SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ ३०० अनुयोगद्वार - चूलिकासूत्रं होज्जा ?, एगं दव्वं पडुच्च संखेज्जइभागे वा होज्जा असंखेज्जइभागे वा होज्जा संखेज्जेसु भागेसु वा होज्जा असंखिज्जेसु भागेसु वा होज्जा सव्वलोए वा होज्जा, नानादव्वाइं पडुच्च नियमा सव्वलोए होज्जा । नेगमववहाराणं अनानुपुव्वीदव्वाइं किं लोअस्स संखिज्जइभागे होज्जा जाव सव्वलोए वा होज्जा ?, एगं दव्वं पडुच्च नो संखेज्जइभागे होज्जा असंखिज्जइभागे होज्जा नो संखेज्जेसु भागेसु होज्जा नो असंखेज्जेसु भागेसु होज्जा नो सव्वलोए होज्जा, नानादव्वाइं पडुच्च नियमा सव्वलोए होज्जा, एवं अवत्तव्वगदव्वाइं भाणिअव्वाइं । वृ. आनुपूर्वीद्रव्याणि किं लोकस्यैकस्मिन् सङ्ख्याततमे भागे 'होञ्ज'त्ति आर्षत्वाद्भवन्ति अवगाहन्त इतियावत्, यदिवा एकस्मिन्नसङ्ख्याततमे भागे भवन्ति, उत बहुषु सङ्ख्येयेषु भागेषु भवन्ति, आहोश्चिद्बहुष्वसङ्ख्येयेषु भागेषु भवन्त्यश्च च सर्वलोके भवन्तीति पञ्च पृच्छास्थानानि, अत्र निर्वचनसूत्रस्येयं भावना - इहानुपुर्वीद्रव्याणि त्र्यणुकस्कन्धादीन्यनन्ताणुकस्कन्धपर्यवसानान्युक्तानि, तत्र च सामान्यत एकं द्रव्यमाश्रित्य तथाविधपरिणामवैचित्र्यात् किञ्चिल्लोकस्यैकस्मिन् सङ्ख्याततमे भागे भवति, एकं तत्सङ्ख्यात भागमवगाह्य तिष्ठतीत्यर्थः, अन्यत्तु तदसंख्येयभागमवगाहते, अपरं तु बहूँस्तत्संख्येयान् भागानवगाह्य वर्तते, अन्यच्च बहूँस्तदसंख्येयभागानवगाह्य तिष्ठतीति, 'सव्वलोए वा होञ्ज' त्ति इहानन्तानन्तपरमाणुप्रचयनिष्पन्नं प्रज्ञापनादिप्रसिद्धाचित्तमहास्कन्धलक्षणमानुपूर्वीद्रव्यं समयमेकं सकललोकावगाहि प्रतिपत्तव्यमिति । कथं पुनरयमचित्तमहास्कन्धः सकललोकावगाही स्याद् ?, उच्यते, समुद्घातवर्तिकेवलिवत्, तथाहि - लोकमध्यव्यवस्थितोऽसौ प्रथमसमये तिर्यगसंख्यातयोजनविस्तरं संख्यातयोजनविस्तरं वा ऊर्ध्वाधस्तु चतुर्दशरज्ज्वायतं विश्रसापरिणामेन वृत्तं दण्डं करोति, द्वितीये कपाटं, तृतीये मन्थानं, चतुर्थे लोकव्याप्तिं प्रतिपद्यते, पञ्चमे अन्तराणि संहरति, षष्ठे सप्तमे कपाटमष्टमे तु दण्डं संहृत्य खण्डशो भिद्यत इत्येके, अन्ये त्वन्यथापि व्याचक्षते, तत्तु विशेषावश्यकादवसेयमिति । वाशब्दः समुच्चये, एवं यथासम्भवमन्यत्रापि । 'नानादव्वाइं पडुच्चे'त्यादि, नानाद्रव्याण्यानुपूर्ववीपरिणामवन्ति प्रतीत्य प्रकृत्य वा अधिकृत्येत्यर्थः 'नियमात्' नियमेन सर्वलोके भवन्ति, न संख्येयादिभागेषु, यतः सर्वलोकाकाशस्य स प्रदेशोऽपि नास्ति यत्र सूक्ष्मपरिणामवन्त्यनन्तान्यानुपूर्वीद्रव्याणि न सन्तीति । अनानुपूर्व्यवक्तव्यकद्रव्येषु तावत् परमाणुरुच्यते स चैकाकाशप्रदेशावगाढ एव भवति, अव्यक्तव्यकं तु द्वयणुकस्कन्धः स चैकप्रदेशावगाढो द्विपदेशावगाढो वा स्यादिति यथोक्तभागवृत्तितैवेति, नानाद्रव्यभावना पूर्ववद्, इत्युक्तं क्षेत्रद्वारम् । साम्प्रतं स्पर्शनाद्वारमुच्यते मू. (९५) नेगमववहाराणं आनुपुव्वीदव्वाइं लोगस्स किं संखेज्जइभागं फुसंति असंखेज्जइभागं फुसंति संखेज्जे भागे फुसंति असंखेज्जे भागे फुसंति सव्वलोगं फुसं ?, एगं दव्वं पडुच्च लोगस्स संखेज्जइभागं वा फुसंति जाव सव्वलोगं वा फुसंति, नानादव्वाइं पडुच्च निअमा सव्वलोगं फुसंति । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy