________________
२९८
अनुयोगद्वार-चूलिकासूत्रं भङ्गानामर्थकथनम्।
एवं द्विकसंयोगेऽपि त्रिपदेशिकस्कन्धः परमाणुपुद्गलश्चानुपूर्व्यनानुपूर्वीत्वेनोच्यते, यदा त्रिपदेशिकस्कन्धः परमाणुपुद्गलश्च प्रतिपादायितुमभीष्टो भवति तदा 'अत्थि आनुपुव्वी अ अनानुपुव्वी अ' इत्येवं भङ्गो निष्पद्यत इत्यर्थः, एवमर्थकथनपुरस्सराः शेषभङ्गा अपि भावनियाः । अत्राह-नन्वर्थोऽप्यानुपूर्व्यादिपदानां त्र्यणुकस्कन्धादिकोऽर्थपदप्ररूपणतालक्षणे प्रथमद्वारे कथित एव तत्किमनेन?, सत्यं, किन्तु तत्र पदार्थमात्रमुक्तम्, अत्र तु तेषामेवाऽऽनुपूर्व्यादिपदानां भङ्ककरचनासमादिष्टानामर्थः कथ्यत इत्यदोषो, नयमतवैचित्र्यप्रदर्शनार्थं वा पुनरित्थमर्थोपदर्शनमित्यलं विस्तरेण । 'से त'मित्यादि निगमनम्।
उक्ता भङ्गोपदर्शनता, अथ समवतारं बिभणिषुराह
मू.(८९)से किं तं समोआरे?, २ नेगमववहाराणं आनुपुव्वीदव्वाइंकहिंसमोअरंति?, किं आनुपुव्वीदव्वेहिंसमोअरंति? आनुपुव्वीदव्वेहिंसमोअरंति? अवत्तव्वयदव्वेहिं समोअरंति?, नेगमववहाराणं आनुपुव्वीदव्वाइं आनुपुब्बीदव्वेहि समोअरंति नो अनानुपुव्वीदव्वेहि समोअरंति नो अवत्तव्वदव्वेहि समोअरंति,
नेगमववहाराणं आनुपुव्वीदव्वाइंकहिं समोअरंति?, किंआनुपुव्वीदव्वेहिंसमोअरंति? अनानुपुव्वीदव्वेहि समोअरंति ? अवत्तव्वयदव्वेहिं समोअरंति ?, नो अनानुपुव्वीदव्वेहि समोअरंति अनानुपुव्वीदव्वेहिं समोअरंति नो अवत्तव्वदव्वेहिं समोअरंति,
नेगमववहाराणं अवत्तव्वयदव्वाइं कहिं समोअरंति?, किं आनुपुव्वीदव्वेहि समोअरंति? अनानुपुव्वीदव्वेहिंसमोअरंति? अवत्तव्वयदव्वेहिंसमोअरंति?, नो अनानुपुचीदव्वेहिंसमोअरंति नो अनानुपुव्वीदव्वेहिं समोअरंति नो अवत्तव्वदव्वेहि समोअरंति । से तं समोआरे। - वृ. अत्र कोऽयं समवतार इति प्रश्ने सत्याह-'समोआरे'त्ति, अयं समवतार उच्यत इति शेषः, कः पुनरयमित्याह-'नेगमववहाराणं आनुपुव्वीदव्वाइं कहिं समोयरंती'त्यादिप्रश्नः, अत्रोत्तरम्-'नेगमववहारणं आनुपुव्वी' इत्यादि, आनुपूर्वीद्रव्याणि आनुपूर्वीद्रव्यलक्षणायां स्वजातावेव वर्तन्ते, न स्वजात्यतिक्रमेणेत्यर्थः, इदमुक्तं भवति-सम्यग्-अविरोधेनावतरणंवर्तनं समवतार:-अविरोधवृत्तिना प्रोच्यते, सा च स्वजातिवृत्तावेवस्यात्, परजातिवृत्तेविरुद्धत्वात्, ततो नानादेशादिवृत्तीन्यपि सर्वाण्यानुपूर्वीद्रव्याणि आनुपूर्वीद्रव्येष्वेव वर्तन्ते इति स्थितम् । एवमनानुपूर्व्यादीनामपि स्वस्थानावतारो भावनीयः। 'से त'मित्यादि निगमनम्। उक्तः समवतारः, अथानुगमं बिभणिषुरुपक्रमते
मू. (९०) से किं अनुगमे?, २ नवविहे पन्नत्ते, तंजहा. वृ.अत्रोत्तरम्-'अनुगमे नवविहे'इत्यादि, तत्र सूत्रार्थस्यानुकूलमनुरूपं वा गमनं-व्याख्या
नमनुगमः, अथवा सूत्रपठनादनु-पश्चाद्गमनं-व्याख्यानमनुगमः, यदिवा अनुसूत्रमर्थो गम्यतेज्ञायते अनेनेत्यनुगमोव्याख्यानमेवेत्याद्यन्यदपि वस्त्वविरोधेन स्वधिया वाच्यमिति । स च नवविधो-नवप्रकारो भवति, तदेव नवविधत्वं दर्शयति-'तद्यथे'त्युपदर्शनार्थः, 'संतपय' गाहा, मू.(९१) संतपयपरूवणया १ दव्वपमाणं च २ खित्त ३ फुसणा४ ।
कालो य ५ अंतरं ६ भाग ७ भाव ८ अप्पाबहुंचेव।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org