SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ me मूलं-८२ २९३ णंएगो अनुवउत्तो आगमओ एगा दव्वानुपुव्वी जाव कम्हा? जइ जाणए अनुवउत्ते न भवइ, से तं आगमओ दव्वानुपुवी। से किंतं नोआगमओ दव्वानुपुवी?, २तिविहा पन्नत्ता, तंजहा-जाणयसरीरदव्वानुपुव्वी भविअसरीरदव्वानुपुव्वी जाणयसरीरभविअसरीरवइरित्ता दव्वानुपुवी। से किं तं जाणयसरीरदव्यानुपुव्वी?, आनुपुव्वीपयत्थाहिगारजाणयस्स जं सरीरयं ववगयचुयचावियचत्तदेहं सेसं जहा दव्वावस्सए तहा भाणिअव्वं, जाव से तं जाणयसररीदव्वानुपुव्वी। सेकिंतं भविअसरीरदव्वानुपुवी?, २ जे जीवे जोणीजम्मणनिक्खंते सेसंजहा दव्वावस्सए जाव से तं भविअसररीदव्वानुपुव्वी। से किंतं जाणयसरीरभविअसरीरवइरित्ता दव्वानुपुवी?, २ दुविहा पन्नत्ता, तंजहा-उवनिहिआय अनोवनिहिआ य, तत्थ णं जा सा उवनिहिआ सा ठप्पा, तत्थ नंजा सा अनोवनिहिआ सा दुविहा पन्नत्ता, तंजहा-नेगमववहाराणं संगहस्स य। वृ.अत्र नामस्थापनानुपूर्वीसूत्रे नामस्थापनावश्यकसूत्रव्याख्यानुसारेण व्याख्येये, द्रव्यानुपूर्वीसूत्रमपिद्रव्यावश्यकवदेव भावनीयं, यावत् 'जाणयसरीरभविअसरीरवइरित्ता दव्वानुपुव्वी दुविहे'त्यादि, तत्र निधानं निधिनिक्षेपो न्यासो विरचना प्रस्तार: स्थापनेति पर्यायाः, तथा च लोके-'निधेहीदं निहितमिद'मित्यत्र निपूर्वस्य धागो निक्षेपार्थः प्रतीयत एव, उप-सामीप्येन निधिरुपनिधिः-एकस्मिन् विवक्षितेऽर्थे पूर्वं व्यवस्थापिते तत्समीप एवापरापरस्य वक्ष्यमाणपूर्वानुपूर्वादिक्रमेण यन्निक्षेपणं स उपनिधिरित्यर्थः, उपनिधिः प्रयोजनं यस्या आनुपूर्व्याः, सा औपनिधिकीति प्रयोजनार्थे इकणप्रत्यः, सामायिकाध्ययनादिवस्तूनां वक्ष्यमाणपूर्वानुपूर्व्यादिप्रस्तारप्रयोजना आनुपूर्वी औपनिधिकीत्युच्यत इति तात्पर्यम् । __ अनुपनिधिः-वक्ष्यमाणपुर्वानुपूर्व्यादिक्रमेणाविरचनं प्रयोजनमस्या इत्यनौपनिधिकी, यस्यां वक्ष्यमाणपूर्वानुपूर्व्यादिक्रमेण विरचना न क्रियते सा व्यादिपरमाणुनिष्पन्नस्कन्धविषया आनुपूर्वी: अनौपनिधिकीत्युच्यते इति भावः । आह-नन्वानुपूर्वी परिपाटिरुच्यते, भवता च त्र्यणुकादिकोऽनन्ताणुकावसान एकैकः स्कन्धोऽनौपनिधिक्यानुपूर्वीत्वेनाभिप्रेतो, न च स्कन्धगतत्र्यादिपरमाणूनां नियता काचित्त परिपाटिरस्ति, विशिष्टैकपरिणामपरिणतत्वात् तेषां, तत् कथमिहानुपूर्वीत्वं?, सत्यं, किन्तु त्र्यादिपरमाणूनामादमध्यायसानभावेन नियतपरिपाट्य व्यवस्थापनयोग्यताऽस्तीति योग्यतामाश्रित्यात्राप्यानुपूर्वीत्वं न विरुध्यते। ___ 'तत्थण' मित्यादि, तत्र याऽसावौपनिधिकी द्रव्यानुपूर्वी सा स्थाप्या-सांन्यासिकी तिष्ठतु तावदल्पतरवक्तव्यत्वेन, तस्या उपरि वक्ष्यमाणत्वादिति भावः । अनौपनिधिकी तु पश्चानिदिष्टाऽपि बहुतरव्यक्तव्यत्वेन प्रथमं व्याख्यायते, बहुतरवक्तव्यत्वे हि वस्तुनि प्रथममुच्यमानेऽल्पतरवक्तव्यवस्तुगतः, कश्चिदर्थस्तन्मध्येऽप्युक्त एव लभ्यते इति गुणाधिक्यं पर्यालोच्य सूत्रकारोऽनौपनिधिक्या: स्वरूपं विवरीषुराह 'तत्थ न'मित्यादि, तत्र याऽसावनौपनिधिकी द्रव्यानुपूर्वी सा नयवक्तव्यताश्रयणात् द्रव्यास्तिकनयमतेन द्विविधा प्रज्ञप्ता, तद्यथा-नैगमव्यवहारयोः, संग्रहस्य च, नैगमव्यवहार Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy