________________
अनुयोगद्वार - चूलिकासूत्रं
ऋजुसूत्रशब्दमभिरूढैवंभूता नयाः " एते च द्रव्यास्तिकपर्यायास्तिकलक्षणे नयद्वयेऽन्तर्भाव्यन्ते, द्रव्यमेव परमार्थतोऽस्ति न पर्याया इत्यभ्युपगमपरो द्रव्यास्तिकः, पर्याया एव वस्तुतः सन्ति न द्रव्यमित्यभ्युपगमपरः पर्यायास्तिकः, तत्राऽऽस्त्रयो द्रव्यास्तिकाः, शेषास्तु पर्यायास्तिकाः, पुनर्द्रव्यास्तिकोऽपि सामान्यतो द्विविधो विशुद्धोऽविशुद्धश्च तत्र नैगमव्यवहाररूपोऽविशुद्धः, संग्रहरूपस्तु विशुद्धः, कथम् ?
यतो नैगमव्यवहारावनन्तपरमाण्वनन्तद्व्यणुकाद्यनेकव्यक्त्यात्मकं कृष्णाद्यनेकगुणाधारं त्रिकालविषयं वाऽविशुद्धं द्रव्यमिच्छतः, संग्रहश्च परमाण्वादिकं परमाण्वादिसाम्यादेकं तिरोभूतगुणकलापमविद्यमानपूर्वापरविभागं नित्यं सामान्यमेव द्रव्यमिच्छति, एतच्च किलानेकताद्यभ्युपगमकलङ्केनालकङ्कितत्वाच्छुद्ध, ततः शुद्धद्रव्याभ्युपगमपरत्वादयमेव शुद्धः । अत्र च द्रव्यानुपूर्व्येव विचारयितुं प्रक्रान्ता, अतः शुद्धधाशुद्धस्वरूपं द्रव्यासस्ततिकमतेनैवासो दर्शयिष्यते न पर्यायास्तिकमतेन, पर्यायविचारस्याप्रक्रान्तत्वादित्यलं विस्तरेण ।
तत्र नैगमव्यहारसंमातामिमां दर्शयितुमाह
२९४
-
मू. ( ८३ ) से किं तं नेगमववहारणं अनोवनिहिआ दव्वानुपुव्वी ?, २ पंचविहा पन्नत्ता, तंजहा- अट्ठपयपरूवणया १ भंगसमुक्कित्तणया २ भंगोवदंसणया ३ समोआरे४ अनुगमे ५
वृ. अत्र निर्वचनम् - 'नेगमववहारणं अनोवनिहिआ दव्वानुपुव्वी पंचविहे' त्यादि, अर्थपदप्ररूपणतादिभिः पञ्चभिः प्रकारैवर्विचार्यमाणत्वात्, पञ्चविधा - पञ्चप्रकारा प्रज्ञप्ता, तद्यथाअर्थपदप्ररूणतया भङ्गसमुत्कीर्तनता भङ्गोपदर्शनता समवतारोऽनुगमः । एभि: पञ्चभिः प्रकारैनैगमव्यवहारनयमतेन अनौपनिधिक्याः द्रव्यानुपूर्व्याः स्वरूपं निरूप्यत इतीह तात्पर्यम् । तत्र अर्यत इत्यर्थः त्र्यणुकस्कन्धादिस्तद्युतं तद्विषयं वा पदमानुपूर्व्यादिकं तस्य प्ररूपणंकथनं तद्भावोऽर्थपदप्ररूपणता, इयमानुपूर्व्यादिका संज्ञा अयं च तदभिधेयस्त्र्यणुकादिरर्थः संज्ञीत्येवं संज्ञासंज्ञिसम्बन्धकथनमात्रं प्रथमं कर्तव्यमिति भावार्थ: ।
तेषामेवानुपूर्व्यादिपदानां समुदिताना वक्ष्यमाणन्यायेन सम्भविनो विकल्पा- भङ्गासमुत्कीर्तनं, तद्भावो भङ्गसमुत्कीर्तनता, आनुपूर्व्यादिपदनिष्पन्नानां प्रत्येकभङ्गानां द्व्यादिसंयोगभङ्गानां च समुच्चारणमित्यर्थः । तेषामेव सूत्रमात्रतया अनन्तरसमुत्कीर्तितभङ्गानां प्रत्येकं स्वाभिधेयेन त्र्यणुकाद्यर्थेन सहोपदर्शनं भङ्गोपदर्शनं, तद्भावो भङ्गोपदर्शनता । भङ्गसमुत्कीर्तने भङ्गकविषयं सूत्रमेव केवलमुच्चारणीयं, भङ्गोपदर्शने तु तदेव स्वविषयभूतेनार्थेन सहोच्चारयितव्यमिति विशेषः । तथा तेषामेवानुपूर्व्यादिद्रव्याणां स्वस्थानपरसथानान्तर्भावचिन्तनप्रकारः
समवतारः ।
तथा तेषामेव आनुपूर्व्यादिद्रव्याणां सत्पदप्ररूपणादिभिरनुयोगद्वारैरनुगमनं विचारणमनुगमः । तत्राऽऽद्यभेदं विवरीषुराह
मू. ( ८४ ) से किं तं नेगमववहारणं अट्ठपयरूवणया ?, २ तिपएसिए आनुपुव्वी चउप्पएसिए आनुपुव्वी जाव दसपएसिए आनुपुव्वी संखेज्जपएसिए आनुपुव्वी असंखिज्जपएसिए आनुपुव्वी अनंतपएसिए आनुपुव्वी, परमाणुपोग्गले अनानुपुव्वी, दुपएसिए अवत्तव्वए, तिपएसिआ आनुपुवीओ जाव अनंतपएसिसाओ आनुपुव्वीओ, परमाणुपोग्गला अनानु
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International