SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ ३०५ मूलं-९८ . गुणा, असंखिञ्जपएसिया खंधा असंखिञ्जगुणा" तदत्र सूत्रे पुद्गलजाते: सर्वस्या अपि सकाशादसंख्यातप्रदेशिकाः स्कन्धा असंख्यातगुणा उक्ताः, ते चाऽऽनुपूर्व्यामन्तर्भवन्ति, अतस्तदपेक्षया आनुपूर्वीद्रव्याणि शेषात् समस्तादपि द्रव्यादसंख्यातगुणानि, किं पुनरनानुपूर्व्यवक्तव्यकद्रव्यमात्रात्, ततो यथोक्तमेव व्याख्यानं कर्तव्यमित्यलं विस्तरेण । . 'अनानुपुव्वीदव्वाइ'मित्यादि, इहानानुपूर्वीद्रव्याण्यवक्तव्यकद्रव्याणि च शेषद्रव्याणां यथाऽसंख्याततम एव भागे भवन्ति, न शेषभागषु, तथाऽनन्तरोक्तन्यायादेव भावनीयमिति । उक्तं भागद्वारं, साम्प्रतं भावद्वारमाह मू. (९९) नेगमववहाराणं आनुपुव्वीदव्वाइं कतरंमि होज्जा? किं उदइए भावे होज्जा उवसमिए भावे होज्जा खइए भावे होज्जाखओवसमिए भावे होज्जा पारिणामिए भावे होज्जा संनिवाइए भावे होज्जा?, नियमा साइपारिणामिए भावे होज्जा, अनानुपुव्वीदव्वाणि अवत्तव्वगदव्वाणि अएवं चेव भाणिअव्वाणि। _वृ. 'नेगमववहाराण'मित्यादि प्रश्नः, अत्र चौदयिकादिभावानां शब्दार्थो भावार्थश्च विस्तरेणोपरिष्टात् स्वस्थान एव वक्ष्यते, अत्र निर्वचनसूत्रे 'नियमा साइपारिणामिए भावेहोञ्ज'त्ति परिणमनं-द्रव्यस्य तेन तेन रूपेण वर्तनं-भवनं परिणामः, स एव पारिणामिकः, तत्र भवस्तेन वा निवृत्त इति वा पारिणामिकः, स च द्विविधः-सदिरनादिश्च, तत्र धर्मास्तिकायाद्यरूपिद्रव्याणामनादिः परिणामः, अनादिकालात्तद्र्व्यत्वेन तेषां परिणतत्वाद्, रूपिद्रव्याणां तु सादिः परिणामः, अभ्रेन्द्रधनुरादीनां तथापरिणतेरनादित्वाभावाद्, एवं च स्थिते 'नियमाद्' अवश्यंतयाऽऽनुपूर्वीद्रव्याणि सादिपारिणामिक एव भावे भवन्ति, आनुपूर्वीत्वपरिणतेरनादित्वासम्भवात्, विशिष्टैकपरिणामेन पुद्गलानामसंख्येयकालमेवावस्थानादिति भावः । अनानुपूर्व्यवक्तव्यकद्रव्येष्वपीत्थमेव भावना कार्या इति । उक्तं भावद्वारम्, इदानीमल्पबहुत्वद्वारं बिभणिषुराह मू. (१००) एएसिं णं भंते ! नेगमववहाराणं आनुपुव्वीदव्वाणं अनानुपुव्वीदव्वाणं अवत्तव्वगदव्वाण य दवट्ठयाए पएसट्ठयाए दव्वपएसट्टयाए कयरे कयरेहितो अप्पा वा बहुवा या तुल्ला वा विसेसाहिया वा?, गोयमा ! सव्वत्थोवाइ नेगमववहाराणं अव्वत्तगदव्वाइं दव्वट्ठयाए, अनानुपुवीदव्वाई दव्वट्ठयाए विसेसाहिआई, आनुपुवीदव्वाइं दव्वट्ठयाए असंखेज्जगुणाई, पएसट्टयाए नेगमववहाराणं सव्वत्थोवाइं अनानुपुव्वीदव्वाइं अपएसट्टयाए अवत्तव्वगदव्वाइंपएसट्टयाए विसेसाहिआई, आनुपुव्वीदव्वाइं पएसट्टयाए अनंतगुणाई, दव्वट्ठपएसट्टयाए सव्वत्थोवाइं नेगमववहाराणं अवत्तव्वगदव्वाइं दव्वट्ठयाए अनानुपुव्वीदव्वाइं दव्वट्ठयाए अपएसट्टयाए विसेसाहिआई, अवत्तव्वगदव्वाइं पएसट्टयाए विसेसाहिआई, आनुपुव्वीदव्वाइं दवट्ठयाए असंखेज्जगुणाई ताई चेव पएसट्टयाए अनंतगुणाई, से तं अनुगमे, से तं नेगमववहाराणं अनोवनिहिआ दव्वानुपव्वी, वृ. द्रव्यमेवार्थो द्रव्यार्थः, तस्य भावो द्रव्यार्थता तया, द्रव्यत्वेन इत्यर्थः, प्रकृष्टो-निरंशो 30/20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy