SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ मूलं-९१ २९९ वृ.सदर्थविषयं पदं सत्पदं तस्य प्ररूपणं-प्रज्ञापनं सत्पदप्ररूपणं तस्य भावः सत्पदप्ररूपणता सा प्रथमं कर्तव्या, इदमुक्तं भवति-इह स्तम्भकुम्भादीनि पदानि सदर्थविषयाणि दृश्यन्ते, खरशृङ्गव्योमकुसुमादीनि त्वसदर्थविषयाणि, तत्राऽऽनुपूर्व्यादिपदानि किं स्तम्भादिपदानीव सदर्थविषयाण्याहोश्चित्(स्वित्)खरविषाणादिपदवत् असदर्थगोचराणीत्येतत् प्रथमं पर्यालोचयित्यं, तथा आनुपूर्व्यादिपदाभिधेयद्रव्याणां प्रमाणं-सङ्ख्यास्वरूपंप्ररूपणीयं, चः समुच्चये, एवमन्यत्रापि, तथा तेषामेव क्षेत्रं-तदाधारस्वरूपं प्ररूपणीयं, कियति क्षेत्रे तानि भवन्तीति चिन्तनीयमित्यर्थः, तथा स्पर्शना च वक्तव्या, कियत् क्षेत्रं तानि स्पृशन्तीति चिन्तनीयतमित्यर्थः, तथा कालश्च तत्स्थितिलक्षणो वक्तव्यः, तथा अन्तरं-विवक्षितस्वभावपरित्यागे सति पुनस्तद्भावप्राप्तिविरहलक्षणं प्ररूपणीयं, तथा आनुपूर्वीद्रव्याणि शेषद्रव्याणा कतिभागे वर्तन्ते इत्यादिलक्षणो भागः प्ररूपणीयः, तथा आनुपूर्व्यादिद्रव्याणि कस्मिन् भावे वर्तन्ते इत्येवंरूपो भावः प्ररूपणीयः, तथा अल्पबहुत्वं चानुपूर्व्यादिद्रव्याणां द्रव्यार्थप्रदेशार्थउभयार्थताश्रयणेन परस्परं स्तोकबहुत्वचिन्तालक्षणं प्ररूपणीयम्, एवकारोऽवधारणे, एतावत्प्रकार एवानुगम इति गाथासमासार्थः। व्यासार्थं तु ग्रन्थकारः स्वयमेव बिभणिषुराद्यावयवमधिकृत्याऽऽह मू.(९२) नेगमववहाराणं आनुपुत्वीदव्वाइं किं अत्थि नत्थि?, नियमा अत्थि, नेगमववहाराणं अनानुपुव्वीदव्वाइं किं अत्थि नत्थिं?, नियमा अस्थि नेगमववहाराणं अवत्तव्वगदव्वाई किं अत्थि नत्थि?, नियमा अत्थि। वृ. नैगमव्यवहारयोरानुपूर्वीशब्दभिधेयानि द्रव्याणि त्र्यणुकस्कन्धादीनि किं सन्ति नेति प्रश्नः, अत्रोत्तरम्-'नियमा अत्थि' इति, एतदुक्तं भवति-नेदं खरशृङ्गादिवदानुपूर्वीपदमसदर्थगोचरम्, अतो नियमात् सन्ति तदभिधेयानि द्रव्याणि, तानि च त्र्यणुकस्कन्धादीनि पूर्व दशितान्येव, एवमनानुपूर्व्यवक्तव्यकपक्षद्वयेऽपि वाच्यम्। कृता सत्पदप्ररूपणा, अथ द्रव्यप्रमाणमभिधित्सुराह मू. (९३) नेगमववहाराणं आनुपुव्वीदव्वाइं किं संखिज्जाइं असंखिज्जाइं अनंताई?, नो संखिज्जाइंनो असंखिज्जाइं अनंताई, एवं अनानुपुव्वीदव्वाइं अवत्तव्वगदव्वाइंच अनंताई भाणिअव्वाइं। वृ.'नेगमववहाराणं आनुपुव्वीदव्वाइं कि संखेञ्जाइ'मित्यादि, अयमत्र निर्वचनभावार्थ:इहानुपूर्व्यनानुपूर्व्यवक्तव्यकद्रव्याणि प्रत्येकमनन्तान्येकैकस्मिन्नप्याकाशप्रदेशे प्राप्यन्ते, किं पुनः सर्वलोके, अतः सङ्ख्येयासङ्ख्येयप्रकारद्वयनिषेधेन त्रिष्वपि स्थानेष्वानन्त्यमेव वाच्यमिति। न च वक्तव्यं कथमसङ्ख्येये लोके अनन्तानि द्रव्याणि तिष्ठन्ति?, अचिन्त्यत्वात् पुद्गलपरिणामस्य, दृश्यते चैकगृहान्तर्वाकाशप्रदेशेष्वेकप्रदीपप्रभापरमाणुव्याप्तेष्वप्यनेकापरप्रदीपप्रभापरमाणूनां तत्रैवावस्थानं, त चाक्षिदृष्टेऽप्यर्थेऽनुपपत्तिः, अतिप्रसङ्गात्, इत्यलं प्रपञ्चेन। इदानी क्षेत्रद्वारमुच्यते - मू. ( ९४ ) नेगमववहाराणं आनुनुव्वीदव्वाइं लोगस्स किं संखिज्जइभागे होज्जा असंखिज्जइभागे होज्जा संखेज्जेसु भागेसु होज्जा असंखेज्जेसु भागेसु होज्जा सव्वलोए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy