्यमाणत्वात्, पञ्चविधा-पञ्चप्रकारा प्रज्ञता । तदेव दर्शयति- 'तंज' त्यादि, अत्र व्याख्या पूर्ववदेव ।
मू. (१०२ ) से किं संगहस्स अट्ठपयपरूवणया ?, २ तिपएसिए आनुपुव्वी चउप्पएसिए आनुपुव्वी जाव दसपएसिए आनुपुव्वी संखिज्जपएसिए आनुपुव्वी असंखिज्जपएसिए आनुपुव्वी अनंतपएसिए आनुपुव्वी परमाणुपोग्गले अनानुपुव्वी दुपएसिए अवत्तवए, से तं संगहस्स अट्ठपयपरूवणया ।
वृ. यावत् तिपएसिए आनुपुव्वी' इत्यादि, इह पूर्वमेकस्त्रिप्रदेशिक आनुपूर्वी अनेके
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org