________________
मूलं-९७ समयः प्राप्यते, उत्कृष्टतः सर्वबहुतया पुनरन्तरमनन्तं कालं भवति, तथाहि-तदेव विवक्षितं 'किमप्यानुपूर्वीदव्यं तथैव भिन्न, भित्त्वा च ते परमाणवोऽन्येषु परमाणुव्यणुकत्र्यणुकादिषु
अनन्ताणुकस्कन्धपर्यन्तेषु अनन्तस्थानेषूत्कृष्टान्तराधिकारादसकृत् प्रतिस्थानमुत्कृष्टां स्थितिमनभवन्तः पर्यटन्ति, कृत्वा चेत्थं पर्यटनं कालस्यानन्तत्वाद विश्रसादिपरिणामतो यदा तैरेव परमाणुभिस्तदेव विवक्षितमानुपूर्वीद्रव्यं निष्पद्यते तदाऽनन्त उत्कृष्टान्तरकालः प्राप्यते, नानाद्रव्याण्यधिकृत्य पुनर्नास्त्यन्तरं, न हि स कश्चित् कालोऽस्ति यत्र सर्वाण्यप्यानुपूर्वीद्रव्याणि युगपदानुपूर्वीभावं परित्यजन्ति, अनन्तानन्तैरानुपूर्वीद्रव्यैः सर्वदैव लोकस्याशून्यत्वादिति भावः।
अनानुपूर्वीद्रव्यान्तरकालचिन्तायां 'एगं दव्वं पड़च्च जहन्नेणं एकं समयं'ति, इह यदा किञ्चिदनानुपूर्वीद्रव्यं परमाणुलक्षणमन्वेन परमाणुद्वयणुकत्र्यणुकादिना केनचिद् द्रव्येण सह संयुज्य समयादूर्ध्वं वियुज्य पुनरपि तथास्वरूपमेव भवति तदा समयलक्षणो जघन्यान्तरकाल: प्राप्यते, 'उक्कोसेणं असंखेज्ज कालं'ति तदेवानानुपूर्वीद्रव्यं यदा अन्येन परमाणुद्वयणुकत्र्यणुकादिना केनचिद् द्रव्येण सह संयुज्यते, तत्संयुक्तं चासङ्ख्येयं कालं स्थित्वा वियुज्य पुनस्तथास्वरूपमेव भवति तदाऽसङ्ख्यात उत्कृष्टान्तरकालो लभ्यते। ___अत्राह-ननु अनानुपूर्वीद्रव्यं यदा अनन्तानन्तपरमाणुप्रचितस्कन्धेन सहसंयुज्यते, तत्संयुक्तं चासङ्ख्येयं कालमवतिष्ठते,, ततोऽसौ स्कन्धो भिद्यते, भिन्ने च तस्मिन् यस्तस्माल्लधुस्कन्धो भवति तेनापि सह संयुक्तमसङ्ख्यातं कालमवतिष्ठते, पुनस्तस्मिन्नपि भिद्यमाने यस्तस्माल्लधुतर: स्कन्धो भवति तेनापि संयुक्तमसङ्ख्येयं कालमवतिष्ठते, पुनस्तस्मिन्नपि भिद्यमाने यस्तस्माल्लधुतमः स्कन्धो भवति तेनापि संयुक्तमसङ्ख्येयं कालमवतिष्ठते, इत्येवंतत्र भिद्यमाने क्रमेण कदाचिदानन्ता अपि स्कन्धाः संभाव्यन्ते, तत्र च प्रतिस्कन्धसंयुक्तमनानुपूर्वीद्रव्यं यदा यथोक्तां स्थितिमनुभूय तत एकाक्येव भवति तदा तस्य यथोक्तानन्तस्कन्धस्थित्यपेक्षया अनन्तोऽपि कालोऽन्तरे प्राप्यते, किमित्यसङ्ख्येय एवोक्तः?, अत्रोच्यते, स्यादेवं, हन्त यदि संयुक्तोऽणुरेतावन्तं कालं तिष्ठेद, एतच्च नास्ति पुद्गलसंयोगस्थितेरुत्कृष्टतोऽप्यसङ्ख्येकालत्वादित्युक्तमेव, अथ ब्रूयाद्-यस्मिन्नेव स्कन्धे संयुज्यतेऽसौ परमाणुः स चेत्स्कन्धोऽसङ्ख्येयकालाद्भिद्यते तर्खेतावतैव चरितार्थः पुद्गलसंयोगसङ्घयेयकालनियमो, विवक्षितपरमाणुद्रव्यस्य तु वियोगो मा भूदपीति, नैतदेवं, यस्मान्येन संयोगो जातस्तस्यासङ्ख्येयकालाद् वियोगश्चिन्त्यते, यदि च परमाण्वाश्रयः स्कन्धो वियुज्यते तर्हि परमाणोः किमायातं ?, तस्यान्यसंयोगस्य तदवस्थत्वात, तस्मादणुत्वेनासौ संयुक्तोऽसङ्ख्येयकालादणुत्वेनैव वियोजनीय इति यथोक्त एवान्तरकालो न त्वनन्त इति, कथं पुनरणुत्वेनैव तस्य वियोगश्चिन्तनीय इति चेत् सूत्रप्रामाण्यात्, प्रस्तुतसूत्रे व्याख्याप्रज्ञप्त्यादिषु च परमाणोः पुनः परमाणुभवनेऽसङ्खये यरूपस्यैवान्तरकाल त्योक्तत्वादित्यलं विस्तरेण । 'नानादव्वाइं पडुच्चे'त्यादि पूर्ववद्भावनीयम्।
अवक्तव्यकद्रव्याणामन्तरचिन्तायाम् ‘एगं दव्वं पडुच्चे'त्यादि, अत्र भावना-इह कश्चिद् द्विप्रदेशिक: स्कन्धो विघटितः, स्वतन्त्रं परमाणुद्वयं जातं, समयं चैकं तथास्थित्वा पुनस्ताभ्यामेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org