________________
३०२
अनुयोगद्वार - चूलिकासूत्रं 'भवन्ति' आनुपूर्वीत्वपयायेणावतिष्ठन्ते ?, अत्रोत्तरम् -'एगं दव्व'मित्यादि, इयमत्र भावनापरमाणुद्वयादेरपरैकादिपरमाणुमीलनेऽपूर्वं किञ्चिदानुपूर्वीद्रव्यं समुत्पन्न, ततः समयादूर्ध्वं पुनरप्येकाद्यणौ वियुक्तेऽपगतस्तद्भाव इत्येकमानुपूर्वीद्रव्यमधिकृत्य जघन्यतः समयोऽवस्थितिकालः, यदा तु तदेवासङ्ख्यानं कालं तद्भावेन स्थित्वाऽनन्तरोक्तस्वरूपेण वियुज्यते तदा उत्कृष्टतोसङ्ख्येयोऽवस्थितिकालः, प्राप्यते, अनन्तं कालं पुनर्नाधतिष्ठत्ते, उत्कृष्टाया अपि पुद्गलसंयोगस्थितेरसङ्घयेयकालत्वादिति ।
'नानाद्रव्याणि' बहूनि पुनरानुपूर्वीद्रव्याण्यधिकृत्य सर्वाद्धा स्थितिर्भवति, नास्ति स कश्चित् कालो यत्रानुपूर्वीद्रव्यविरहितोऽयं लोकः स्यादिति भावः अनानुपूर्वी अवक्तव्यकद्रव्येष्वपि जघन्यादिभेदभिन्न एतावानेवावस्थितिकालः, तथाहि कश्चित् परमाणुरेकं समयमेकाकीभूत्वा ततः परमाण्वादिना अन्येन सह संयुज्यते, इत्थमेकमनानुपूर्वी द्रव्यमधिकृत्य जघन्यतः समयोऽवस्थितिकालः यदा तु स एवाससङ्ख्यातं कालं तद्भावेन स्थित्वा अन्येन परमाण्वादिना सह संयुज्यते तदोत्कृष्टतोऽसङ्ख्येयोऽवस्थितिकालः संप्राप्यते, नानाद्रव्यपक्षस्तु पूर्ववदेव भावनीयः ।
अवक्तव्यकद्रव्यमपि परमाणुद्वयलक्षणं यदा समयमेकं संयुक्तं स्थित्वा ततो वियुज्यते तदव - स्थमेव वाऽन्येन परमाण्वादिना संयुज्यते तदा तस्यावक्तव्यकद्रव्यतया जघन्यतः समयोऽव - स्थानं लभ्यते, यदा तु तदेवासङ्ख्यातं कालं तद्भावेन स्थित्वा विघटते तदवस्थमेवो वाऽन्येन परमाण्वादिना संयुज्यते तदोत्कृष्टतः, अवक्तव्यकद्रव्यतथाऽसङ्ख्यातं कालमवस्थानं प्राप्यते, नानाद्रव्यपक्षस्तु तथैव भावनीय इति ।
उक्तं कालद्वारम्, अथान्तरद्वारं प्रतिपिपादयिषुराह
मू. ( ९७ ) नेगमववहाराणं आनुपुव्वीदव्वाणं अंतरं कालओ केवच्चिरं होइ ?, एगं दव्वं पडुच्च जहत्रेणं एवं समयं उक्को सेणं अनंतं कालं, नाणादव्वाइं पडुच्च नत्थि अंतरं ।
नेगमववहाराणं अनानुपुव्वीदव्वाणं अंतरं कालओ केवच्चिरं होइ ?, एगं दव्वं पडुच्च जहन्त्रेणं एवं समयं उक्को सेणं असंखेज्जं कालं, नानादव्वाइं पडुच्च नत्थि अंतरं ।
नेगमववहाराणं अवत्तव्वदव्वाणं अंतरं कालओ केवच्चिरं होइ ?, एगं दव्वं पडुच्च जहन्त्रेणं एगं समयं उक्को सेणं अनंतं कालं, नानादव्वाइं पडुच्च नत्थि अंतरं ।
वृ. नैगमव्यवहारयोरानुपूर्वीद्रव्याणामन्तरं कालतः कियच्चिरं भवतीति प्रश्नः, 'अन्तरं’ व्यवधानं, तच्च श्रेत्रतोऽपि भवति यथा भूतलसूर्ययोरष्टौ योजनशतान्यन्तरमित्यस्तद्व्यवच्छेदार्थमुक्तम्, 'कालतः ' कालमाश्रित्य तदयमत्रार्थः- आनुपूर्वीद्रव्याण्यानुपूर्वीस्वरूपतां परित्यज्य कियता कालेन तान्येव पुनस्तथा भवन्ति, आनुपूर्वीत्वपरित्यागपुनर्लाभयोरन्तरे कियान् कालो भवतीत्यर्थः ।
,
अत्र निर्वचनम् -'एगं दव्व' मित्यादि, इयमत्र भावना-इह विवक्षितं त्र्यणुकस्कन्धादिकं किमप्यानुपूर्वीद्रव्यं विश्रसापरिणामात् प्रयोगपरिणामाद्वा खण्डशो वियुज्य परित्यक्तानुपूर्वी भावं सञ्जातम्, एकस्माच्च समयादूर्ध्वं विश्रसादिपरिणामात् पुनस्तैरेव परमाणुभिस्तथैव तन्निष्पन्नमित्येवं जघन्यतः सर्वस्तोकतया एकं द्रव्यमाश्रित्वाऽऽनुपूर्वीत्वपरित्यागपुनर्लाभयोरन्तरे
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org