SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ मूलं-९५ ३०१ नेगमववहाराणं आनुपुव्वीदव्वाइं लोअस्स किं संखेज्जइभागं फुसंति जाव सव्वलोगं फुसंति ?, एगं दव्वं पडुच्च संखिज्जइभागं फुसंति असंखिज्जइभागं फुसंति नो संखिज्जे भागे फुसंति नो असंखिज्जे भागे फुसंति, नानादब्वाइं पडुच्च नियमा सव्वलोअंफुसंति, एवं अवत्तव्वगदव्वाइं भाणिअव्वाई, वृ. भावना क्षेत्रद्वारवदेव कर्तव्या, नवरं क्षेत्रस्पर्शनयोरयं विशेष:-क्षेत्रम्-अवगाहाक्रान्तप्रदेशमात्रं, स्पर्शना तु षड्दिक्कैः प्रदेशैस्तद्बहिरपि भवति, तथा च परमाणुद्रव्यमाश्रित्य तावदगाहनास्पर्शनयोरन्यत्रोक्तो भेदः-'एगपएसोगाढं सत्तपएसा य से फसुण'त्ति, अस्यार्थ:परमाणुद्रव्यमवगाढं तावदेकस्मिन्नेवाकाशप्रदेशे, स्पर्शना तु 'से'तस्य सप्त प्रदेशा भवन्ति, षड्दिग्व्यवस्थितान् षट्प्रदेशान् यत्र चावगाहस्तं स्पृशतीत्यर्थः, एवमन्यत्रापि क्षेत्रस्पर्शनयोर्भेदो भावनीयः। अत्र सौगता: प्रेरयन्ति-यदि-परमाणोः षड्दिक्स्पर्शनाऽभ्युपगम्यते तर्खेकत्वमस्य हीयते, तथाहि-प्रष्टव्यमत्र, किं येनैवे स्परूपेणासौ पूर्वाद्यन्यतरदिशा सम्बद्धस्तेनैवान्यदिग्भिरुत स्वरूपान्तरेण?, यदि तेनैव तदा अयं पूर्वदिकसम्बन्धोऽयं चापरदिक्सम्बन्ध इत्यादिविभागो न स्याद्, एकस्वरूपत्वात्, विभागभावे च षड्दिक्सम्बन्धवचनमुपप्लवत एव, अथापरो विकल्पः, कल्प्यते तर्हि तस्य षट्स्वरूपापत्त्वा एकत्वं विशीर्यते, उक्तं च-"दिग्भागभेदो यस्यास्ति, तस्यैकत्वं न युज्यत" इति, अत्र प्रतिविधीयते, इह परमाणुद्रव्यमादिमध्यान्त्यादिविभागरहितं निरशमेकस्वरूपमिष्यते, अत: सांशवस्तुसम्भवित्वात् परोक्तं विकल्पद्वयं निरास्पदमेव, अथानभ्युपगम्यमानाऽपि परमाणोः सांशताऽनन्तरोक्तविकल्प्बलेनापाद्यते, ननु भवन्तोऽपि तर्हि प्रष्टव्या:-कचिद् विज्ञानसन्ताने विवक्षितः कश्चिद्विज्ञानलक्षणक्षणः स्वजनकपूर्वक्षणस्य कार्य स्वजन्योत्तरक्षणस्य कारणमित्यत्र सौगतानां तावदविप्रतिपत्तिः, तत्रेहापि(तत्रापि) विचार्यते-किमसौ येन स्वरूपेण पूर्वक्षणस्य कार्य तेनैवोत्तरक्षणस्य कारणभुत स्वरूपन्तरेण ?, यद्याद्यः पक्षस्तहि यथा पूर्वापेक्षयाऽसौ कार्य तथोत्तरापेक्षयापि स्याद्, यथा वा उत्तरापेक्षया कारणं तथा पूर्वापेक्षयाऽपि स्याद्, एकस्वरूपत्वात्, तस्येति, अथ द्वितीय: पक्षस्तर्हि तस्य सांशत्वप्रसङ्गोऽत्रापि दुर्वार: स्याद्, अथ निरंश एवासौ ज्ञानलक्षणक्षणोऽकार्याकारणरूपः तत्तद्वस्तुव्यापृतत्वात् तथा तथा व्यपदिश्यते, न पुनस्तस्यानेकस्वरूपत्वमस्ति, नन्वस्माकमपि नेदमुत्तरमतिदुर्लभं स्यात्, यतो द्रव्यतया निरंश एव परमाणुस्तथाविधाचिन्त्यपरिणामत्वात्, दिष्ट्केन सह नैरन्तर्येणावस्थितवात् तस्य स्पर्शक उच्यते, न पुनस्तत्रांशैः काचित् समस्तीनि, अत्र बहुवक्तव्यं तत्तु नोच्यते, स्थानान्तरेषु चर्चितत्वादित्यलं विस्तरेण। उक्तं स्पर्शनाद्वारम्, इदानीं कालद्वारं बिभाणिषुराह मू.(९६ नेगमववहाराणं आनुपुव्वीदव्वाइंकालओ केवच्चिर होइ?, एगंदव्वं पडुच्च जहन्नेणं एगं समयं उक्कोसेणं असंखेज्ज कालं, नानादब्वाइं पडुच्च नियमा सव्वद्धा, अनानुपुवीदव्वाइं अवत्तव्वगदव्वाइं च एवं चेव भाणिअव्वाई। वृ. नैगमव्यवहारयोरानुपूर्वीद्रव्याणि 'कालत:' कालमाश्रित्य कियच्चिरं' कियन्तं कालं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy